________________ चेइय १२७६-अभिधानराजेन्द्रः-भाग 3 चेइय क्षालितदेहेन, देशतः सर्वतो वा। तत्र देशतो विहितकरचरणमुखदेशौचेन, सर्वतस्तु जलक्षालितसर्वशरीरेणेति / तथा शुद्धवस्त्रेण च शुचिनिवसनोत्तरीवाससा च सिप्लवस्त्रेण, भावे तु भावशौचे पुनर्विषयभूते, अवस्थोचिता देशकालविशिष्टावस्थापेक्षया स्वभूमिकायोग्या, विशुद्धा निरवद्यप्राया, वृत्ति विका, तया प्रधानः शोभनो यः, सा वा प्रधाना यस्य, स तथा, तेन न्यायोपात्तवित्तयुक्तेनेति भावः।न्याय एव हि भावतः शौचं, कर्ममलपटलक्षालनजलकल्पत्वात्तस्य / इति गाथार्थः / / 6 / / पञ्चा० 40 विव० / (श्रावकस्य स्नानविधिरन्यत्र विस्तृतः) "कृत्वेदं यो विधानेन, देवताऽतिथीपूजनम्।। करोति मलिनारम्भी, तस्यैतदपि शोभनम् // // 1 // विधानेन विधिना, अतिथिः साधुः, मलिनारम्भी गृहस्थः। द्रव्यस्नानस्य शोभनत्वे हेतुमाह"भावशुद्धेनिमित्तत्वा-त्तथाऽनुभवसिद्धितः / कथञ्चिद्दोषभावेऽपि, तदन्यगुणभावतः // 2 // युग्मम्। दोषोऽप्कायविराधनादि, तस्माद्दोषादन्यो गुणः सद्दर्शनशुद्धिलक्षणः / यदुक्तं-'पूआए कायवहो, पडिकुट्ठो सो उ किंतु जिणपूआ / सम्मत्तसुद्धिहेउ, त्ति भावणीआ उ णिरवज्जा ! // 1 // ' अन्यत्राप्युक्तम्द्रव्यस्नानादिके यद्यपि षट्कायोपमर्दादिका काचिद्विराधना स्यात्, तथापि कूपोदाहरणेन श्रावकस्य द्रव्यस्तवःकर्तुमुचितः / यदाहुः"अकसिणपवत्तयाणं, विरयाविरयाण एस खलु जुत्तो / संसारपयणुकरणे, दव्वत्थऍ कूवदितो॥१॥" इदमुक्तं भवति-यथा कूपखननं श्रमतृष्णाकर्दमोपलेपादिदोषदुष्टमपि जलोत्पत्तावन्तरोक्तदोषानपोह्यस्वोपकाराय परोपकाराय च किल भवतीत्येवं स्नानादिकमप्यारम्भदोषमपोह्य शुभाध्यवसायोत्पादनेन विशिष्टाशुभकर्मनिर्जरणपुण्यबन्धकारणं भवति / इह केचिन्मन्यन्ते पूजार्थं स्नानादिकरणकालेऽपि निर्मलजलकल्पशुभाध्यवसायस्य विद्यमानत्वेन कर्दमलेपादिकल्पपापाभाद्विषमनिदमित्थमुदाहरणम्, ततः किलेदमित्थं योजनीयम्-'यथा कूपखननं स्वपरोपकाराय भवति एवं स्नानपूजादिकं करणानुमोदनद्वारेण स्वपरयोः पुण्यकारणं स्यादिति, न चैतदागमानुपाति, यतो धम्मर्थिप्रवृत्तावप्यारम्भजनितस्याल्पपापस्येष्ट वात्, कथमन्यथा भगवत्यामुक्तम्-'तहारूपं वा समणं वा माहणं वा पडिहयपच्चक्खायपावकम्म अफासुएणं अणे सणिज्जेणं असणं पाणं खाइमं साइमं पडिलाभेमाणे भंते! किं कज्जइ ? गोयमा ! अप्पे पावे कम्मे बहुअरिआ से णिज्जरा कज्जइ / तथा ग्लानप्रतिचरणानन्तरं पञ्चकल्याणकं प्रायश्चित्तप्रतिपत्तिरपि कथं स्यादिति पञ्चाशकवृत्तौ तत्सूत्रमपि"पहाणाइ वि जयणाए, आरंभवओ गुणा य नियमेणं / सुहभावहेउओ खलु, विष्णेअंकूवणाएण॥ 1 // " इत्यलं प्रसङ्गेना एवं च देवपूजाद्यर्थमेव गृहस्थस्य द्रव्यस्नानमनुमतं, तेन द्रव्यस्नानं पुण्यायेति यत्प्रोच्यते तन्निरस्तं मन्तव्यम् / भावस्नानं च शुभध्यानरूपम्, यतः-- "ध्यानारम्भसा तु बीजस्य, सदा यच्छुद्धिकारणम् / मलं कर्म समाश्रित्य, भावस्नानं तदुच्यते / / 1 // इति / कस्यचित्स्नाने कृतेऽपि यदि गण्डूक्षतादि स्रवति, तदा तेनागपूजां स्वपूष्पचन्दनादिभिः परेभ्यः कारयित्वाऽग्रपूजा भावपूजा चस्वयं कार्या, वपुरपावित्र्ये प्रत्युताशातनासंभवेन स्वयमङ्गपूजाया निषिद्धत्वात् / उक्तं च- "निःशूकत्वादशौचेऽपि, देवपूजा तनोति यः / पुष्पैर्भूपतितैर्यश्च, भवतः श्वपचाविमौ // 1 // " इति / तत्र स्नानानन्तरं पवित्रमृदुगन्धकाषायिकाद्यंशुकेनाङ्गरूक्षणं तथा पोत्तिकमोचनपवित्रवस्त्रान्तरपरिधानादियुक्त्या क्लिन्नांहिभ्यां भूमिस्पृशन् पवित्रस्थानमागत्योत्तरामुखः संव्ययते दिव्यं नव्यमकीलितं श्वेतांशुकद्वयम् / यतः"विशुद्धं वपुषः कृत्वा, यथायोग जलादिभिः / धौतवस्त्रे वसीत द्वे, विशुद्धे धूपधूमिते" // 1 // लोकेऽप्युक्तम्न कुर्यात्सन्धितं वस्त्रं, देवकर्मणि भूमिप! | न दग्धं न तु वै छिन, परस्य तु न धारयेत्॥२॥ कटिस्पृष्ट तु यद्वस्वं, पुरीष येन कारितम्। समूत्रमैथुनं वाऽपि, तद्वस्त्रं परिवर्जयेत्।। 3 / / एकवस्वो न भुञ्जीत, न कुर्याइवताऽर्चनम्। न कञ्चुकं विना कार्या, देवार्चा स्त्रीजनेन तु" // 4 // एवं हि पुंसां वस्त्रद्वयं, स्त्रीणां च वस्त्रत्रयं विना देवपूजनादि न कल्पते, धम्यै वस्त्रं च मुख्यवृत्त्याऽतिविशिष्टं क्षीरोदकादिकं श्वेतमेव कायम् / उदायननृपराज्ञीप्रभावतीप्रभृतीनामपि धौतांशुकं श्वेतं निशीथादावुक्तं दिनकृत्यादावपि-"सेअवत्थनिअसणो त्ति क्षीरोदकाद्यशक्तावपि दुकूलदिधौतिक विशिष्टमेव कार्यम्। यदुक्तं पूजाषोडशके-'"सितशुभवखेण" इति / तवृत्तिर्यथासितवस्त्रेण च,शुभवस्त्रेण शुभमिह शुभ्रादन्यदपि पट्टयुग्मादि रक्तपीतादिवर्ण परिगृह्यते इति, "एगसामिअं उत्तरासंगं करेइ" इत्यागमप्रामाण्यादुत्तरीयमखण्डमेव कार्यम्, न तु खण्डद्वयादिरूपं, तच वस्त्रद्वयं भोजनादिकार्ये म व्यापार्य, प्रस्वेदादिनाऽशुचित्वापत्तेः, व्यापारचैलमेव व्यापार्य, परसत्कमपि च प्रायो वयं, विशिष्य च बालवृद्धस्त्र्यादिसत्कं, न च ताभ्यां प्रस्वेदश्लेष्मादि स्फेटनीयं, व्यापारितवस्त्रान्तरेभ्यश्च पृथग् मोच्यमिति सम्यग स्नात्वेत्यशः प्रदर्शितः / अथ जिनं संस्नाप्येत्यंशः प्रदर्शनीयः, तत्र जिनस्नपनादिविधिश्च समस्तपूजा सामग्रीमेलनपूर्वकः / सा चेयम् / तथाहि-शुभस्थानात्स्वयमारामिकादिकं सुमूल्यार्पणादिना संतोष्य पवित्रभाजनाच्छादनहृदयाग्रस्थकरसंपुटधारणादिविधिना पुष्पाद्यानयेत्, वैश्वासिकपुरुषेण वाऽऽनाययेत्. जलमपि च तथा, तथोष्ठपुटो त्तरीयप्रान्तेन मुखकोशं विदध्यात् / यतो दिनकृत्ये-'काऊण विहिणा पहाण,सेअवत्थनिअंसणो / मुहकोसं तु काऊणं, गिहबिबाणि पमजए " // 1 // त्ति / तमपि च यथासमाधि कुन्निासाबाधे तु नापि / यतः पूजापञ्चाशके-"वत्थेणं बंधिऊणासं अहवा जहासमाहीए' / एतंदवृत्तिर्यथावस्त्रेण वसनेन, बद्भवा आवृत्य, नासां नासिकाम्।अथवेति विकल्पार्थो यथासमाधि समाधानानतिक्रमेण, यदि हि नासाबन्धे असमाधानं स्यात्तदा तामबध्वापीत्यर्थः / सर्वं यत्नेन कार्यमित्यनुवर्तते इति, युक्तिमच मुखे वस्त्रबन्धनं, भृत्या अपि स्वामिनोऽङ्गमर्दनश्मश्रुरचनादिकं कुर्वन्ति / यदुक्तम्-"बंधिता कासवयो वयणं अट्ठगुणाएँ पोत्तीए। पत्थिवमुवासए खलु, वित्तिनिमित्तं सया चेव ॥१॥त्ति / ध०२ अधि०। स्नानादौ यतना-यतनया विहितस्य स्नानादेः शुभभावहेतुत्वं प्रागुक्तम्, अथ यतनां स्नानगतां शुभभावहे __ तुतां च यतनाकृतां स्नानस्य दर्शयन्नाहभूमीपेहणजलछा-णणाइ जयणा उ होइण्हाणाओ।