________________ चेइयवंदण 1308 - अभिधानराजेन्द्रः - भाग 3 चेइयवंदण कप्पइ चे व काउं किं चि चिइवंदणसज्झायज्झाणाइयं फलासायमभिकंखुगाणं, एएणं अटेणं गोयमा ! एवं वुच्चइ जहा णं गोयमा ! सुत्तत्थोभयं पंचमंगलं थिरपरिचयं काऊणं तओ इरियावहियं अहीए।। महा०३ अ०॥ दशवैकालिकद्वितीयचूलिकावृत्तौ तु ईपिथिक्या प्रतिक्रमणं विना न कल्पते किमपि कर्तुमिति, इत्यागमप्रामाण्यादीर्यापथिकीपूर्वमेव सर्वमपि धर्मानुष्ठानमनुष्ठेयम्, इत्थमेव चित्तोपयोगेनानुष्ठानस्य साफल्यभणनात्। अन्यथा प्रायश्चित्तैकाग्रताया अप्यभावात् सूत्रप्रामाण्याच्च पुष्कलिना शङ्ख प्रति श्रावकवन्दनस्यापि तथैव विधानाच / संघा०१ प्रस्ता०। अथ चेर्यापथिकीप्रतिक्रमणपूर्वकं चैत्यवन्दमिति पूर्वमुक्तं, तच्च युक्तं, यतो महानिशीथे-“इरिआवहिए अपडिक्कताए न किंचि कप्पइ चेइअवंदणसज्झायाऽऽवस्सयाइ काउं" इति। अन्या अपि प्रतिक्रमणादिक्रिया एतत्प्रतिक्रमणपूर्विकाः शुक्ष्यन्ति। यतो विवाहचूलिकायाम् - "दिविड्डि कुसुमसेहर, सुचइ दिव्वाहिगारमज्झम्मि। ठवणायरिअंठविउं, पोसहसालाएँ तो सोही।।१।। उम्मुक्कभूसणो सो, इरिआइपुरस्सरं च मुहपुत्ति। पडिलेहिऊण तत्तो, चउव्विहं पोसहं कुणइ // 2 // " ति / / तथाऽऽवश्यकचूर्णावपि-"तत्थ दढरो नाम सावओ सरीरचिंतं काऊण पडिस्सयं वचइ, वाहे तेण पूरएण तिन्नि निसीहिआओ कयाओ, एवं सो इरिआई दडरेण सरेण करेइ" त्ति / तथा च "ववहारावस्सयमहानिसीहभगवईविवाहचूलासुपडिकमणचुनि-माइसु पढमंइरिआपडिक्कमण" इत्याधुक्तेरतः प्रथममीर्यापथिकीसूत्रं व्याख्यायते / तत्र-"इच्छामि पडिक्कमिउं" इत्यादि"तस्स मिच्छामि दुक्कम" इत्यन्तरम्। ध०२ अधि०। एवमालोचनाप्रतिक्रमणरूपं द्विविधं प्रायश्चितं प्रतिपद्य कायोत्सर्गलक्षणप्रायश्चित्तेन पुनरात्मशुद्ध्यर्थमिदं पठति-"तस्स उत्तरीकरणेणं" इत्यादि "ठामि काउस्सगं” इति पर्यन्तम् / ध०२ अधि० / सं०। संपूर्णकायोत्सर्गश्च-"नमो अरिहंताणं" इति नमस्कारपूर्वकं पारयित्वा चतुर्विंशतिस्तवं संपूर्ण पठति / ध०२ अधि०। “पयभूमिपमज्जणं च तिक्खुत्तो" इति सप्तमत्रिकभावार्थः। (8) स्तुत्यक्षराणि / अथ वर्णादित्रयमित्यष्टमं त्रिकं गाथापूर्वार्द्धन भाष्यकृद्विवृण्वन्नाहवन्नतिअं वन्नत्था-लंवणमालवणं तु पडिमाई। वर्णत्रिकमुच्यते, किमित्याह-वार्थालम्बनानि, तत्र वर्णाः स्तुनिदण्डादिगतान्यक्षराणि, ते च स्फुटसपदच्छेदसुविशुद्धान्यूना-तिरिक्ता उच्चार्याः / यदवादि भाष्ये - "थुइदंडाई वन्ना, उच्चारियव्वा फुडा सुपरिसुद्धा। सरवंजणाइभिन्ना, सपयच्छेया उचियघोसा।।१।" अर्थश्च तेषामेवाभिधेयः, स यथापरिज्ञानं चिन्त्यः। न्यगादिच"चिंतेयव्यो सम्म, तेसिं अत्थो जहापरित्राण। सुन्नहियत्तमिहरिहा, उत्तमफलस्राहगं न भवे / / 1 // " आलम्बनं तु स्वयमेव भाष्यक्रद् व्याख्यानयति “आलम्बणं तु पडिमादीनि” आलम्बनं पुनदैवान् वन्दमानस्य चन्द्रनरेन्द्रस्येवा- | अश्रणीयं, किं तत् प्रतिमादि; आदिशब्दाद् भावार्हदादिपरिग्रहः / यदभाणि"भावारिहंतपमुह, सरिज आलंवणं पि दंडेसु। अहवा जिणविंबाई, जस्स पुरा वंदणाइ ति" / / 1 / / सदा०१ प्रस्ता०। (अत्र चन्द्रनरेन्द्रकथा सदाचारदवसेया) (E) अथ नवमं मुद्रात्रिकं नामतो गाथोत्तरार्द्धनाऽऽहजोगजिणमुत्तसुत्ती-मुद्दाभेएण मुद्दतियं / मुद्राशब्दः पृथग योज्यते, ततश्च योगमुद्राजिनमुद्रामुक्ताशुक्तिमुद्राभेदान्मुद्रात्रिकं भवतीत्यर्थः। आसां स्वरूपमाहअन्नुन्नंतरिअंगुलि-कोसागारेहिँ दोहिँ हत्थेहिं। पिट्टो वरि कुप्परसं-ठिएहिँ तह जोगमुद्दत्ति // 12 // उभयकरजोडनेन परस्परमध्यप्रविष्टाङ लिभिः कृत्वा पद्मकुड्मलाकाराभ्यां, द्वाभ्या हस्ताभ्यां, तथा उदरस्योपरि कुहणिकया व्यवस्थिताभ्यां, योगो हस्तयोर्योजनविशेषः, तत्प्रधाना मुद्रा योगमुद्रा इत्येवं स्वरूपा भवतीति गम्यम् // 12 // चत्तारि अंगुलाई, पुरओ ऊणाइ जत्थ पच्छिमओ। पायाणं उस्सग्गो, एसा पुण होइ जिणमुद्रा / / 13 / / चत्वार्यङ्गुलानि स्वकीयान्येव पुरतोऽग्रतस्तथा ऊनानि किञ्चिच्चस्वार्येवाङ्गुलानि यत्र मुद्रायां पश्चिमतः पश्चाद्भागे, एवं पादयोरुत्सर्गः परस्परसंसर्गत्यागोऽन्तरमित्यर्थः / एषा पुनर्भवति जिनानां कृतकायोत्सर्गाणां सत्का, जिना वा विघ्नजैत्री मुद्रा जिनमुद्रेति / / 13 / / भवति च यथा स्थानस्थापितमुद्रात्रयचैत्यवन्दनाकरणतोऽत्रामुत्रापि विघ्नसजातविघातः; उक्तं चैत्यवन्दना पश्चाशकवृत्तौ / / मुत्तासुत्तीमुद्दा, जत्थ समा दो वि गम्भिया हत्था। ते पुण निडालदेसे, लग्गा अन्ने अलग्गति / / 14 / / मुक्ताशुक्तिरिव मुद्रा हस्तविन्यासविशेषो मुक्ताशुक्तिमुद्रा, सा चैवं समावन्योन्यान्तरिताङ्गुलितयाऽविषमौ द्वावपि न त्वेको गर्भिताविव गर्भितावुन्नतमध्यौ, न तु नीरन्ध्रौ, चिपिटावित्यर्थः / हस्तौ, तौ पुनरुभयतोऽपि सोल्लासौ करौ भालमध्यभागेन लग्नौ संबद्धौ कार्यावित्येके सूरयः प्राहुः / अन्ये पुनस्तत्रालग्नावित्येवं वदन्ति, नेत्रमध्यभागवाकाशसड़तावित्यर्थः / / 14 // आसां विषयविभागमाहपंचंगो पणिवाओ-यपादो होइ जोगमुद्दाए। वंदण जिणमुद्दाए, पणिहाणं मुत्तसुत्तीए।।१५।। पञ्चाङ्गानि जान्वादीनि विवक्षितव्यापारवन्ति यत्र स पञ्चाङ्ग प्रतिपातः प्रणामः प्रणिपातदण्डकः / पाठस्यादाववसाने च कर्त्तव्यतथा, स चोत्कर्षतः पञ्चागः कार्यः / यदुक्तमाचाराङ्गचूर्णी-“कइनमति सिरपंचमेण कारणं"ति। यत्पुनः “वामंजाणुंअंचेइ" इत्याधुक्तं, तत्प्रभुत्वादिकारणाश्रितत्वात्र यथोक्तविधिबाधकतया प्रभवितुमर्हति, चरितानुयादत्वाच / यद्यपीह पञ्चाङ्ग प्रणिपात इत्युक्तम्, तथापि पञ्चाङ्गमुद्रया प्रणिपातः कार्य इति द्रष्टव्यम्, मुद्राणमेवाधिकृतत्वात् / युक्तं च पञ्चाङ्गया अपि मुद्रात्वमङ्गविन्यासविशेषरूपत्वात्, योगमुद्रादिति। आह-नन्वेवम्"मुद्दातिय” इति उक्त संख्याविघातप्रसङ्गः, नैतदेवम् अभिप्रायापरि