________________ चेइय १२८१-अभिधानराजेन्द्रः-भाग 3 चेइय चः समुच्चये, अन्यो जिनपतिपूजातोऽपरः, उपयोगो विनियोगस्थानम, एतेषां प्रवरसाधनानाम्, सतां विद्यमानानाम, लष्टतरः प्रधानतरो भवति / यदाह-'देहः पुत्रः कलत्रं वा, संसारायैव सत्कृतः / वीतरागस्तु भव्यानां, संसारोच्छित्तये भवेत्॥१॥" इत्यतः प्रवरपुष्पादिभिः पूजा विधेया, इति गाथार्थः / / 16 // अमुमेवार्थ भावयन्नाहइहलोयपारलोइय-कज्जाणं पारलोइ अहिगं। तं पिहु भावपहाणं, सो वि य इय कज्जगम्मो ति।। 17 // / ऐहलौकिकपारलौकिक कार्ययोर्वर्तमानभवपरभवप्रयोजनयोः साध्ययोर्मध्ये, पारलौकिकं पारभविकम्, अधिकं प्रधानतरं, विशेषतस्तस्य साधनीयत्वात्, तदसाधने बहुतमानर्थसंभवात् / पारलौकिक कृत्यं च जिनपूजेत्यतो नान्यदुपयोगस्थानं लपतरं प्रवरसाधनानामिति / तत्र च यत्प्रधानं तद्दर्शयितुमाह-(तं पि हु त्ति) तत्पुनः पारलौकिकं कार्यम् / भाव आत्मपरिणामः प्रधानः साधकतयोत्तमो यस्मॅिस्तद्भावप्रधानं, शुभभावसाध्यम् / अतोऽसौ भावविशेषो विशिष्ट पारलौकिककार्यार्थिना समाश्रयणीय इति हृदयम् / यदि भावप्रधानं ततः किमित्याह-(सो वि य त्ति) स पुनः पारलौकिकार्यहेतुभूतो भावः / इति कार्यगम्य इत्येवंविधमनन्तरोक्तं यत्कार्य भावस्य कृत्यं पूजार्थं प्रवरपुष्पायुपादानुरूपं, तेन यो गम्यो निश्चेतव्यः स इति कार्यगम्यः, इतिशब्दः समाप्तौ। इदमुक्तं भवति-परलोकसाधनहेतुभूतशुभभावकार्यत्वात्प्रवरसाधनोपादानस्य शुभभावं सफलयद्भिस्तद्विधेयं भवति, इति गाथार्थः / / 17 // अथाधिकृतद्वारं निगमयन्नाहता नियविहवऽणुरूवं, विसिट्ठपुप्फाइएहि जिणपूजा। कायव्वा बुद्धिमया, तम्मी बहुमाणसारा य / / 18 / / (ता इति) यस्मात्प्रवरसाधनैः प्रवरो भावो भवतीत्याधुक्तं, तत्तस्माद्धेतोर्निजविभवस्य स्वकीयविभूतेरनुकूलं स्वभावो यस्य पूजाकरणस्य तन्निजविभवानुरूपम्। कर्त्तव्येति क्रियाया विशेषणमिदम् / विशिष्टपुष्पादिभिरुक्तस्वरूपैः, जिनपूजाऽहंदर्चनम्, कर्तव्या विधेया, बुद्धिमता धीमता / बुद्धिमानेव ह्युपादेयोपादानक्षमो भवतीति बुद्धिमतेत्युक्तम् / तथा तस्मिन् जिने बहुमानसारा प्रीतिप्रधाना / तद्यथा-''अनुपकृतपरहितरतः, शिवदस्त्रिदशेशपूजितो भगवान्। पूज्यो हितकामानां, जिननाथो नाथताहेतुः" || 1 // चशब्दः पूर्वोक्तविशेषणापेक्षया समुच्चयार्थः, इति गाथार्थः // 18 // पञ्चा०४ विव० / अथ विधिद्वारनिरूपणायाऽऽहप्रमार्जितपवित्रावघर्षेऽसंसक्तशोधितजात्यकेसरकर्पूरादिमिश्रश्रीखण्ड संघर्घ्य भाजनद्वये पृथगुच्चारयेत्। तथा संशोधितजात्यधूपघृतपूर्णप्रदीपाऽखण्डचोक्षादिविशेषाक्षतपूगफलविशिष्टानुच्छिष्टनैवेद्यहृद्यफलनिर्मलोदकभृतपात्रादिसामग्री संयोजयेदेव द्रव्यतः शुचिता / भावतः शुचिताऽनुरागद्वेषकषायैरैहिकामुष्मिकस्पृहाकौतुकव्याक्षेपादित्यागेनैकाग्रचित्तता। उक्तं च"मनोवाक्कायवस्त्रोर्वी -पूजोपकरणस्थितेः। शुद्धिः सप्तविधा कार्या, श्रीअर्हत्पूजनक्षणे' / / 1 / / एवं द्रव्यभावाभ्यां शुचिः सन् गृहचैत्ये"आश्रयन् दक्षिणां शाखां, पुमान् योषित्त्वदक्षिणाम्। यत्नपूर्वे प्रविश्यान्तर्दक्षिणेनाहिणा ततः // 2 // सुगन्धिमधुरैर्द्रव्यैः, प्राङ्मुखो वाऽप्युदड्मुखः।। वामनाड्यां प्रवृत्तायां, मौनवान् देवमर्चयेत् // 3 // इत्याद्युक्तेन नैषेधिकीत्रयकरणप्रदक्षिणात्रयचिन्तनादिकेन च विधिना देवताऽवसरप्रमार्जनपूर्व शुचिपट्टकादौ पद्मासनासीनः पूर्वोत्सारित-- द्वितीयपात्रस्थचन्दनेन देवपूजासत्कचन्दनभाजनाद्वा पात्रान्तरे हस्ततले वा गृहितचन्दनेन कृतभालकण्ठहदुदरतिलको रचितकर्णिकाङ्गदहस्त कङ्गणादिभूषणः चन्दनचर्चितभूषितभुजो लोमहस्तकेन श्रीजिनाङ्गानिर्माल्यमपनयेत् / निर्माल्यं च-"भोगविणट्ट दव्वं, निम्मल्लं विति गीअत्था' / इति वृहद्भाष्यवचनात् यज्जिन बिम्बारोपितं सद्विच्छायीभूतं विगन्धं जातं दृश्यमानं च निःश्रीकं न भव्यजनमनःप्रमोदहेतुस्तन्निर्माल्य ब्रूवन्ति बहुश्रुता इति सङ्घाचारवृत्त्युक्तेश्च भोगविनष्ट मेव, न तु विचारसारप्रकरणोक्तप्रकारेण ढौकिताक्षतादेनिर्माल्यत्वमुचितम्, शास्त्रान्तरे तथा दृश्यमानत्यादक्षोदक्षमत्वाच्च, तत्त्वं पुनः केवलिगम्यम्। वर्षादौ च निर्माल्यं विशेषतः कुन्थ्वादिसंसक्तेपृथग पृथग् जनानाक्रम्य शुचिस्थाने त्यज्यते, एवमाशातनाऽपि न स्यात् / स्नात्रजलमपि तथैव, ततः सम्यक् श्रीजिनप्रतिमाः प्रमाय॑ उच्चैः स्थाने भोजनादावव्यापार्यपवित्रपात्रे सस्थाप्य च करयुगधृतशुचिकशादिनाऽभिषिऽञ्चेजलं च पूर्व घुसृणाधुन्मिश्रं कार्य, यतो दिनकृत्ये - "घुसिणकप्पूरमीसं, काउं गंधोदगं वरं / तओ भुवणनाहस्स, व्हावेई भत्तिसंजुओ' // 1 // घृशृणं कुडम, कर्पूरो घनसारस्ताभ्यां मिश्रं, तुशब्दात्सर्वोषधिचन्दनादिपरिग्रह इति तद्वृत्तिः / स्नपनकाले च--''बालत्तणम्मि सामिअ,! सुमेरुसिहरम्मि कणयकलसेहिं / तिअसासुरेहिण्हविओ, ते धन्ना जेहिँ दिवो सि" // 1 // इत्यादि विचिन्त्य पूजाक्षणे च मुख्यवृत्त्या मौनमेद कार्य, तदसक्तो सावधं त्याज्यमेव, अन्यथा नैषेधिकीकरणनैरर्थक्यापत्तेः, कण्डूयनाद्यपि हेयमेव / यतः-"कायकंडूअणं वजे, तहा खेलविगिचणं / थुइथुत्तभणणं च, पूअंतो जगबंधुणो / / 1 / / " ततः सुयत्नेन बालककूर्चिको व्यापार्य केनाङ्गरूक्षणेन सर्वतो निर्जलीकृत्य द्वितीयेन च धूपितमृदूज्ज्वलेन तेन मुहुः 2 सर्वतः स्पृशेत, एवमङ्गरूक्षणद्वयेन सर्वप्रतिमा निर्जलीकार्या। यत्रस्वल्पोऽपिजलक्लेदस्तिष्ठति, तत्र 2 श्यामिका स्यादिति सा सर्वथा व्यपास्येत, न च पञ्चतीर्थी चतुर्विशतिपट्टकादौ मिथ:".........................सूरिआभदेवस्स / जीवाभिगमे विजया-पुरीऐं विजयाइदेवाणं // 1 // भिंगाइलोमहत्थय--लूहणया धूवदहणमाईअं। पडिमाण सकदाणय-पूआए इक्कयं भणिअं // 2 // निव्वुअजिणदसकहा-सग्गसमुग्गेसु तिसु विलोएसु / अन्नोन्नं संलग्गा, न्हवणजलाईहिँ संपुट्ठा॥ 3 // पुव्वधरकालविहिआ, पडिमाई संति केसु वि पुरेसु / वत्तक्खा 1 खेत्तक्खा 2 महक्खया, 3 गथें दिट्ठा य / / 4 / / " (गंथें दिट्ठत्ति) ग्रन्थे प्रतिष्ठाषोडशकादौ दृष्टा / (ध०) 'मालाइआधराण वि, धुवणजलाई फुसेइ जिणबिंबं / पुत्थयपत्ताईण वि, उवरुवरि फरिसणाईअं।। 5 / / ता नज्जइ नो दोसो, करणे चउवीसवट्टयाईणं। आयरणाजुत्तीओ, गंथेसु अदिस्समाणत्ता / / 6 // " बृहद्भाष्येऽप्युक्तम्जिणरिद्धिदसणत्थं, एगं कारेइ कोइ भत्तिजुओ।