________________ चेइय १२८६-अभिधानराजेन्द्रः-भाग 3 चेइय ययोगसारा, गीता कथिता, अभ्युदयं प्रसाधयतीत्यभ्युदयप्रसाधनी चान्याऽपरा वाग्योगप्रधाना, निर्वाणं साधतीति निर्वाणसाधनीति च मनोयोगसारा, स्वतन्त्रा वा त्रिविधा, फलदा तु फलदैवैकैका यथार्थसंज्ञाभिरन्वर्थाभिधानैः / / 10 / / तिसृष्वपि यद् भवति तदाहप्रवरं पुष्पादि सदा, चाद्यायां सेवते तु तद्दाता। आनयति चान्यतोऽपि हि, नियमादेव द्वितीयायाम्।।११।। त्रैलोक्यसुन्दरं यद्, मनसाऽऽपादयति तत्तु चरमायाम्। अखिलगुणाधिकसद्यो-गसारसद्ब्रह्मयागपरः।। 12 // प्रवरं प्रधान, पुष्पादिपुष्पगन्धमाल्यादि, सदा च सर्वदैव आद्यायां / प्रथमायां, सेवते तु सेवते एव ददात्येव, तद्दाता तस्याः पूजायाः कर्त्त दाता, आनयति च वचनेनाऽन्यतोऽपि हि क्षेत्रान्तरात् प्रस्तुतं पुष्पादि, नियमादेव नियमेनैव, द्वितीयायां पूजायाम्॥११॥ त्रैलोक्यसुन्दरं त्रिषु लोकेषु प्रधानं, यत् पारिजातकुसुमादि नन्दनादिवनगतं, मनसाऽन्तःकरणेन, आपादयति संपादयति, तत्तु तदेव, चरमायां निर्वाणसाधन्या, तद्दातेत्यत्राप्यभिसंबध्यते / अयमेव विशिष्यते-अखिलैर्गुणैरधिकंसद्योगानां सद्धर्मव्यापाराणां सारं फलकल्पमजरामरत्वेन धर्मस्य सारोऽमरत्वमिति तत्त्वम् / सद्योगसारं यत् सद् ब्रह्म परमात्मस्वरूप, तस्य यागो यजनं, पूजनं तत् तत्परस्तत्प्रधानः प्रस्तुतस्तद्दाताऽखिलगुणाधिकसद्योगसारसद्ब्रह्मयागपर उच्यते / / 12 / / षोः विव०। अक्षतादिपूजास्तत्र दृष्टान्ताश्च / जिनप्रतिमापूजा विधिमाहकुसुमऽक्खयधूवेहिं, दीवयवासेहिं सुंदरफलेहिं / पूया धयसलिले हिं, अट्ठविहा तस्स कायव्वा / / 24 / / कुसुमाक्षतधूपैः पुष्पशाल्याद्यखण्डतन्दुलकृष्णागुरुसारधूपैः, दीपः प्रदीपो, गन्धाः सुगन्धिसारद्रव्यनिष्पन्नानेकभेदभिन्नास्तैः, सुन्दरफलैःपवित्रसुगन्धिमनोहरातिवर्णाढ्यनारङ्गामीजपूरकादिभिः, पूजा सपर्या, घृतं सःि , उपलक्षणं चैतत्-सम-रसनैवेद्यपक्वान्नादेः / सलिल जलं, ताभ्याम्, अष्टविधाऽष्टभेदा। उपलक्षणं चैतत्-काञ्चनरत्नप्रादेः / तस्य मिश्रामिश्रादिभेदभिन्नजिनभवनमध्यगतभावार्हदगुणगणाध्यारोपणसहाईबिम्बस्य कर्तव्या कार्या भवतीति गाथार्थः / / 24 / / अर्थतस्या एवाष्टविधपूजायाः फलोपदर्शनप्रतिबद्धानि ग्रन्थान्तरोपरिचितानि भविकजनात्यन्तादरातिशयोत्पादानार्थ सन्ति कथानकानि / दर्श० / (तानि च ग्रन्थगौरवभयादत्र न प्रदर्शयामः / तद्दिदृक्षणा दर्शनशुद्धिग्रन्थो निरीक्ष्यः) "गन्धैर्माल्यैर्विनिर्यबहुलपरिमलैरक्षतेधूपदीपैः, सान्नाय्यैः प्राज्यभेदैश्चरुभिरुपहितैः पाकपूतैः फलैश्च / अम्भःसंपूर्णपात्रैरिति हि जिनपतेरचनामष्टभेदां, कुर्वाणा वेश्मभाजः परमपदसुखस्तोममाराल्लभन्ते' // 1 // न च जिनबिम्बानां पूजादिकरणे न काचित्फलप्राप्तिरिति वाच्यम्, चिन्तामण्यादिभ्य इव तेभ्योऽपि फलप्राप्त्यविरोधात् / यदुक्त वीतरागस्तोत्रे श्रीहेमसूरिभिः"अप्रसन्नात्कथं प्राप्य फलमेतदसङ्गतम्। चिन्तामण्यादयः किं न, फलन्त्यपि विचेतनाः "?1 / ध० 2 अधि०। / (स्नात्रविधिः) राजादिना कार्या विधिना जिनपूजा ततो विधिना जिनगृहे त्रिविधप्रतिमाऽपेक्षया भक्तिचैत्यरूपे, पञ्चविधचैत्यापेक्षया तु निश्राकृतेऽनिश्राकृते वा गत्वा विधिना जिनस्य भगवतः पूजनं पुष्पादिभिरभ्यर्चनं, वन्दनं स्तुतिर्गुणोत्कीर्तनमित्यर्थः / तच जघन्यतो नमस्कारमात्रमुत्कर्षतश्चेर्यापथिकीप्रतिक्रमणपूर्वकशक्रस्तवादिभिदण्डकैरिति / अत्र विधिना जिनगृहे गमनमुक्तम् / तद्विधिश्च यदि राजा महर्द्धिकस्तदा-"सव्वाए इड्डीए सव्वाए जुईए सव्वबलेणं सव्वपोरिसेणं "इत्यादिवचनात् प्रभावनानिमित्तं महादेवगृहे याति। अथ सामान्यविभवस्तदौद्धत्यपरिहारेण यथाऽनुरूपाडम्बरं बिभ्रन् मित्रपुत्रादिपरिवृतो याति; तत्र गतश्चपुष्पताम्बूलादिसचित्तद्रव्याणां परिहारेण 1, किरीटवर्जशेषाऽऽभरणाद्यचित्तद्रव्याणामपरिहारेण 2, कृतैकपृथुलवस्त्रोत्तरासङ्गः; एतच्च पुरुषं प्रति द्रष्टव्यम्; स्त्री तु सविशेषप्रावृताङ्गी विनयावनततनुलतेति 3, दृष्टे जिनेन्द्रे अञ्जलिबन्धं शिरस्यारोपयन्"नमो जिणाणं" इति भणनप्रणमने 4 / अयमपि सङ्घाचारवृत्तौ स्त्रीणां निषिद्धः / तथा च तत्पाठः- "एकशाटकोत्तरासङ्गकरणं जिनेन्द्रदर्शने शिरस्यञ्जलिबन्धश्चेति गौ पुरुषमाश्रित्योक्तौ; स्त्रीतु सविशेषप्रावृताङ्गी विनयावनततनुलतेति / तथा चागमः-"विणओणयाए गायलट्ठीए" त्ति / तावता शक्रस्तवपाठादावप्यासां शिरस्यञ्जलिन्यासो न युज्यते, तथाकरणेऽङ्गदादिदर्शनप्रसक्तेः। यत्तु-''करयल० जाव कट्टएवं वयासी'' इत्युक्तं द्रौपदीप्रस्तावे, तद्भक्त्यर्थ न्युञ्छनादिवदञ्जलिभ्रमणसूचनपरं, नतु पुरुषैः सर्वसाम्यार्थ, न च तथा स्थितस्यैव सूत्रोचारख्यापनपरं था, अन्यदपि नृपविज्ञपनादावप्यादौ तथा भणनात, इत्याधुक्तप्राय परिभाटदामनागमाविरोधेनेति; मनसश्चैकाम्यं कुर्वन्निति पञ्चविधाभिगमेन नैषेधिकीपूर्वं प्रविशति / यदाह-''सच्चित्ताणं दव्वाणं विउसरणयाए 1, अचित्ताणं दव्वाणं अविउसरणयाए 2, एगल्लसाडएणं उत्तरासंगेणं 3. चक्खुप्फासे अंजलिपगाहेणं 4, मणसो एगत्तीकरणेणं ति''५ / राजादिस्तु चैत्यं प्रविशैस्तत्कालं राजचिहानि त्यजति। यतः-"अवहट्ट रायककुआ-ईं पंचवररायककुआई / खग्गं छत्तोवाणह, मउर्ड तह चामराओ अ॥१॥" अग्रद्वारे प्रवेशे मनोवाक्कायैहव्यापारो निषिध्यते इतिज्ञापनार्थ नैषेधिकीत्रयं क्रियते, परमेकैवैषा गण्यते, गृहादिव्यापारस्यैकस्यैव निषिद्धत्वात् कृतायां च नैषधिक्यां सावद्यव्यापारवर्जनमेव न्याय्यम्, अन्यथा तद्वैयर्थ्यांपत्तेः / यतो दिनकृत्ये-'"मिहो कहाओ सव्वाओ, जो वजेइ जिणालए / तस्स निसीहिआ होइ, इइ केवलिभासिअं" // 1 // इति / ततो मूलबिम्बस्य प्रणामं कृत्वा सर्वं हि प्रायेणोत्कृष्ट वस्तु श्रेयस्कामैदक्षिणभाग एव विधेयमित्यात्मनो दक्षिणानभागे मूलबिम्बं कुर्वन् ज्ञानादित्रयाराधनार्थ प्रदक्षिणात्रयं करोति। उक्तंच"तत्तो नमो जिणाएं, ति भणिअ अद्धोणयं पणामं च / काउं पंचंगं वा, भत्तिभरनिब्भरमणेणं // 1 // पूअंगपाणिपरिवा-रपरिगओ गहिरमहुरघोसेणं / पढमाणो जिणगुणगण-निबद्धमंगल्लथुत्तीइं / / 2 / / करधरिअजोगमुद्दो, पयपाणिरक्खणाउत्तो। दिज्जा पयाहिणतिगं, एगग्गमणो जिणगुणेसु // 3 // "