________________ चेइय १२७४-अभिधानराजेन्द्रः-भाग 3 चेइय ज्ञातव्यम्, परमं प्रधानम्, निर्वाणमेव निर्वृत्तिरेव, नियमेनावश्यन्तया, सुरनरसुखानि प्रतीतानि, आनुषङ्गिकाणि प्रासङ्गि कानि, न परमाणीत्यर्थः / इह सङ्गपूजायां, फलविचारे वा, किंवादित्याह-कृषी कर्षणे पलालं वुसं कुषिपलालं तदिव तद्वदिति गाथात्रयार्थः / / 45 // सङ्घपूजाप्रकरणमुपसंहरन्नाहकयमेत्थ पसंगेणं, उत्तरकालोचियं इहऽण्णं पि। अणुरूवं कायव्वं, तित्थुण्णतिकारगं णियमा / / 46 / / कृतमलम, अत्र प्रतिष्ठाऽधिकारे, प्रसङ्गेन प्रसङ्गभणितेन, पूजाविषयेण। | उत्तरकालोचित प्रतिष्ठोत्तरसमयानुरूपम्, इह प्रतिष्ठापर्वणि, अन्यदप्युतातिरिक्तमपि, अमारिघोसणादि / अनुरूपमुचितम्, कर्त्तव्यं विधेयम्. तीर्थो न्नतिकारकं प्रवचनप्रभावनाकारि, नियमादवश्यंतया / इति गाथार्थः / / 46 // उचिओ जणोवयारो, विसेसओ णवरि सयणवग्गम्मि। साहम्मियवग्गम्मिय, एयं खलु परमवच्छल्लं / / 47 // उचितो योग्यः, जनोपचारो लोकपूजा सामान्यतो विधेयः, विशेषतो विशेषेण, नवरं केवलम्, स्वजनवर्गे स्वकीयलोके, प्रत्यासन्नतरत्वात, साधर्मिकवर्गे च स्वजनातिरिक्तसमानधार्मिकजने च, धर्मबहुमानात् विशेषत इति प्रकृतम्।करमादेवमित्याह-एतत्खलु एतदेव, पाठान्तरेणैवं खलु, इत्थमेवेत्यर्थः / प्रतिष्ठोद्देशकृतोपचाररूपम् / परमवात्सल्य प्रधानगौरवं च, स्वजनसाधर्मिकाणाम्, इति गाथार्थः / / 47 // अट्ठाहिया य महिमा, सम्म अणुबंधसाहिता केइ / अन्ने उ तिण्णि दियहे, णिओगओ चेव कायव्वा / / 48 // अष्टाहिका अष्ट दैवसिकी, चशब्दः समुच्चये, महिमा महोत्सवः, महिमाशब्दश्च स्त्रीलिङ्गोऽपि दृश्यते। सम्यग्भावतः, साह्यनुबन्धसाधिका पूजाविच्छेदगमिका भवतीति केचिदाचार्या वदन्ति / अन्ये त्वपरे पुनराचार्याः त्रीन् दिवसान् यावत् महिमा / नियोगत एव नियमेनैव, चैवशब्दोऽवधारणार्थः / कर्त्तव्या विधेया इति गाथार्थः / / 48 / / तत्तो विसेसपूया-पुव्वं विहिणा पडिस्सरोम्मुयणं / भूयबलिदीणदाणं, एत्थं पि ससत्तिओ किं पि।। 46 11 ततो महिमाऽनन्तरम्, विशेषपूजापूर्वं प्राक्तनदिनापेक्षया विशिष्टत- | रार्चनपुरःसरम्, विधिना शास्त्रोक्तेन, साम्प्रदायिकेन वा। प्रतिसरोन्मोचन कङ्कणमोचन विधेयम्। तथा भूतबलिः प्रेतोपहारः पत्रपुष्पफलाक्षताद्यः सुरभिगन्धोदकोन्मिश्रः सिद्धान्नप्रक्षेपरूपः, दीनदानं कृपणेभ्योऽनुकम्पावितरणं, ततः पदद्वयस्य समाहारद्वन्द्वः / अत्रापि कङ्कणमोचने, न केवलं प्रतिष्ठानन्तरमेवेत्यपिशब्दार्थः / स्वशक्तितः स्वकीयं चित्तवित्तसामर्थ्य माश्रित्य, किमपि प्रतिष्ठाऽवसरापेक्षया स्तोक म्, इति गाथार्थः // 46 // अथ प्रकरणार्थोपसंहारार्थमाहतत्तो पडिदिणपूया-विहाणओ तह तहेह कायव्वं / विहिताणुवाणं खलु, भवविरहफलं जहा होति / / 50 // | ततः कङ्कणोन्मोचनानन्तरम्, प्रतिदिनपूजाविधानतोऽनुदिवसार्चन- | करणेन, तथा तथा तेन तेन प्रकारेण, विचित्ररूपतयेत्यर्थः / इह / जिनबिम्बे प्रतिष्ठिते सति, कर्तव्यं विधेयम्, विहितानुष्ठानं पूजावन्दनयात्रास्नानादि, खलुरवधारणे, स चोत्तरत्र संभन्स्य ते। भयविरहफलमेव संसारवियोगसाधकमेव, यथेति तथाशब्दस्य वीप्सायं प्रयुक्तत्वाद्यथाशब्दोऽपि वीप्सायामेव द्रष्टव्यः, तेन यथा यथा येन येन प्रकारेण भवति जायत इत्युपदेशः, इति गाथार्थः / / 50 / / पञ्चा०८ विव० / इति प्रतिष्ठाविधिः / ध० / षो०। श्रावककृतबिम्बप्रतिष्ठाविधिःदव्वत्थओ त्ति केई, बिंबपइ8 भणंति सङ्घस्स। तह कप्पे भणियमिणं, सम्म पइट्ठवणवयणाओ। द्रव्यं वासकु सुमधूपकषायमृत्तिकातैलोन्मीलनकारि लक्षणम्, तत्प्रधानः स्तवो द्रव्यस्तवो, भावप्रधानत्वान्निर्देशस्य, ततो द्रव्यस्तवत्वात् कारणात्, इतिहेतौ, स च दर्शित एव / केचनैके, बिम्बप्रतिष्ठा सर्वज्ञप्रतिनिधेस्तद्गुणाध्यारोपलक्षणां, भणन्ति जल्पन्ति, श्राद्धस्य श्रावकस्य / अयं तेषामाशयः यतिधर्मो हि भावस्तवप्रधानः, स च प्रतिष्ठायां क्रियमाणायां पूर्वोक्तद्रव्यव्यापारणतो न सम्यग्जाघटीति, तथा प्रकारेण, कल्पे छेदग्रन्थविशेष, भणितं प्रतिपादितम, इदं प्रतिष्ठाविधानं, सम्यक् प्रतिष्ठापनवचनात्-"सावओ कोइ पढम जिणपडिमाएपइट्ठवणं करेइ'' ति भणनात् / श्रावकः कश्चित्प्रथमम् आद्यं, जिनप्रतिमाया जिनमूर्तेः, प्रतिष्ठापनं प्रतिष्ठा, करोति विदधाति / गाथायां च प्रथमकरोत्यादिशब्दानुपादानं छन्दोवशात्न कृतं, सूचनाच सूत्रस्येति। अतः स्थितमेतत-कारणद्यादुक्तलक्षणात् श्रावक एव प्रतिष्ठां करोति, न साधुरिति। साम्प्रतं पूर्वपक्षार्थी प्रथमपक्षस्य परिहारं दातुका मस्तदनुष्टानेनैव चोत्तरं गाथाऽर्द्धनाऽऽहसयमामिलाण दाम, खिवंति सड्ढीण खंधदेसम्मि / / स्वयमात्मना, अम्लानां सार्द्रा . दाम माला, क्षिपन्त्यशापयन्ति, श्राद्धीना श्राविकाणां, स्कन्धदेशे ग्रीवायाम् / अयमभिप्रायः-- यदि द्रव्यस्तवभीतैर्भवद्भिः प्रतिष्ठा न क्रियते, किमित्युपधानविधी मालाऽऽरोपणं विधीयते? अम्लानादित्वेनास्यापि साध्वनुचितद्रव्यस्तवत्वात्,इदमपि कर्तुं न युज्यत इति / एवमुक्तः परः स्वमतस्थित्यर्थ यद्वदिष्यति, तत् तृतीयपादेनाहअह सत्थे भणियमिणं, ति अथेत्याचार्यवचनानन्तर्यार्थम्, शास्त्रे महानिशीथाख्ये, भणितमुक्तम्, इदं मालारोपणविधानम्, इतिर्हेतावतो विधीयत इति / अस्यापि न्यायत उत्तरं चरमपादेनऽऽह... तत्थिमा जुत्ति वत्तव्वा॥ तत्र शास्त्रमणने,(इम ति) इयं वक्ष्यमाणा, युक्तिरवितथभणितिः, वक्तव्या वाच्येति गाथार्थः। तामेवाहसत्थं पि बहुमयं ते, रइयं जं पुव्वसूरिपवरेहिं / ताणाऽऽयरणं नणु मू-ढ! होइ गज्झं विसेसेण / /