SearchBrowseAboutContactDonate
Page Preview
Page 1300
Loading...
Download File
Download File
Page Text
________________ चेइय १२७६-अभिधानराजेन्द्रः-भाग 3 चेइय पुव्वं पइट्ठियाए, रहम्मि अणुयाणअहिगारा॥ तत्र संज्ञिद्वारव्याख्याने, चः पुनरर्थः, प्रथम स्थापनं प्रथम न्यासमारोपणमिति यावत्, भणन्ति जल्पन्ति, समयविदः सिद्धान्तज्ञाः, पूर्व प्रथम, प्रतिष्ठितायाः,क्वन्यसनम्? रथे जिनस्यन्दने अनुयानाधिकारात् उक्तलक्षणाद्धेतोरिति गाथार्थः / स्यान्मत्तं, कथमिदं ज्ञायते यदुतास्यायम! न पुनर्मयोक्त अत आहजइ पुण पइट्ठअत्थो , हवेज तो महुरणयरिंगेहेसु / मंगलपडिमाणं पिहु, तुम्ह मया पावइ पइट्ठा।। यदि पुनरिति पराभिप्रायात् स्वाऽसमानार्थः, प्रतिष्ठालक्षणोऽर्थोऽभिधेयो, भवेत् जायेत, ततो मथुरानगरीगेहेषु मथुराभिधानपत्तनसदनेषु, मङ्गलप्रतिमानामपि, न केवलं तव संमतानामित्यपिशब्दार्थः / 'हुः' पूरणे / युष्माकं भवतां, मतादभिप्रायात्, प्राप्नोति प्रतिष्ठा, न च निष्पादिता भवति भवत्संभता, अत्र प्रतिष्ठाशब्दस्य विद्यमानत्वादित्याभिप्रायः / मङ्गलप्रतिमाश्चेह ता उच्यन्ते यासामकरणे गृहस्योपद्रवादिकं भवति, यथा तु देशरुच्या गृहद्वारस्योपरि विनायकमूर्तिः वास्तुविद्योपदेशाश्च क्रियते / तथा मथुरायां गृहे गृहे पार्श्वनाथजिनप्रतिमा ब्राह्मणादिभिरपि गृहद्वारस्योपरि कार्यन्ते। यदि न क्रियन्ते, ततो गृहाणां पतनादिकं भवति। तथा च तत्रैव कल्पे भणितं मङ्गलचैत्यप्ररूपणावसरे"महुराए नयरीए, जिणपडिमाउ गिहे गिहे पइद्वविजेति" प्रतिष्ठाप्यन्ते न्यस्यन्ते इति भवतोऽपि सम्मतं, न हि तासां मिथ्यादृष्टिभिस्तव मतसंमतं प्रतिष्ठाविधानं क्रियते / एतदिहाकूतमप्रतिष्ठाशब्दस्यात्र न्यसनमेव वाच्यम्। किंच-प्रथमशब्दस्य नैरर्थक्यं प्राप्नोति, न कस्या एव प्रतिमाया द्वितीया प्रतिष्ठा क्रियते, येन तद्व्युच्छित्तये प्रथमशब्दोपादानं क्रियते / अस्मत्पक्षे तु प्रथम रथारोपणं संभवत्येव / पूज्यास्तु व्याचक्षते--अत्र करोतेर्भ णनेऽपि कारापणं दृश्यम् / ततश्च साधुभ्यः सकाशात् श्रावकः प्रतिष्ठां कारयतीत्यर्थः / यथोमास्वातिवाचकोक्तायामस्याम्-'"जिनभवनं जिनबिम्बं, जिनपूजां जिनमतं च यः कुर्यात् / तस्य नरामरशिवसुख फलानि करपल्लवस्थानि।।१।।" अत्र कुर्यादित्युक्तेऽपि कारयेदिति द्रष्टव्यं, न हि श्राद्धः स्वयं जिनमन्दिरं तत्प्रतिमां वा करोति / एवमत्रापि प्रथमशब्दसाफल्यं त्वेवं कथयन्ति-- तेन श्रावकेण प्रथममेव प्रतिमा कारिता निष्पाद्यमाना सापायं तेषां दूषणं स्थाने स्थाने प्रतिपादितमेवेति गाथार्थः / एवं भणित्वा प्रतिपद्यमानसापायदूषणमाहतह कासद्दहसिरिभिल्लमालसचउरबिंबमाईणं / अपमाणयं कुणते-हिँ तेहि अप्पा भवे खित्तो / / तथेति दूषणान्तरसमुच्चयार्थः, काशहदश्रीमालसत्यपुरबिम्बादीनां, तत्र नगरमासापल्लिपत्तनादूरवत्ति, श्रीमालं साप्रतं यत् भिन्नमालमिति रूढम् / सत्यपूरम्, तत्रस्थराजबलदर्पभञ्जनलब्धमाहात्म्यश्रीमहावीरजिनसदनमण्डितम्, तत एषां द्वन्द्वः तेषु बिम्बानि सर्वज्ञप्रतिमाः।। आदिशब्दाच्छत्रुञ्जयगिरिमहातीर्थाऽश्यावबोधमहातीर्थमोटेरपुरमथुराऽबुंदगिरिस्तम्भनस्थादिपरिग्रहः, तासाम् / तदिह हृदयम्-एताः साधुभिः प्रतिमाः प्रतिष्ठिताः, तथा च काशहदीयजिनस्तोत्रे पठ्यते "नमिविनमिकुलान्बयिभिर्विद्याधरनाथकालिकाचार्य : / काशहदशङ्खनगरे, प्रतिष्ठितो जयति जिनवृषभः // १॥"शेषास्तु सर्वजिनप्रतिमाः / अपमानताम्-आचार्यप्रतिष्ठितत्वेनाविधिप्रतिमा एता इति प्ररूपणतो मुग्धजनैर्भावसारदनौचित्यलक्षणां, कुर्वद्भिः विदधानैस्तैः श्रावकप्रतिमाप्रतिपादनरैरात्मा जीवो भवे संसारे विज्ञः प्रणुन्नः / इति गाथार्थः। ननु किमेतावता एतावान् दण्डो भवति? भवत्येवेत्यस्या र्थस्य साधनाय सिद्धान्तोक्तमाहकप्पुत्तमेवमाई, अवि पडिमासु वि तिलोयणाहाणं पडिरूवमकुव्वंतो, पावइ पारंचियं ठाणं / / कल्पस्य छेदग्रन्थस्योक्तं संवादकवचनम्, परमेतावान् विशेषस्तत्र 'अन्न वा' इत्यादौ गाथाथां पठ्यते तीर्थकराशातनाधिकारे / एवमादिः पूर्वोक्त प्रकारः, अपीति संभावने / संभवत्येवैतत्-प्रतिमास्वपि जिनमूर्तिष्वपि, न केवलं साक्षाद्भावतीर्थकृतामित्यपिशब्दार्थः / प्रतिरूपं यथोक्ताशातनादिवजनमकुर्वन्नविदधानः, प्राप्नोति लभते, पाराञ्चिकं प्रायश्चितं (ठाणमिति) तिष्ठन्त्यस्मिन्निति कर्माणि प्रायश्चित्तानावरणत इति स्थानं कर्माधारः कर्मभिश्च भवः / अतः सिद्धमिदम्-"तेहिं अप्पा भवे खित्तो ति'' किं च-आचारङ्गनिर्युक्तां दर्शनविशुद्धिं वर्णयता श्रुतकेवलिना भणितम्-चिरन्तनचैत्यवन्दने दर्शनशुद्धिर्भवति। तच्चेदम्"तित्थगराण भयवओ, पवयणपावणिअऽइसइट्ठीणं / अभिगमणनमणदरिसण-कित्तणसंपूअणत्थुवणा / / 1 / / जम्माऽभिसेयनिक्खम-णचरणनाणुप्प्याणणिव्वाणे / दियलोयभवणमंदर-नंदीसरभोमणगरेसु / / 2 / / अट्ठावयामुजंते, गयग्गपयधम्मचक्के य। पासरहारवत्तं चिय, चमरुप्पायं च वंदामि / / 3 / / गणियनिमित्ता जुत्ती, संदिड्डी अवितहं चेयं / प्रापशझेअस्था४॥ गुणमाहप्पं इसिनामकित्तणं सुरनरिंदपूया य। पोराणचेइयाण य, इय एया दंसणे होइ" // 5 // चिरन्तनचैत्यानि च पूजयतो दर्शनशुद्धिर्भवति, न केवलं पूर्वगाथोक्तं कुर्वतः, अतः स्थितमिह-चिरन्तनचैत्यानामवर्णवादादिन कार्यम् / ननु किमेवं बहुश्रुतवचनसन्दर्भश्रवणेऽपि ते एवंभूतं प्रतिपादयन्ति? उच्यतेविकृत्याद्यर्थाः। तथा चोक्तं व्यवहारे यथाच्छन्दलक्षणं कथयता-"सच्छंदमइविगप्पियं काउंतं पनवेइ, तओ तस्स गुणेणं विगईओ लहइ, सा य पडिच्छंदा सुह इच्छइ / तेण य सच्छन्दकप्पिएण पहविएणं समाहिओ समाणो पूइउं जाति इत्थिमाइगारेवहिं सरुइ'' इत्यादि, एतच्चायतनेष्वप्यधिकारेषु यथासंभवं योज्यमिति गाथार्थः। इदानी पूर्वोक्तार्थनिगमनगर्भ जीवोपदेशमाह-- जह समयण्णू जंपति, मुणसु तह जीव! समयवयणाई। पुव्वुत्तदोसजालस्स जेण नो भायणं होसि।। यथा येन प्रकारेण, समयज्ञाः सिद्धान्तविदः, जल्पन्ति वदन्ति, (मुणसु) जानीहि, तथा तेन प्रकारेण, न स्वमत्यनावाधेन, जीव ! आत्मन्, समयवचनानि सिद्धान्तवाक्यानि, यैः पूर्वोक्तदोषजालस्य भवपातादिदूषणव्रातस्य,
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy