________________ चे इय १२८६-अभिधानराजेन्द्रः-भाग 3 चेइय वनिमित्ततया कर्मक्षयाबन्ध्यकारणत्वात् / तथाहि-भगवत्प्रतिमाया भूषणाद्यारोपणं कर्मक्षयकारणं कर्तुर्मनःप्रसादजनकं, कुड्कुमाद्यालेपनवत् न च व्रतावस्थायां भगवता भूषणादरेनङ्गीकृतत्वात् न तत्प्रतिकृतौ तद्विधेयं, संमज्जनाङ्गरागपुष्पादिधारणस्यापि तथावस्थायां भगवताऽनाश्रितत्वान्न तत् तत्र विधेयं स्यात् / अथ मेरुमस्तकादिषु तदभिषेकादाविन्द्रादिभिस्तस्य विहितत्वात् अस्मदादिभिरपि कृतानुकरणादिभिः प्रयोजनैस्तत्तत्र विधीयते, तर्हि तत एवाऽऽभरणादिभिर्विभूषादिकमपि विधेयम्, कृतानुकरणादेः समानत्वात् / एवमन्यदप्यागमबाह्यं स्यमनीषिकया परपरिकल्पितमागमयुक्तिप्रदर्शनेन प्रतिषेद्धव्यं, न्यायदिशः प्रदर्शितत्वात् / तदेवमनधीताश्रुतयथावदपरिभावितागमतात्पर्या दिग्वासस एवाप्ताज्ञां विगोपयन्तीति व्यवस्थितम् / सम्म०२ काण्ड। विविधप्रतिमाऽर्चनम्प्रतिमाश्च विविधास्तत्पूजाविधौ सम्यक्त्वप्रकरण इत्युक्तम्''गुरुकारिआइ केई, अन्ने सयकारिआइ तं विति। विहिकारिआइ अन्ने, पडिमाए पूअणविहाणं // 1 // " गुरवो मातृपितृपितामहोदयः, तैः कारितायाः केचित्, अन्ये स्वयं कारितायाः, विधिकारितायास्त्वन्ये प्रतिमायाः, तत्पूर्वाभिहितं, पूजाविधानं ब्रुवन्ति, कर्त्तव्यमिति शेषः / अवस्थितपक्षस्तुगुर्वादिकृतत्वस्यानुपयोगित्वान्ममत्वाग्रहरहितेन सर्वप्रतिमा अबिशेषेण पूजनीयाः / न चैवमविधिकृतामपि पूजयतस्तदनुमतिद्वारेणाऽऽज्ञाभङ्गलक्षणदोषाऽऽपत्तिः, आगमप्रामाण्यात् / तथाहि श्रीकल्पबृहद्भाष्ये'निस्सकडमनिस्सकडे, चेईए सव्वहिं थुई तिन्नि। वेलं व चेइआणि अ, नाउं इक्किक्किआ वा वि॥१॥" निश्राकृते गच्छप्रतिबद्धे, अनिश्राकृते तद्विपरीते, चैत्ये सर्वत्र तिस्रः स्तुतयो दीयन्ते। अथ प्रतिचैत्यं स्तुतित्रये दीयमाने वेलाया अतिक्रमो भवति, भूयासि वा तत्र चैत्यानि, ततो वेलां चैत्यानि च ज्ञात्वा प्रतिचैत्यमेकैकाऽपि स्तुतिर्दातव्या // 1 // अयं चैत्यगमनपूजास्नात्रादिविधिः सर्वोऽपि ऋद्धिप्राप्तमाश्रित्योक्तः, तस्यैवैतावद्योगसंभवात्। अनृद्धिप्राप्तस्तु श्राद्धः स्वगृहे सामायिकं कृत्वा केनापि सह ऋणविवादाद्यभावे ईर्याधुपयुक्तः साधुवचैत्यं याति, स च पुष्पादिसामग्यभावाद् द्रव्यपूजायामशक्तः सामायिकं पारयित्वा कायेन यदि पुष्पग्रथनादि कर्त्तव्यं स्यात् तदा तत् करोति। न च सामायिकत्यागेन द्रव्यस्तवस्य करणमनुचितमिति शङ्यम्, सामायिकस्य स्वायत्ततया शेषकालेऽपि सुकरत्वाच्चैत्यकृत्यस्य च समुदायायतत्वेन कादाचिकत्वात्, द्रव्यस्तवस्यापि शास्त्रे महाफलत्वेन प्रतिपादनाच। यतः पद्मचरित्रे"मणसा होइ चउत्थं, छट्ठफलं उडिअस्स संभवइ। गमणस्स पयारम्भे, होइ फलं अट्ठमोवासो।। 1 / / गमणे दसमं तु भवे, तह चेव दुवालसं गए किंचि। मज्झे पक्खुववासो, मासुववासं च दिट्ठम्मि // 2 // संपत्तो जिणभवणे, पावइ छम्मासिअं फलं पुरिसो। संवच्छरिअंतु फलं, दारुद्देसहिओ लहइ / / 3 / / पायविखणेण पावइ, वरिससयं तं फलं तओ जिणे महिए। पावइ वरिससहस्सं, अणंतपुण्णं जिणे थुणिए / / 4 / / सयं पमजणे पुण्णं, सहस्संच विलेवणे। सयसाहस्सिआ माला, अणंतं गीअवाइअं" || 5 // इति / प्रस्तावे च तस्मिन् क्रियमाणे विशेषपुण्यलाभः / यदागमः"जीवाण बोहिलाभो, सम्मठिीण होइ पियकरणं / आणा जिणिंदभत्ती, तित्थस्स पभावणा चेव // 1 // एवमनेके गुणाः, ततस्तदेव कर्त्तव्यम्, यदुक्तं दिनकृत्ये-- " एवं तु विहिओ सव्वो, रिद्धिमंतस्स देसिओ। इअरो निअगेहम्मि, काउं सामाइयं वयं // 1 // जइ न कस्सइ धारेइ, न वि वाओ वि विज्जए। उवउत्तो सुसाहु व्व, गच्छए जिणमंदिरे // 2 // काएण अस्थि जइ किंचि, कायव्यं जिणमंदिरे / तओ सामाइअं मोत्तुं, करेज करणिजए॥ 3 // अत्र च सूत्रे विधिना जिनस्य पूजनं वन्दनं चेत्युक्त्या दशत्रिकादिचतुर्विंशतितमद्वारैर्भाष्याधुक्तः संपूर्णो वन्दनाविधिरुप-लक्षितः। ध०२ अधि०। ('चेइयवंदण' शब्दे व्याख्यास्यते चैत्यवन्दनम्। अष्टपुष्पीपूजा 'अट्ठपुप्फी'शब्दे प्रथमभागे 245 पृष्ठे व्याख्याता। 'आसायणा' शब्दे द्वितीयभागे 478 पृष्ठे चैत्यस्योत्कृष्टमध्यमजघन्या आशातना उक्ताः) जिनेन्द्रस्य पुरतः सिद्धबलिविधानम्अमलियछेयग्गंधा, केइ निसेहंति सिद्धवलिकरणं / तं पि न जुत्तं जम्हा, भणिअं कप्पाइचुन्नीसु // 1 // अमलितच्छेदग्रन्था अनभ्यस्तोच्छास्त्राः, केऽपि निषेधयन्ति, सिद्धबलिकरणं जिनेशबिम्बस्य पुरतो राद्धबलिविधानं, तदपि न युक्तं न सङ्गतं, यस्माद् भणितमुक्तं कल्पादिचूर्णा, आदिशब्दादावश्यकचूर्णिपरिग्रह इति गाथार्थः // 1 // तदुक्तमेवार्थत आहतं सित्थं जस्स सिरे, दिज्जइ पसमंति तस्स बाहीओ। पुव्वुप्पन्ना उ नवा, न हुंति अन्ना तु छम्मासं // 2 // तत्सर्वज्ञाग्रे बलिकृतगृहीतं, सिक्थं जनप्रतीतं, यस्य चेदनिर्दिष्टनाम्नः, शिरसि मस्तके, दीयते स्थाप्यते,प्रशाम्यन्ति उपशमं यान्ति, तस्य शिरसि सिक्थविधातुः, व्याधयो रोगाः, किंविशिष्टा इत्याह-पूर्वोत्पन्नाश्चिरप्ररूढाः; नवा नूतनाः न भवन्ति न जायन्ते, अन्ये पूर्वविलक्षणाः, कियत्कालं यावदित्याह- षण्मासं जनप्रतीतम्। तथा च तत्रैवं त आहुः"जं तंदुलाण सित्थं देवमचू रायमचू वा'' इत्यादि यावत् "तं तु सित्थं जस्स मत्थए छुब्भइ, तस्स पुव्वुप्पन्ना वाही उवसमति'' इत्यादि / अयमभिप्रायः यदि राद्धं न स्यात् तत्सिक्यमिति नाभणिष्यत् / न च सिक्थं लवमात्रमिति वाच्यं, तत्रस्थग्रन्थव्याहतेः / तथाहितत्र''दुव्वालिखमिय' इत्यादि सर्वं निष्पादनविधिं प्रतिषाद्योक्तं तत्र "सिद्धबलिं काऊण त्ति' अत्र सिद्धशब्देन रन्धनमेव वाच्यं, न पुनरनिष्पन्नं, विधेः सर्वस्य पूर्व प्रतिपादितत्वात्, तस्मात् स्थितमत्र सिद्धो बलिः सर्वज्ञपुरतो विधीयते उत्सर्गत इति गाथार्थः / जीवा०१० अधि०। (28) अथ डुगरपुरस्थसंघकृतप्रश्नाना हीरविजयकृतोत्तराणिजिनप्रतिमानां तान्येवाभरणानि प्रतिदिनं परिधाप्यन्ते, अथ तेषां निर्माल्यता कथं न भवति? इत्येतदाश्रित्य शास्त्रमध्ये