________________ चेइय १२८५-अभिधानराजेन्द्रः-भाग 3 चेइय तामेव भेदेनाऽऽहपञ्चोपचारयुक्ता, का चिचाष्टोपचारयुक्ता स्यात्। ऋद्धिविशेषादन्या, प्रोक्ता सर्वोपचारेति // 3|| पञ्चोपचारयुक्ता पञ्चाङ्गप्रणिपातरूपा, का चिच्चाष्टोपचारयुक्ता स्यात् अष्टाङ्गप्रणिपातरूपा, ऋद्धिविशेषादन्या ऋद्धिविशेषो दशार्णभद्रादिगतः, तस्मादपरा प्रोक्ता, सर्वोपचारेति सर्वैः / प्रकारैरन्तःपुरहस्त्यश्वस्थादिभिरुपचारो विनयो यस्यां सा सर्वोपचारा / तत्राद्या-"दो जाणू दोण्णि करा, पंचमयं होइ उत्तमंगं तु" / एवमेभिः पञ्चभिरुपचारयुक्ता, अथवा-आगमोक्तैः पञ्चभिर्विनयस्थानैर्युक्ता / तद्यथा-"सचित्ताणं दव्वाणं विसरणायए, अचित्ताणं दव्याणं अविउसरणयाए एगसाडिएणं उत्तरासंगणं चक्खुफासे अंजलिपग्गहेणं मणसा एगत्तीभावकरणेणं' / / द्वितीया त्वष्टभिरङ्गैः शरीरावयवैरुपचारो यस्याम्। तानि चाभून्यङ्गानि"सीसमुरोयरपिट्ठी, दो बाहूऊरुयाय अटुंगा।" तृतीया तु देवेन्द्रन्यायेन, यथोक्तमागमे-"सव्वबलेणं सव्वसमुदएणं सव्वविभूईए सव्वविभूसाए सव्वायरेण'' इत्यादि // 3 // इयं च यादृशेन वित्तेन कार्या पुरुषेण च तदाहन्यायार्जितेन परिशो-धितेन वित्तेन निरवशेषेयम् / कर्तव्या बुद्धिमता, प्रयुक्तससिद्धियोगेन ||4|| न्यायर्जितन न्यायोपात्तेन, परिशोधितेन भावविशेषात्, वित्तेन द्रव्येण, निरवशेषा सकलेयं पूजा, कर्तव्या करणीया, वृद्धिमता प्रज्ञावता, प्रयुक्तससिद्धियोगेन प्रयुक्तः वर्तितः सत्सिद्धियोगः सत्साधनव्यापारो येन स तथा // 4 // कीदृकप्रयत्नेन पुनः पुंसा करणीयेयमित्याहशुचिनाऽऽत्मसंयमपरं, सितशुभवस्त्रेण वचनसारेण / आशंसारहितेन च, तथा तथा भाववृद्ध्योचैः॥ 5 // शुचिना द्रव्यतः स्नानेन देशसर्वस्नानाभ्यां, देशस्नान हस्तपादमुखप्रक्षालनं, सर्वस्नान शिरसा स्नातत्वे सत्यागमप्रसिद्ध्या भावतः शुचिना भावस्नानेन, विशुद्धाध्यवसायेनेत्यर्थः / आत्मसंयमपरम्-आत्मनः शरीरस्य संयमः संवृताङ्गोपाङ्गेन्द्रियत्वं तत्परं तत्प्रधानं यथा भवत्येवं पूजा कर्तव्या। सितशुभवस्त्रेण सितवस्त्रेण शुभवस्त्रेण च, शुभमिह सितादन्यदपि पट्टयुग्मादि रक्तपीतादिवर्ण परिगृह्यते, वचनसारेणाऽऽगमप्रधानेन, आशंसारहितेन च इहपरलोकाद्याशंसाविकलेन च, तथा तथा भाववृद्ध्योचैर्येन येन प्रकारेण पुष्पवस्वादिविरचनागतेन | भाववृद्धिः संपद्यते तेन तेन प्रकारेणेत्यर्थः / / 5 / / प्रतिष्ठाऽनन्तरं पूजा प्रस्तुता, सा च पुष्पामिषस्तोत्रादिभेदेन बहुधा, तत्र पुष्पादिपूजामभिधाय स्तोत्रपूजां कारिकाद्वयेनाऽऽहपिण्डक्रियागुणगतै-गम्भीरैर्विविधवर्णसंयुक्तः। आशयविशुद्धिजनकैः, संवेगपरायणैः पुण्यैः / / 6 // पापनिवेदनगर्भः, प्रणिधानपुरस्सरैर्विचित्रार्थः। अस्खलितादिगुणयुतैः, स्तोत्रैश्च महामतिग्रथितैः // 7 // पिण्डं शरीरमष्टोत्तरलक्षणसहस्त्रलक्षितं, क्रिया समाचारश्चरितं, तच | सर्वातिशायि दुर्वारपरीषहोपसर्गसमुत्थभयविजयित्वेन, गुणाः श्रद्धाज्ञानविरतिपरिणामादयो जीवस्य सहवत्तिनोऽविनाभूताः सामान्येन, केवलज्ञानदर्शनादयस्तु विशेषेण, तद्गतैस्तद्विषयैस्तत्प्रतिबद्धः गम्भीरैः सूक्ष्ममतिविषयभावाभिधायिभिरन्तर्भावप्रवर्तितैश्च, विविधवर्णसंयुक्त विचित्राक्षरसंयोगैश्छन्दोलङ्कारवशेन, आशयविशुद्धिजनकैर्भावविशुद्धयाऽऽपादकैः, संवेगपरायणैः-संवेगः संसारभयं, मोक्षाभिलाषो वा, परमयनं गमनं येषु तानि परायणानि, संवेगे परायणानि संवेगपरायणानि, तैः पुण्यहेतुत्वात् पुण्यानि, तैः / / 6 / / पापानां रागद्वेषमोहकृतानां, स्वयंकृतत्वेन निवेदनंपरिकथनं, तद्गर्भो हृदयान्तर्गतभावो येषां तानि तैः पापनिवेदनगर्भः, प्रणिधानमैकाग्रयं, तत्पुरःसरैः, उपयोगप्रधानैरिति यावत् / विचित्रार्थैर्बहुविधार्थः, अस्खलितादिगुणयुतैरस्खलितममिलितमव्यत्याप्रेमितमित्यादिगुणयुक्तैरभिव्याहारमाश्रित्य स्तोत्रैश्च स्तुतिविशेषैश्च, महामतिग्रथितैः महाबुद्धिपुरुषविरचितकन्दर्भः, इयं पूजा कर्तव्येति पश्चात्संबन्धनीयम्॥६-७॥ कथं पुनः स्तोत्रेभ्यः पूजा भवतीत्याहशुभभावार्थ पूजा, स्तोत्रेभ्यः स च परः शुभो भवति / सद्भूतगुणोत्कीर्तन-संवेगात् समरसाऽऽपत्त्या / / 8 / / (शुभेत्यादि) शुभभावार्थ पूजा शुभभावनिमित्तं पूजा, सर्वाऽपि पुष्पादिभिः स्तोत्रेभ्यः स्तुतिभ्यः, स च भावः, परः प्रकृष्टः, शुभो भवति शुभहेतुर्जायते, एवं च पुष्पवस्वादीनामिव स्तोत्राणामपि प्राक्तनाध्यवसायापेक्षया शुभतरपरिणामनिबन्धनत्वे पूजाहेतुत्वं सिद्धयति / कथं पुनः स्तोत्रेभ्यः शुभो भाव इत्याह-सद्भूतगुणोत्कीर्तनसंवेगात्, सद्भूतानां विद्यमानानां तथ्यानां च गुणानां ज्ञानादीनां यत्कीर्तनं तेन संवेगो मुक्त्यभिलाषस्तस्मात्, समरसापत्त्या समभावे रसोऽभिलाषा यस्यां सा समरसा, सा चासावापत्तिश्च प्राप्तिरधिमतिरधिगम इत्यनान्तरम् / तया हेतुभूतया समरसापत्त्या परमात्मस्वरूपगुणज्ञानोपयोगरूपया, परमार्थतस्तद्भवनेन तदुपयोगानन्यवृत्तितया स्तोत्रेभ्य एव शुभो भावो भवतीति तात्पर्यम् // 8 // अधुना अन्यथा पूजाया एव भेदत्रयमाहकायदियोगसारा, त्रिविधा तच्छुद्ध्यपात्तवित्तेन। या तदतिचाररहिता, सा परमाऽन्ये तु समयविदः / / 6 / / (कायेत्यादि) कायादयो योगाः कायादीना वा, तत्सारा तत्प्रधाना, त्रिविधा त्रिप्रकारा पूजाकाययोगसारा, वाग्योगसारा, मनोयोगसारा च, तच्छुद्ध्युपात्तवित्तेन तेषां कायादियोगानां शुद्धिः कायादिदोषपरिहारः, तयोपात्तं यद्वित्तं तेन करणभूतेन, या तदतिचाररहिता शुद्ध्यतिचारविकला, सा परमा प्रधाना पूजा, अन्ये तु समयविदः अपरे त्वाचार्या इत्थमभिदधति // 6 // कायादियोगसारा त्रिविधा पूजेत्युक्तं तदेव त्रैविध्यमाहविघ्नोपशमन्याद्या, गीताऽभ्युदयप्रसाधिनी चान्या। निर्वाणसाधसनीति च, फलदा तु यथार्थसंज्ञाभिः // 10 // (विघ्नेत्यादि) विघ्नानुपशमयतीति विघ्नोपशमनी, आद्या का