________________ चेइय १२७७-अभिधानराजेन्द्रः-भाग 3 चेइय येन कारणेन, नो नैव, भाजनं पात्रं, भवसि जायसे / इति गाथार्थः / जीया०१ अधि०। हा०। पावस्थकृतचैत्यं न पूज्यम्सावयजणस्स धम्म-स्सा फसए के वि विति चेइहरे। पासत्थाईविहिए, नो सक्काराइयं कुज्जा। श्रावकजनस्य धर्मस्य दानादेः "फसए त्ति'' देशीभाषया त्रशकाः केऽप्यके, बुवते भणन्ति, चैत्यगृहे जिनसदने, पार्श्वस्थादिविहिते अवसन्नादिकृते, नो नैव, सत्कारादिकं वस्वाभरणपूजादिकं, कुर्याद्विधेयादिति गाथार्थः / अन्यच्च त एव यद्वदन्ति तत्सोत्तरं गाथया प्राहते विहु तट्ठाणाओ, सइ सत्तीए निगासणिज्जाओ। नेयं पि सुविहियाणं, जुज्जइ वोत्तुं जओ भणियं / / तेऽपि पावस्थादयो, यैर्देवकुलानि कारितानीति शेषः / आशातनाकारित्वात्तेषामित्याशयः। हुस्तथैव, तत्स्थानात् देवकुलादेः, सत्यां विद्यमानायां, शक्त्यां सामर्थ्य, निष्काशनीया एव, न नैव, इदमपि पूर्वोक्तं, सुविहितानां साधूनां, युज्यते घटते, वक्तुं भणितु, यतो भणितं तदनन्तरगाथायां भणिष्यतीति गाथार्थः / तदेव गाथापञ्चकेनाहववहारछेयगंथे, ओसन्नविहारिणीऐं वइणीए। कारवियं चेइहरं, तत्थ य तप्पेरियजणेहिं। विउले सक्कारम्मी, महिए वस॒तयम्मि पत्ते य। विहरंती तत्थ पवि-त्तिणी उपत्ता तहिं सा उ॥२॥ अप्पुज्जमिती भणिया, अत्थिन वा कोइ एइ चेइहरे। सुस्सूसयरो जंपइ, नऽत्थि च्चिय भणइ गुरुणी उ॥३॥ उज्जमिउं नो कुज्जइ, अविज्जमाणम्मि तम्मि तुह भद्दे! / होइ अभत्ती जम्हा, इय करणे चेइयाणं ति // 4 // अह पुण अविज्जमाणे, सुस्सूसयरे उ उज्जमा विति। तो पच्छित्तं भणिडं, पयमं ववहारगंथम्मि॥५॥ सुगमाः। तथा च व्यवहारे भणितम्"अणुसट्ठ उज्जमंती, विज्जंते चेइयाण सारवए। पडिवज्जते गरुया, अणवठ्ठप्पा अभत्तीए | ननु तेषां तत्करणपुण्यं भवति, न वेत्याह"होउ व मा होउ व तिएँ, पुन्नं तकारयाण सव्वन्नू। जाणति ते ववहारउ, ओजस्साई इमं वयणं" || सुबोधा। तदेवोक्तं गाथाद्वयेनाऽऽह"समयपवित्ती सव्वा, आणावज्झ त्ति भवफला चेव / तित्थयरुद्देसेण वि , न तत्तओ वा तदुद्देसा'' || तथा छेदग्रन्थे भणितम्"दुभिगंधमलस्सावि, तणुरप्पेसहाणिया / उभओ वाउवाहे वा, ण चिट्ठति न वेइए' / सुगमा। श्रावकाणां पुनस्तत्र किमित्याह सडाण पुणो चेइय-हरं तु जह तह व होउ निप्फन्नं। पूइज्जं तप्फलयं, मयमेयं आगमन्नूणं / / श्रावकाणां श्राद्धाना, पुनश्चैत्यगृहं जिनसदनं, तुः पूरणे। यथा तथा वा पार्श्वस्थादिकृतम्, श्रावकादिकृतं वा, भवतु, निष्पन्नं तन्निष्टां गतं, पूज्यमानमय॑मानं, फलदमीप्सितकारि, मतमेतत् सम्मतमिदम्, आगमज्ञानां सिद्धान्तविदामिति गाथार्थः / / इति विदिते आत्मनः शिक्षामाहरे जीव! जीववच्छल्लकारओ तं सि जइ फुडंता मा। वारेसु सावयजणे, इय पूयंते उ चेइहरे॥ रे जीव! भो आत्मन! जीववात्सल्यकारको भव्यप्राण्युपकारकर्ता, त्वमसि भवसि, यदि स्फुटं प्रकटं, ततो मा वारय निषेधय, श्रावकजनान् श्राद्धलोकान्, इत्येवं, पूजयतोऽर्चयमानान्, तुः पूर्ववत्, चैत्यगृहान् जिनमन्दिरानिति गाथार्थः / जीवा०३ अधि०। उक्ता प्रतिष्ठा, तदनन्तरं च यात्रा वक्तव्या भवति "जिणभवणबिंबठावण-जत्ता पूयाइ सुत्तओ विहिणा' इति द्रव्यस्तवक्रमायातत्वाज्जिनयात्राऽत्र वक्तव्या / (सा च 'अणुजाण' शब्दे प्रथमभागे 367 पृष्ठे उक्ता, यात्राविषयं दानद्वारं च प्र०भा०'अणुकंपा शब्दे 360 पृष्ठे च गतम्) (27) अथ जिनपूजा प्रोच्यते• नमिऊण महावीरं, जिणपूजाए विहिं पवक्खामि। संखेवओ महत्थं, गुरुवएसाऽणुसारेणं / / 1 / / नत्वा प्रणम्य, महावीरं वर्द्धमानजिनम्, जिनपूजाया अर्हदर्चनस्य, विधि विधानम्, प्रवक्ष्यामि भणिष्यामि, संक्षेपतः समासतः / विस्तरतस्तु पूर्वसूरिभिरेव तस्योक्तत्वाद्, एवं तहल्पार्थं तद्भविष्यतीत्याशङ्कयाहमहार्थ बृहदभिधेयम्, बृहत्प्रयोजनं वा / स्वयमुत्प्रेक्षितमेतदित्याशङ्कयाऽनादेयमिदं मा भूदित्याह-गुरूपदेशानुसारेणाऽऽचार्यशिक्षानुवर्त्तनेनेति गाथार्थः // 1 // अथ पूजाविधिभणने किं प्रयोजनमित्याहविहिणा उकीरमाणा, सव्व चिय फलवती भवति चेट्ठा। इहलोइया वि किं पुण, जिणपूया उभयलोगहिया // 2 // विधिनैव यथोटि विधानेनैव, तुशब्द एवकारार्थः, क्रियमाणा विधीयमाना, सर्वैव समस्ताऽपि, फलवती साध्यसाधिका, भवति जायते, चेष्टा क्रिया, ऐहलौकिक्यपीहलोकप्रयोजनाऽपि, कृष्यादिकाऽपीत्यर्थः / किं पुनरिति विशेषद्योतनार्थः, सुतरामित्यर्थः / जिनपूजाऽर्हदर्चनम्, किंभूता? उभयलोकहिता इहलोकपरलोकयोर्हितकरीति। उभयलोकहितत्वाद्विशेषतो जिनपूजा विधिनैव विधीयमाना फलवती भवति, ततस्तद्विधिः प्ररूपणीयो भवतीति गाथार्थः // 2 // अथ विधिमाहकाले सुइभूएणं, विसिट्ठपुप्फाइएहिँ विहिणा उ। सारथुइथोत्तगरुई, जिणपूजा होइ कायव्वा / / 3 / / काले समये, वक्ष्यमाणस्वरूपे / कर्तव्ये ति संबन्धः / तथा शुचिभूतेन भूतशब्दस्य प्रकृतिमात्रार्थत्वात् शुचिना, अथवा भावप्रत्ययस्य लुप्तस्य दर्शनाद् भूतशब्दस्य प्राप्त्यर्थत्वाच शुचितां प्राप्तेन / अथवा-शुचिश्चासौ भूतश्च संवृतः प्राणी वा शुचि