________________ चेइय १२७५-अभिधानराजेन्द्रः-भाग 3 चेइय शास्त्रमेव महानिशीथादिलक्षणम, अपिशब्द एवकारार्थः, स च दर्शित एव; बहुमतमतीवाभीष्टं, ते तव, रचितं कृतं, यत् यस्मात्, पूर्वसूरिप्रवरश्चिरन्तनाचार्यप्रधानैः, तेषामाचार्यवृन्दारकाणाम, आचरणं चेष्टितं, नन्वित्यक्षमायां, मुढ !मन्दमते!, भवति जायते, ग्राह्य स्वीकर्तव्यं, विशेषेणाऽऽदरेण / इदमत्र तत्त्वम्यदि तव पूर्वाचार्यवचनं शास्त्रस्थित प्रमाणं, ततस्तचेष्टितं विशेषतः कर्तुं युज्यते, न हि ते अनुचितं कुर्वन्ति, अत्र बहुवचनप्रक्रमेऽपि यदेकवचनेन निगमनं कृतं, तद् "बहादेशेऽपि एकादेशः" इति वचनाद् अदुष्ट मन्तव्यम्, एवमन्यत्रापीति गाथार्थः / अत्र यदि परो ब्रूयात्-न मम तदाचरितं प्रमाणम तस्तत्साधनाय गाथाऽर्द्धमाहअसढे हि समाइन्नं, इचाइवयणओ तयं सिद्धं / अशठरमायिभिः, समाचीर्णमासेवितम्, इत्यादिवचनत एवं प्रभूतिभणनात्, तकं तत् पूर्वाचार्यानुष्ठितं, सिद्धं प्रतिष्ठितम् / आदिग्रहणादेवं दृश्यम्-"जं कत्थइ केणइ वा, असावज्जमणुडिअं तेण / अनिवारियमन्नेहि, बहुमणुमयमेवमायरियं"।१। सुगमं च / एतच पराभिप्रायमभ्युपगम्यारमाभिरुक्तम्, वस्तुतस्तु द्रव्यस्तव एवेयं बिम्बप्रतिष्ठा न भवति, निरवद्याचार्यमन्त्राद्यनुष्ठानपूर्वकजिनगुणाध्यारोपणेन भावस्तवत्वादस्याः / किं च-आचार्यप्रतिष्ठाकरणे श्रीमदुमास्वातिवाचकसमुद्रसूरि-- हरिभद्राचार्यादिरचिताः प्रतिष्ठाकल्पा दृश्यन्ते, श्रावकप्रतिष्ठाकरणविधौ तु न किमपि दृश्यते विधानम्, ततः कथं ते तां कुर्वन्तु? मा वा भवतु, यदि श्रावकेण कुत्रचित् कदापि च कृता भवति भवद्वचनात्पूर्वप्रतिष्ठा, ततो युज्यतेदमपि वक्तुम् / यदप्युच्यते-अष्टापदजैनालये कृता भविष्यति, तदपि युक्तं स्यात् यदि साधुव्युच्छितौ निष्पन्नं तत्स्यात् / कि ञ्चावश्यकचूया तत्करणविधिः सर्वः प्रतिपादतो, नतु साधुना श्रावकेण वा प्रतिष्ठा कृतेत्युक्तम्। यच संप्रतिराजनि राजनिििपतानार्यदेशचैत्येषु साध्वभावात्कृता भविष्यति, तत्रापि पश्चाद्गतैः, साधुभिः प्रतिष्ठा कृता भविष्यतीत्ये, तदपि वक्तुं शक्यते, तस्मात्किमेभिः कुशकाशावलम्बनै वक्खाणेइ पविसंते इमे गुणा भवंति"सद्धावुड्डी रन्नो, पूयाएँ थिरत्तणं पभावणया। पडिघाओ य अणत्थे, अत्था य कया हवइ तित्थे / / 1 / / रनो सद्धा वड्डिया भवइ, चेइयपूया थिरीकया हवइ, तीर्थ प्रभावितं भवति, ये चाऽर्हच्छाशनप्रत्यनीका बहुजने दोषान् ख्यापयन्ति, एवं विधानामनर्थानां प्रतिघातः कृतो भवति / आस्था नामस्वपक्षाणामर्हत्कृते तीर्थे बहुमानत्वमुत्पादितं भवति। निमंतणं सन्नि त्ति सावगा वाई, एए दो वि दारे पगिद्धे वक्खाणेइ"एमेव य सन्नीण वि, जिणाण पडिमासु पढमपट्टवणे। मा परवाई विग्घं, करेज्ज वाई तओ वि सई' / / 1 / / कंठा / सावओ कोइ पढमं जिणपडिमाए पइट्ठवणं करेइ णाइपगिद्धेण / इमे गुणा परवाइनिग्गह दटुं"तवधम्माण थिरत्तं, पभावणा सासणे य बहुमाणो। अभिगच्छंति य विग्धा, पूयाएँ सपक्खसेयाए"। 1 / / कंठा। (सेयाए त्ति) अविग्घेण पूआए, कयाए सपक्खस्स इहलोए एवं सेयं-इहलोए असिवाई उवद्दवा न हवंति, परलोए तित्थगरुपूयाए दरिसणविसुद्धी तव्यत्तिया भवइ / खवग त्ति दारमियाणि"आयाविति तवस्सी, ओभावणया परप्पवाईणं / जे इ परिसा वि महिमं, उति कारिति सड्ढाय" // 1 // (कारिति सहाय त्ति) जइ परिसा तवस्सिणो उवें ति, तओ सावगा महिम करिति, कारविति य / __इयाणि धम्मकहिं ति दारं"आयपरसमुत्तारो, तित्थविवड्डी य होइ कहयंतो। अन्नोन्नाभिगमेण य, पूयाथिरया सबहुमाणो'' // 1 // इयाणिं संकियं ति दार"निस्संकियं च काहिइ, उभए जं संकियं सुयहरेहिं"। पत्तदारमियाणिं-- 'अय्योच्छित्तिकरं वा, लज्जइ पत्तं दुपक्खाओ" / / 1 / / पभावणदारमियाणिजाइकुलवधणबल-संपण्णा इड्डिमंत निस्संका। जयणाजुत्ता य जई-णमेव तित्थं पभासिंति" ||1|| उक्तं च"प्रावचनी धर्मकथी, वादी नैमित्तिकस्तपस्वी च / जिनवचनरतश्च कविः, प्रवचनमुद्भवयन्त्येते" || 1 // "जो जेण गुणा गहिओ, जेण गुणा वा न सिज्झाए जंतु। सो तेण धम्मकज्जे, सव्वत्थामं न दावेइ // 1 // इथाणिं पवित्तिदारं"साहम्मियागयाणं, खेमसिवाणं व लज्जइ पवित्ति। गच्छंति हिताई वा, होहिंति न वा वि अत्थइ वा // 1 // इयाणिं कज्जदार-उड्डाहदारे"कुलमाईणं कज्जइ, इमाहिं सलिंगिणो य सस्सिस्सा। जं लोगविरुद्धाइं, करिति लोगुत्तराई वा // 1 // समाप्ता द्वारगाथा। अत्र संज्ञिद्वारेणैव प्रयोजनं तदर्थ व्याख्यानायाऽऽह-- तत्थ य पढम ठवणं, पढमं गसणं भणंति समयविऊ / रिति? द्वितीयविकल्पशोधनायोत्तरार्द्धमाहकप्पम्मि विजं भणियं,तं अणुजाणाहिगारम्मि। कल्पेऽपि न केवल प्रथमविकल्पेन तव न किञ्चित्समीहितं जातं, द्वितीयेनापि नेत्यपिशब्दार्थः, यद् वचनं भणितं तद्वयनमनुयानाधिकारे रथस्य पृष्ठतोऽनुव्रजनेन प्रतिष्ठाधिकार इति गाथार्थः। अस्यैवार्थस्य सुखावगमार्थं संबन्धपूर्वकमिदानी कल्पोक्तं तदक्षरैर्लिख्यते / तत्र रथयात्रादौ प्रभूतजनसम्मत् कुलेषु साधुभिर्न प्रवेष्टव्यम् उत्सर्गतः, किं कारणम्? गच्छतां मार्गे ईर्याशुद्धिर्न भवति, भक्तादिशुद्धिश्च न भवति, प्राप्तानां च तत्स्थाने श्रावकादिलोकैरवरुद्धानि गृहाणि भवन्ति ततो देवगृहेऽपि स्थातव्यं स्यात्, तथा स्त्र्यादिसंघट्टनतो रागद्वेषौ स्यातामेवमाद्यर्थप्रतिपादिका विस्तरेण द्वारगाथा प्रतिपादिता, सा चाऽत्र ग्रन्थविस्तरभयान्न लिखिता। अपवादमाहइमेहिं पुण कारणेहिं पविसियव्वं, जइ ण पविसइ, तो चउगुरुयं पच्छित्तं / काणि य कारणाणि?"चेइयपूया राया-णिमंतणं सन्निवाइखवगधम्मकही। संकियपत्तपभावण-पवित्तिकजा य उड्डाहो' / / 1 / / चेझ्यपूया रायानिमंतणं दो वि दारे एगठे।