________________ चेइय १२७५-अभिधानराजेन्द्रः-भाग 3 चेइय भूतः, तेन विशुद्धिमतेत्यर्थः / तथा विशिष्टपुष्पादिभिः प्रधानसुमनः प्रभृतिभिः करणभूतैः / आदिशब्दार्थ स्वयमेव वक्ष्यति / तथा विधिना वक्ष्यमाणविधानेनेति, तुशब्दः समुच्चयार्थः, तथा सारस्तुतिस्तोत्रगुर्वी प्रधानस्तुतिस्तोत्रमहती, स्तुतिश्चैकश्लोकप्रमाणा, स्तोत्रं तु बहुश्लोकमानम्, जिनपूजाऽहंदर्चनं, भवति वर्त्तते, कर्त्तव्या विधेया / इति द्वारगाथासमासार्थः // 3 // पञ्चा० 4 विव०। सम्यक् स्मात्वोचिते काले, संस्नाप्य च जिनान् क्रमात्। पुष्पाहारस्तुतिभिश्च, पूजयेदिति तद्विधिः / / 61 // उचिते जिनपूजाया योग्ये, कालेऽवसरे, सम्यग विधिना, स्नात्वा स्वयं स्नानं कृत्या, च पुनर्जिनानहत्प्रतिमाः, संस्नाप्य सम्यक् स्नपयित्वा, क्रमात् पुष्पादिक्रमेण, न तु तमुल्लड्घ्य, पुष्पाणि कुसुमानि, पुष्पग्रहणं च सुगन्धिद्रव्याणां विलेपनगन्धधूपवासादीनामङ्गन्यसनीयानां च वस्त्राभरणादीनामुपलक्षणम् / आहारश्च पक्वान्नफलाक्षतदीपजलघृतपूर्णपात्रादिरूपः, स्तुतिः शक्रस्तवादिसद्भूतगुणोत्कीर्तनरूपा, ततो द्वन्द्वः, ताभिः, पूजयेदिति / तस्य चैत्यपूजनस्य विधिरिति क्रियाकारकसंबन्धः / ध०२ अधि०। अथ जिनपूजायां कालः किमित्याश्रीयते इत्याहकालम्मि कीरमाणं, किसिकम्मं बहुफलं जहा होइ। इय सव्व चिय किरिया, णियणियकालम्मि विण्णेया॥ 4 // काले प्रावृडादिसमये, निजे इति शेषः / क्रियमाणं विधीयमानम्, कृषिकर्म क्षेत्रकर्षणक्रिया, बहुफलं प्रभूतधान्यादिसाधकम्, यथा येन प्रकारेण, भवति जायते, इत्येतेनैव प्रकारेण, (सव्व चिय त्ति) सर्वाऽपि समस्ताऽप्यास्तां जिनपूजा, क्रिया कर्म, निजनिजकाले स्वकीयस्वकीयावसरे, क्रियमाणा बहुफलेति शेषः। विज्ञेया ज्ञातव्या भवति इति। अतो जिनपूजायाः करणे कालः समाश्रयणीयः / इति गाथार्थः / / 4 / / अथ पूजाकालं विशेषतो दर्शयन्नाहसो पुण इह विण्णेओ, संझाओ तिणि ताव ओहेण / वित्तिकिरियाविरुद्धो, अहवा जो जस्स जावइओ।।५।। स इति यः सर्वक्रियासु बहुफलनिबन्धनत्वेन प्रागुपदिष्टोऽसौ कालः, पुनरिति विशेषप्रतिपादनार्थः, इह जिनपूजायां विषये, विज्ञयो ज्ञातव्यः, किंभूत इल्लाह-सन्ध्याः कालवेलाः, तिस्रस्त्रिसंख्याः, तावदिति वक्ष्यमाणापवादिककालापेक्षया प्रथमोऽयमिति क्रमभावसूचनार्थ / / ओघेन सामान्येन, उत्सर्गत इत्यर्थः / अथापवादमाह-वृत्तिर्जीवनं, तदर्थाः क्रिया : कर्माणि राजसेवावाणिज्यादीनि, तासामविरुद्धोऽबाधको वृत्तिक्रियाविरुद्धः, अथवेति विकल्पार्थः। ततश्चापवादत इत्युक्तं भवति / यः पूर्वाह्लादिः,यस्य राजसेवकवाणिज्यकादेः, (जावइओ ति) यत्परिमाणो यावान्, स एव यावत्को मुहूर्तादिपरिमाणः, सतस्य तावत्कः पूजाकालो भवति; न पुनः सन्ध्यात्रयरूप एवेति गाथार्थः // 5 // अथ किमर्थमापवादिककालप्ररूपणमित्याशङ्ख्याऽऽहपुरिसेणं बुद्धिमया, सुहवुद्धिं भावओ गणंतेणं / जत्तेणं होयध्वं,सुहाणुवंधप्पहाणेण // 6 // पुरुषेण नरेण, नरग्रहणं चेह प्रायः पुरुषस्य प्राधान्यात् / अथवा-पूः शरीरं, तत्र शयनात्पुरुषो जीवः, तेन बुद्धिमता धीमता, बुद्धिमानेव हि औचित्येन वर्तत इति बुद्धिमद्ग्रहणम् / किंकुर्वता तेनेत्याह-शुभवृद्धिं कल्याणोपचयं, सुखवद्धनं वा। भावतः परमार्थतः, गणयताऽऽत्मनोडच्छता सता, किमित्याह-यत्नेनाऽऽदरेण, भवितव्यं भाव्यम् / शुभानुबन्धप्रधानेन कुशलाविच्छेदपरेण, यथा कल्याणसन्तानो वर्धते, तथा यत्नो विधेयः / वृत्तिक्रियाविरुद्धसमये च पूजासेवनेनासौ व्यवच्छिद्यते, अतः पूजायामापवादिककालः समाश्रीयते; इति गाथार्थः // 6 // अथ कथमापवादिककालानाश्रयणे शुभसन्तानव्यवच्छेदः स्यात्? वृत्तिव्यवच्छेदादिति ब्रूमः / एतदेवाहवित्तीवोच्छेयम्मि य, गिहिणो सीयंति सव्वकिरियाओ। निरवेक्खस्स उ जुत्तो, संपुण्णो संजमो चेव / / 7 / / वृत्तिव्यवच्छेद जीविकाविधाते. वृत्तिक्रियाविरुद्धपूजाकालाश्रयणे कृते; चशब्दो विशेषद्योतकः पुनश्शब्दार्थः; तस्य चैवं भावनावृत्तिक्रियाविरुद्धकालाश्रयणे वृत्तिव्यवच्छेदो भवति। वृत्तिव्यवच्छेदे पुनः किमित्याह-गृहिणो गृहस्थस्य, सीदन्ति न प्रवर्तन्ते, सर्व क्रिया धर्मलोकाश्रिताः समस्तव्यापाराः / अथ सीदन्तु ताः सकलकल्मषविभोषपरपरममुनिपदपङ्कजपूजनप्रवृत्तस्य किं ताभिरित्यत्राहनिरपेक्षस्य तु वृत्तिनिस्पृहस्य पुनः, पुरुषस्य / युक्तः सङ्गतो विधेयतया, संपूर्णः सर्वविरतिरूपतया परिपूर्णः / संयमश्चैव साधुधर्म एव साधोरिवान्यथा सर्वथा निरपेक्षत्वासिद्धेरिति गाथार्थः // 7 // अथ कालद्वारं निगमयन्नाहतासिं अविरोहेणं, आभिग्गहिआ इह मओ कालो। तत्थावोच्छिणो जं, णिचं तकरणभावो त्ति / / 8|| तत्तस्मादासां वृत्तिक्रियाणां, तासां वा, अविरोधेनानाबाधया, अभिग्रहश्चैत्यवन्दनमकृत्या मया न भोक्तव्यं, न वा स्वप्तव्यमित्यादिरूपो नियमः प्रयोजनमस्येत्याभिग्रहिकः, इह जिनपूजायां विषये, मतो विदुषां सम्मतः, कालोऽवसरः, अथ कथमभिमतोऽसौ, यतोऽभिग्रहेण बलात्तत्र काले पूजाया प्रवर्ततेऽसौ, स्वरसप्रवृत्तिरेव च गुणकरीत्याशयाऽऽहतत्राभि-ग्रहे सति, अविच्छिन्नोऽत्रुटितः / यद्यस्मात्, नित्यं प्रतिदिनम्, तत्करणभावः पूजाविधानाध्यवसायो भवति, तत्परिणामाव्यवच्छेदस्य चाव्यवच्छिण्णजपुण्यबन्धहेतुत्वादभिमत एवाभिग्रहिकः पूजाकाल इति भावः / इतिशब्दो वाक्यार्थसमाप्ताविति गाथार्थः // 8 // उक्तं कालद्वारम्। अथ शुचिद्वाराभिधानायाऽऽहतत्थ सुइणा दुहा वि हु, दव्वे ण्हाएण सुद्धवत्थेण / भावे उ अवत्थोचिय-विसुद्धवित्तिप्पहाणेण ||6|| (तत्थ ति)शुचिभूतेनेति यत् द्वारमुक्तं तत्रेदमुच्यते, शुचिना शुचिमता प्राणिना, द्विधाऽपि द्वाभ्यामपि प्रकाराभ्याम् आस्तामेकधा इत्यपिशब्दार्थः / 'हु' शब्दः समुच्चये, तत्प्रयोगश्च दर्शयिष्यते। जिनपूजा कर्त्तव्येति प्रक्रमः / द्वैविध्यं चद्रव्यभावापेक्षम्, एतदेवाऽऽहद्रव्ये द्रव्यशौचविषये, स्नातेन जल