________________ चेइय १२६०-अमिधानराजेन्द्रः-भाग 3 चेइय एवं कथितमरिन यगोगविनष्टं द्रव्यं तद् निर्माल्यमिति, तेनाभरणानां भोगविनष्टत्वाभावेन निर्माल्यता न भवतीति ज्ञेयमिति 2 प्र० 1 ही०४ प्रका०। परचैत्यवन्दनोन्मोकेतपापक्षीयः श्राद्ध स्वकीयेषु परकीयेषु वा चैत्येषु वन्दनादि करो 1, तत्र स्वकीयेषु यथा लाभस्तथा श्रीपरमगुरुपादैरादेयतयाऽऽदिष्टेषु / परकीयेष्वपि लाभ एव ज्ञातोऽस्ति, नतु पापम्।१४ प्र०ाही०१ प्रका०। काजकोद्धरणम्अन्यच्च चतुर्मासकमध्ये जिनगृहे देववन्दनं साधूनां श्राद्धानां च काजकोद्धरणपूर्वकमेव युक्तिमत् // 4 // जिनगृहे रात्रौ नाट्यादिविधेनिषधो ज्ञायते। यत उक्तम्-"रात्रौ न नन्दिर्न बलिः प्रतिष्ठा, न स्त्रीप्रवेशो न च लास्यकीला / / " इत्यादि / किं च क्वाऽपि तीर्थादौ तत्क्रियमाणं दृश्यते, तत्तु कारणिकमिति बोध्यम् / 5 प्र० / ही० 2 प्रका० / प्रतिमानां चक्षुरादिकरणम्जिनप्रतिमानां चक्षुरादिसंयोजनमाश्रित्य ये निपुणाः श्राद्धाः सन्ति तैः रालतैले मेलयित्वा भूयो वर्तयित्वा तद्रसेन चक्षुरादि संयोजयन्ति, न तूष्णलाक्षारसेन; तथाकरणे आशातनादोषप्रसङ्गादिति। २प्र०। ही०३ प्रका०। साधारणप्रासादे प्रतिमाःसाधारणप्रासादे प्रतिमायां कार्यमाणायां ग्रामनाम्ना प्रतिमा विलोक्यते, उत सनराशिनाम्ना? यदि सङ्घराशिनाम्ना, तदा सर्वग्रामसङ्घानामेकमेव राशिनाम विद्यते, तेन यथा युक्तं भवति तथा प्रसाद्यमिति प्रश्ने, उत्तरम्-अत्र साधारणप्रासादे प्रतिमायां कार्यमाणायां ग्रामनाम्ना प्रतिमा विलोक्यत इति युक्तं ज्ञायते इति / 25 प्र०। ही० 4 प्रका०। गुर्वाज्ञया चैत्यपूजाचैत्यादिधर्मकार्यं कुर्वता तेषां तपागणसंबन्धी शक्तिमान श्राद्ध सांनिध्यम्, माध्यस्थ्यम्, विकारं वा भजते, तदा लाभो भवति, न वेति प्रश्ने, उत्तरम्-चैत्यादिधर्मकार्य कुर्वतां तेषां श्रीपरमगुरुपादैरादेयतयाऽऽदिष्ट चैत्यादिधर्मकार्ये सांनिध्यकरणमायाति सुन्दरं, तदितरकार्ये तु माध्यस्थ्यमेव, न तु क्वापि वैपरीत्यकरणेन विरोधोत्पादन श्रेयसे / ही०१ प्रका। रात्रावारात्रिकम्श्राद्धानां रात्रौ जिनालये आरात्रिकोत्तारण युक्तं, न वा? इति प्रश्ने, उत्तरम्-श्राद्धानां जिनालये रात्रौ आरात्रिकोत्तारण कारणे सति / युक्तिमद्, नान्यथा // 1 // ही० 2 प्रका० / कार्योत्सर्गस्थितजिनप्रतिमानां चरणादिपरिधापनविचार:कायोत्सर्गस्थितजिनप्रतिमानां चरणादिपरिधापन युक्तं, नवेति प्रश्ने, उत्तरम्-जिनप्रतिमानां चरणादिपरिधापनं तु सम्प्रति न व्यवहारेण | युक्तियुक्तं प्रतिभाति / ही०२ प्रका०। आरात्रिकमङ्गलप्रदीपविचारःआरात्रिकमङ्गलप्रदीपः सृष्ट्या संहारेण वोत्तार्यते, तदुत्तारणपाठश्च क इति प्रश्ने, उत्तरम्-अत्र जिनप्रतिमागे आरात्रिकमङ्गलप्रदीपः सृष्ट्योतार्यते, न तु संहारेण, पूर्वाचार्यप्रणीतग्रन्थमध्ये क्वापि संहारोत्तारणस्याप्यक्षराणि सन्ति, परमिदानी श्राद्धविधिजिनप्रभसूरिकृतपूजाप्र करणयोः सृष्टयवोत्तारणमुक्तमस्ति, तेन तथैव क्रियते / तदुत्तारणगाथा च'मरगयमणिघडिसविसा-लथालमाणिक्कमंडियपईवो। हवणपरकरुक्खित्तो, भमउ जिणाऽऽरत्तियं तुम्ह" / / 44 // ही० 40 प्रका० / (चैत्यायतनं कारितवत्या निर्गन्थ्याः क्षताचाराया उद्धरणं 'खयाचार' शब्दे अस्मिन्नेव भागे 718 पृष्ठे उक्तम्) (ग्रामशब्दे अस्मिन्नेव भागे 868 पृष्ठे तन्निपेक्षे जिनप्रतिमानां भावग्रामत्वम्) (भरते चतुरशीतिजिनप्रतिमाः जिनपडिमा' शब्दे वक्ष्यन्ते) (26) प्रकीर्णकरूपा वार्ताः / चतुर्विशतिकापट्टविचारःचउवीसवट्टयाई, पडिमा उ जिणाण केइ वारिंति। तं पिण जुत्तं जम्हा, एए दोसा पसञ्जति // 1 // चतुर्विशतिपट्टकादौ, आदिशब्दाग्जिनत्रयादिपरिग्रहः / प्रतिमा जिनप्रतिकृतीः, जिनानां तीर्थकृतां, केऽपि, न सर्वे / वारयन्ति निषेधयन्ति, नैताः तैः क्रियन्त इत्यर्थः / तदपि, न केवलं पूर्वोक्तमित्यपेरर्थः, नेति निषेधे, युक्तं सङ्गतं, यस्मादेते वक्ष्यमाणाः, दोषा दूषणानि, प्रसज्यन्ते भवन्तीति गाथार्थः // 1 // तानेवाहपुव्वायरणाभंगो, जिणाण आसायणा विपडिवत्ती। सद्धाभंगो मुद्धा-ण होंति एमाइया दोसा // 2 // पूर्वाचरणाभङ्गः-बहोः कालादियं प्रवृत्तिस्तस्या विनाशः, जिनानां सर्वज्ञानाम्, आशातना पूर्वकथितप्रकारेण विप्रतिपत्तिर्विरोध / एको भणतिमदीया श्रेष्ठा प्रतिष्ठा; अन्यश्व मदीयेत्येवं लक्षणा / श्रद्धभङ्गो भक्तिनाशश्च, मुग्धानां मन्दमतीनाम: तेह्येवमध्यवरयन्ति-हा किमस्माभिर्मन्दभाग्यविधिमजानद्भिरेवं प्रतिष्ठा कारितेति / भवन्ति जायन्ते, एवमादय उक्तप्रकारादयः, आदिग्रहणात् तदबहुमानपूजाद्यभावाख्याः / चकारोऽत्र प्राकृताल्लुप्तो द्रष्टव्य इति गाथार्थः / / 2 / / सूत्रेणैव संबद्धां गाथामाहकिंचऽत्थ अस्थि जुत्ती, वि पयडहरिभद्दसूरिवयणाओ। तं भणणं तिविहा खलु, होइ पइट्ठा जिणिंदाणं // 3 // किञ्चेत्यभ्युच्चये, अस्ति विद्यते, अत्र चतुर्विंशतिपट्टकादिकरणे, युक्तिरपि घटमानवाक्यमपि, न केवलमादरणेत्यपिशब्दार्थः / प्रकटहरिभद्रसूरिवचनात् प्रसिद्धहरिभद्राभिधानाचार्यभणनात्, तदेवार्थत आह-- तत्पुनर्भणनमिदं वक्ष्यमाणम्-त्रिविधा त्रिप्रकारा, खलुवक्यिालङ्कारे, भवति, प्रतिमाप्रतिष्ठा जिनगुणाद्यारोपलक्षणा, जिनेन्द्राणां मुनीशानामिति गाथार्थः / / 3 / / तदेव त्रैविध्यमाह.पढमा वत्तिपइहा, खेत्तपइट्ठा पुणो भवे बीया। तइया महापइट्ठा, तासिं वक्खाणमेवं तु / / 4 / / प्रथमाऽऽद्या, व्यक्तिप्रतिष्ठा, क्षेत्रप्रतिष्ठा पुनर्भवेद् द्वितीया, महाप्रतिष्ठा तृतीया, तासां प्रतिष्ठानां व्याख्यानं विवरणम, एवं वक्ष्यमाणप्रकारमेव, तुरेवकारार्थः, स च दर्शित इति गाथार्थः / / 4 / / तदेव गाथाद्वयेनाऽऽहहवति विसेसो एग-स्स जाउपडिमा भवे जिणिंदस्स। खेत्ते भरहे उसभा-इयाण सव्वाण बीया उ।।५।। सव्वेसु वि खेत्तेसुं, जित्तियमित्ता भवंति तित्थयरा। सत्तरसयसंखाए, महापइट्ठा इमा भणिया / / 6 / /