________________ ओसप्पिणी 106 - अभिधानराजेन्द्रः - भाग 3 ओसप्पिणी ति सौहृतं सौनन्दं नामऊर्वीकृतमुदूखलाकृतिकाष्ठतच मध्ये तनुउभयोः पार्श्वयोवृहत् / अथवा संहृतं संक्षिप्तमध्यं सौनन्दं रामायुधं मुसलविशेष एव मुसले सामान्यतः। दर्पणशब्देनेहावयवे समुदायोपचारादर्पणं गण्डो गृह्यते। तथा निगरितं सारीकृतं वरकनकं तस्य त्सरूः खङ्गादिमुष्टिस्तैः सदृशं तेषामिवेत्यर्थः / तथा वरवजूस्येव सौधर्येन्द्रायुधस्येव क्षामो, वलितो वलयः संजाता अस्येति वलितो वलित्रयोपेतो मध्यो मध्यभागो येषां तेतथा। झषस्येवानन्तरोक्तस्येवोदरं येषां ते तथा। शुचीनि पवित्राणि निरूपलेपानीति भावः करणानि चक्षुरादीनिन्द्रियाणि येषां ते तथा। अत्र च “पम्हविअमणाभा" इति पदं क्वचिद्वाचनान्तरे प्रसिद्धमपि उत्तरपदेन मा पुनरुक्ताभासो भूयादिति न व्याख्यातम् / गङ्गाया आवर्तकः पयसा भ्रमः स इव प्रदक्षिणावर्ता न तु वामावर्ताः तरङ्गा इव तरङ्गास्तिस्त्रो वलयस्ताभिः भकुरा भुना रविकिरणैस्तरूणैरभिनवैर्बोधितमुद्रिक्तीकृतं सत् अकोशायमानं बिकचीभवदित्यर्थः / पञतद्वद्गभीरा विकटा विशाला नाभिर्येषां ते तथा। विशेषणस्य परनिपातः प्राग्वत्। अस्माच निर्देशादनाम्न्यपि समासान्तः / ऋजुका अवक्रा समा न वपि दन्तुरा संहिता संततिरूपेण स्थिता न त्वपान्तरालव्यवच्छिन्ना सुजाता सुजन्मा न तु कालादिवैगुण्यतो दुर्जन्मा! अत एव जात्या प्रधाना तन्वी न तु स्थूला कृष्णा नतुमर्कटवर्णा। स्त्रिग्धा चिक्कणा आदेया दर्शनपथमुपगता सती पुनः पुनराकाङ्लणीया। उक्तमेव विशेषणद्वारेण समर्थपते (लडहत्ति) सलवणिमा अत आदेया सुकुमारा मृद्वी अतिकोमला रमणीया रम्या रोमराजिर्येषां ते तथा। सम्यक् अधोऽधः क्रमेण नतेपार्वे येषां ते तथा / संगते देहप्रमाणोचिते पायें येषां ते तथा / अत एव सुन्दरपावः सुजातपाय इति पदद्वयं व्यक्तम्।तथा मिते परिमिते मात्रिके मात्रोपते। एकार्थपदद्ययोगादतीवमात्रान्वितेनोवितप्रमाणे अन्यूनाधिके पीन उपचितेरतिदे पायें येषां ते तथा। अविद्यमानं मांसलत्वेनानुपलक्ष्यमाणं करण्डुकं पृष्ठवंशास्थिकं यस्य देहस्य सोऽकरण्डुकः। अत्राल्पत्वेनाभावविवक्षणात् एवं निर्देशः / अनुदराकन्येत्यादिवत्। अथवा अकरण्डुकमेवेति व्याख्येयं कनकस्येव रूचको रूचिर्यस्य सः / निर्मलः स्वाभाविकागन्तुकमलरहितः। सुजातो वीजाधानादारभ्यजन्मदोषरहितः। निरूपद्रवो ज्वरादिदंशाधुपद्रवरहितः। एवंविधो यो देहस्तद्धारयन्तीत्येवंशीलास्तथा कनकशिलातलवदुज्वलं प्रशस्तं समतलविषममुपचितं मांसलं विस्तीर्णमूधिोपेक्षया पृयुलं दक्षिणोत्तरतो यक्ष उरो येषां ते तथा / श्रीवत्सो लाच्छनविशेषः तेनाङ्कितं वृक्षो येषां ते / युगसंनिभौ वृत्तत्वेनायतत्वेन च यूपतुल्योपनीतौ मांसलौ रतिदौ पश्यतां सुभगौ पीवरप्रकोष्ठकावकृशकलाचिकौ तथा। संस्थिताः संस्थानविशेषवन्तः सुश्लिष्टाः सुघना विशिष्टाः प्रधानाः घना निविडाः स्थिरानातिश्लथाः। सुबद्धाः स्नायुभिः सुष्ठु नद्धाः संधयोऽस्थिसंधाना नि ययोस्तौ तथा पुरवरपरिधवन्महानगरार्गलावद्वर्तिनौ वृत्तौ भुजौ येषां ते तथा / ततः पदद्वयमीलनेन कर्मधारयः पुनर्बाहुमेवायामतो विशिनष्टि / भुजगेश्वरो भुजगराजस्तस्य विपुओ यो भागः शरीरं तथा आदीयते। द्वारस्थगनार्थ गृह्यत इत्यादानः सचासौ परिघोऽर्गला “उच्छूद्धत्ति" स्वस्थानादवक्षिप्तो निष्कासितो द्वारपृष्ठभागे दत्त इत्यर्थः / विशेषणव्यस्तता चार्षत्वात् / ततः पूर्वपदेन कर्मधारयः तद्रद्दीधौ बाहू येषां ते तथा।न चात्रानन्तरोक्तविशेषणेन पौनरूक त्यमाशङ्कनीयम् / अत्रा यामतादर्शनीयप्रस्तुत- | विशेषस्य विशेष्यदर्शनात् / रक्ततलावरूणावधोभागे उपचितावुन्नतौ औपयिकौ वोचितौ अवपतितौ वा क्रमेण हीयमानोपचयौ मृदुलौ मांसलौ सुजाताविति पदत्रयं प्राग्वत्। प्रशस्यलक्षणौ अच्छिद्रजालौ अविरलाडलिसमुदायौ पाणी हस्तौ येषां ते तथा। “पीवरकोमलवरडलीआ" इति व्यक्तम्। आताम्रा ईषद्रक्ताः तलीनाः प्रतलाः शुचयः पवित्राः रूचिरा मनोज्ञाः स्निग्धा अरूक्षा नखा येषां तेतथा नखशब्दे द्विविस्तुप्राग्वत्। चन्द्र इव चन्द्राकारा पाणिरेखा येषां ते तथा। एवमन्यान्यपि त्रीणि पदानि " दिसासोवत्थिअत्ति " दिक्सौवस्तिको दिक्प्रोक्षुकः दिक्प्रधानः स्वस्तिको दक्षिणावर्तः स्वस्तिक इत्यन्ये स पाणौ रेखा येषां ते तथा। एतदेवानन्तरोक्तविशेषणपञ्चकं तत् प्रशस्तता प्रकर्षप्रतिपादनाय संग्रहवचनेनाह / “चंदसूरेति" गतार्थम्। ननुइयन्त्येव लक्षणानि तेषां शरीरस्थानीत्याह / अनेकैः प्रभूतैर्वरैः प्रधानैर्लक्षणैरूत्तमाः प्रशंसास्पदीभूताः शुचयः पवित्रा रचिताः स्वकर्मणा निष्पादिताः पाणिरेखा येषां ते तथा / वरमहिषैः प्रधानसैरिभैः / वराहो वनशूकरः। सिहः केसरी शार्दूलो व्याघ्रः वृषभो गौः नागवरः प्रधानगजः एषामिव परिपूर्णः स्वप्रभाणेनाहिनो विपुलो विस्तीर्णः स्कन्धांशदेशो येषां ते तथा / चतुरङ्गुलं स्वाङ्गापेक्षया चतुरङ्गुलप्रमितंसुष्ठु शोभनं प्रमाणं यस्याः सा तथा। कम्बुवरसदृशा छन्नतया वलित्रययोगेन च प्रधानशङ्घसंनिभा ग्रीवा येषां ते तथा / विवेकविलासे तु प्रतिमाया एकादशाङ्कस्थानसंख्यायां चतुःपञ्च चतुर्वहि,इति श्लोके ग्रीवायास्त्र्य डलमानमिति / मांसलं पृष्ट तथा संस्थितंसंस्थानं तेन प्रशस्तसंकुचितं कमलाकारत्वात्। शार्दूलस्येव व्याघ्रस्येव विपुलं विस्तीर्ण हनुकं येषां ते अवस्थितान्यवर्द्धिष्णू नि सुविभक्तानि परस्परं शोभमानविभागानि / न तु पुनरुजाताभीरस्येव व्यादानमात्रलक्षवदनविवरस्य कूर्चकेशपुजा इव पुजीभूतानि चित्राणि अतिरम्यतयामृतानि श्मश्रूणि कूर्चकशा येषां ते तथा श्मश्रूणामभावे षण्ढभावे प्रतिपत्तिः / हीयमानत्ये चेन्द्रलुप्तिकत्ववार्द्धकप्रतिपत्तिः। वर्धमानत्वे च संस्कारकजनाभावाद्गहनभूतानि तानि स्युरित्यवस्थितत्वम् / 'उअचिअत्ति' परिकर्मित पच्छिलारूप प्रवालं आयतविद्रुमखण्डमित्यर्थः। न तु मणिकादिरूपं तस्यैत दुपमानानुपपत्तेः। बिम्बफ्लं पक्वगोहलाफलं तयोः संनिभो रक्ततयोन्नतमध्यतया अधरोष्ठोऽधस्तनो दन्तच्छदो येषां ते तथा पाण्डुरं यच्छशिशकलं चन्द्रमण्डलखण्डमकलङ्कः चन्द्रमण्डलभाग इत्यर्थः / विमलानां मध्ये निर्मलश्च यः शङ्को गोक्षीरफेनश्च प्रतीतः। कुन्दं च कुन्दकुसुमन्दकरजश्व वाताहतजलकणः। मृणालिका च पद्मिनीमूलं तद्वद्धवला दन्तश्रेणिर्दर्शनपङ्क्तिर्येषां ते तथा। अखण्डदन्ताः परिपूर्णादशनाः अस्फुटितदन्ताः अजर्जरदन्ताः अत एव सुजातदन्ताः जन्मदोषरहितदन्ता अविरलदन्ता निरन्तरालदन्ता एकाकारा दन्तश्रेणिर्येषां ते तथा। तइव परस्परानुपलक्ष्यमाणदन्तविभागत्वात् अनेके द्वात्रिंशद्दन्ता येषां ते तथा। एवं नाम तेऽविरलदन्ता यथा अनेकदन्ता अपि सन्तः एकाकारपक्तय इव लक्ष्यन्त इति भावः / हुतवहेनाग्निना नितिं निर्दग्धं सत् धौतं शोधितमलं तप्तं सतापं तपनीयं सुवर्णविशेषस्तद्वद्रक्ततलं लोहितरूपं तालु च काकुदं जिह्वा च रसना येषां ते तथा / गरूडस्येव पक्षिराजस्येव यथा दीर्धा ऋज्वी सरला तुङ्गा उन्नता न तु मुद्गलाजातीयस्येव चिपिटा नासा नासिका येषां ते तथा। अवदा