SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ओसप्पिणी 108 - अभिधानराजेन्द्रः - भाग 3 ओसप्पिणी सुजायसुविभत्तसंगयंगा पासादीआ जाव पडिरूवा। तस्यां समायां भदन्त ! भरतवर्षे मनुजानां प्रक्रमादयुग्मिनां कीदृशक आकारभावप्रत्यवतारः प्रज्ञप्तः। भगवानाह गौतम! ते मनुजाः सुप्रतिष्ठिताः सत्प्रतिष्ठानवन्तः संगतनिवेशा इत्यर्थः / कूर्मवत् कच्छपवत् उन्नतत्वेन चारवश्चरणा येषां ते तथा ननु मानवा मौलितो वा देवाश्चरणतः पुनरिति कविसमयान्मनुजजन्मिनां युग्मिनां पादादारभ्य वर्णन कथं युक्तिमदित्युच्यते। वरेण्यपुण्यप्रकृतिकत्वेन ते देवत्वेन वाभिमता इति न कदाचिदनुपपत्तिरिति / अत्र याक्च्छब्दसंग्राह्य "मुद्धसिरया" इत्यन्तंजीवाभिगमादिप्रसिद्ध सूत्रं चैतत्। रत्तुप्पलपत्तमउअसुकुमालकोमलतला णगणगरमगरसागरचकंकहरंकलक्खणकि अचलणा अणुपुटवसुसाहयंगुलीआ / उण्णयतणुतंबणिद्धणक्खा संठिअसुसिलिट्ठगूढगुप्फा एणीकुरूविंदवत्तवट्टाणुपव्वजंघा समुग्गनिमग्गगूढजाणू गयससणसुजायसण्णिभोरू वरवारणमत्ततुल्लविक्कमविमला सिअगई पमुइअवरतुरगसीहवरवहिअकडी वरतुरगसुजायगुज्झदेसा आइण्णहउव्व निरूवलेवा साहयसोणंदमुसलदप्पणा णिगरिअवरकणगछरूसरिसवरवइरवलिअमज्झा झसविहगसुजापवीणकुच्छी झसोअरा सुइकरणा गंगावत्तपयाहिणावत्ततरंगभंगुररविकिरणतरूण वाहिअअकोसायंतपउमगंभीरविअडणाभा उज्जुअसमसहिअजचतणुकसिणसिणिद्धआदेजलडहसूमालमउअरमणिज्जरोमराई संणयपासा संगयपासा सुंदरपासा सुजायपासा मिअमाइअपीणरइपासा अकरडंअकणगरूअगणिम्मलसुजायणिरूवहयदेहधारी पसत्थवत्तीसलक्खणधरा कणगसिलायलुञ्जलपसत्थसमतलउवइअवक्खा जुअसणिभपीणरइअपीवरपउट्ठसंहिअसुसिलिट्ठघणथिरसुबद्धसंधिपुरवरपलिहवट्टिअभुजा भुजगीसरविउलभागआयाणपलिहउच्छूठदीहवाहू रत्ततलोवइअमउलमंसलसुजायपसत्थलक्खणअछिद्दजालपाणी पीवरकोमलवरंगुलीआ आयंवतलिणसुइरूइलणिद्धणखा चंदपाणिलेहा सूरपाणिलेहा संखपाणिलेहा चक्रपाणिलेहा दिसासोवत्थियपाणिलेहा चंदसुरसंखचकादिसा सोवत्थिअपाणिलेहा अणेगवरलक्खणुत्तमपसत्थसुइरइयपाणिरेहवरमहिसवराहसीहसङ्कलउसहणागवरपमिपुण्णविपुलखंधा चउरंगुलसुप्पमाणकंवुवरसरिसगीवामंसलसंठिअपसत्थसहूलविपुलहणुआ अवट्ठिअसुविभत्तचित्तमंसूउअचिअसिलप्पवालविंबफलसण्णिभाधरोहा पंडुरयससिसगलविमलणिम्मलसंखगोखीरफेणकुंददगरयमुणालिआ धवलदंतसेढी अखंडदंता अफडिअदंता सुजायदंता अविरलदंता एगदंतसेढीव्वअणेगदत्ता हुअवहणिद्धतधोअतत्त तवणिज्जरत्तततालुजीहा गरुलायतउज्जुत्तुंगणासा अवदालिअपॉडरीकणयणा कोआसीयधवलपत्तलच्छीआणा मिअचावरूइलकिण्हन्भराइसंठिअसंगयआययसुजायतणुकिसिणणिद्धभुमआ अलीणपमाणजुत्तसवणा सुस्सवणा पीणमंसकलकपोलदेसभागा णिव्वगसमलहमचंदद्धसमणिलाडा उडुवइयडिपुण्णसोमवयणा घणणिविअसुबद्धलक्खणुण्णकूडागारणिभपिंडिअगा सिच्छतागारूत्तमंगदेसादाडमपुप्फप्पगासतवणिज्जसरिसणिम्मलसुजायके संतके सभूमी सामलीर्वोडघणणिचिआ छोडिअमिउविसयपसत्थसुहमलक्खणसुगंधसुंदरमुअमोअगाभिंगणीलकज्जलुज्जलपहिट्ठभमरगणणिद्धणिकुरूंवणिचिअपयाहिणावत्तमुद्धसिरआ। अत्र व्याख्या / रक्तं लोहितमुत्पलपत्रवन्मृदुकं मार्दवगुणोपेतमकर्कशमित्यर्थः। तचासुकुमारमपि संभवति / यथा घृष्टमृष्टपाषाणप्रतिमा / तत आह / सुकुमारेभ्योऽपि शिरीषकुसुमादिभ्योऽपि कोमलं सुकुमालं तलं पादतलं येषां ते तथा नगो गिरिः नगरमकरसागरचक्राणि स्पष्टानि अङ्कधरइचन्द्रः अङ्कस्तस्यैव लाञ्छनं यल्लोके मृगादिव्यपदेशं लभते। एवं रूपैर्लक्षणरूक्तवस्त्वाकारपरिणताभिः रेखाभिरङ्किताश्चलना येषां ते तथा। पूर्वस्या अनुलघव इति गम्यते अनुपूर्वाः किमुक्तं भवति। पूर्वस्या उत्तरोत्तरा नखं नखेन हीनाः " णहणहेणहीनाउ" इति सामुद्रिकशास्त्रवचनात्। अथवा आनुपूर्येण परिपाट्यावर्धमाना हीयमाना वा इति गम्यते / सुसंहता अविरला अङ्गुल्यः पादाग्रावयवा येषां ते तथा / अत्रानुपूयेति विशेषणात् पादाङ्गुलीग्रहणंतासामेव नखं नखेनहीनत्वात् / उन्नता मध्ये तुङ्गास्तनवः प्रतलास्ताम्रा रक्ताः स्निग्धाः स्निग्धकान्तिमन्नखाः पादगता इति सामर्थ्यलभ्यम्।तद्वर्णनाधिकारात् येषां ते तथा। णक्खेत्यत्र द्वित्वं सेवादित्वात् / संस्थितौ सम्यक् स्वरूपप्रमाणतया स्थितौ सुश्लिष्ठौ सुधनौसुस्थिरावित्यर्थः गूढौगुप्तौ मांसलत्वादनुपलक्ष्यौ गुल्फो घुटिको येषां ते तथा / एणी हरिणी तस्या इह जङ्घा ग्राह्या। कुरूविन्दस्तृणविशेषः / वर्तं च सूत्र वलनकम् / एतानीव वृत्ते वर्तुले आनपूर्वेन क्रमेण उर्ध्वं स्थूलत रेइति शेषः जड्डे येषां ते तथा / औपपातिकवृत्तौ तु अन्ये त्वाहुः / एण्यस्तापः कुरूविन्दकुटिलिकाभिधानो रोगविशेषस्ताभिस्त्यक्ते इत्यपि व्याख्यातमस्ति वृत्तेत्यादि। तथैव समुद्रकः समुद्रकाख्यभाजनविशेषः तस्यतत्पिधानस्य चसंधिस्तन्निमग्ने गूठे मांसलत्वादनुपलक्ष्ये जानुनी येषां ते तथा। कृचित् " समुग्गणिमग्गगूढजाणू" इति पाठस्तत्रसमुद्कस्वेव पक्षिविशेषस्येव निसर्गतो गूढ स्वभावतो मांसलत्वादनुन्नतेन तु शोफादिविकारतः शेषं तथैव गजस्य हस्तिनः श्वसनः शुण्डादण्डः सुजातः सुनिष्पन्नः तस्य संनिभावूरू येषां ते तथा / सुजातशब्दस्य विशेषणस्य परनिपातः प्राकृतत्वात् / मत्तो वरः प्रधानो भद्रजातीयत्वाद्वारणो हस्ती तस्य विक्रमश्चमणं तद्वद्विलसितः विलासः संजातोऽस्या इति तारकादित्वादितचप्रत्ययः। विलासवतीः गतिर्गमनं येषां ते तथा अत्रापि मत्तशब्दस्य विशेष्यात् परनिपातः प्राकृतत्वात् / प्रमुदितो रोगाद्यभागेनातिपुष्टो यौवनप्राप्त इति गम्यते / एवंविधो यो वरतुरगः सिंहवरश्च तद्ववर्तिता वृत्ता कटी येषां ते तथा वरतुरगस्येव सुजातसुगुप्तत्वेन सुनिष्पन्नो गुह्यदेशो येषां ते तथा / आकीर्णहय इव जात्याश्व इव निरूपलेपाः। जात्याश्वो हि मूत्राद्यनुपलिप्तगात्रो भवती
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy