________________ चेइय १२७२-अभिधानराजेन्द्रः-भाग 3 चेइय ऐहलौकिकमेवावमानफलमाहदिक्खियजिणोमिणणओ, दाणाओ सत्तिओ तहेयम्मि। वेहव्वं दारिद्द, च होंतिण कयाति नारीणं // 28 // दीक्षितजिनावमानतोऽधिवासितजिनप्रोक्षणकाद् लोकप्रसिद्धत्, तथा दानाद्वित्तवितरणात्, शक्तितः शक्मिमाश्रित्य, यथाशक्तीत्यर्थः / तथा तेन प्रकारेण प्रोमणकोद्देशलक्षणेन, एतस्मिन् भगवति विषयभूते, वैधव्यं मृतभर्तृकत्वम्, दारिद्रयं च दौर्गत्यं च, भवति जायते, न कदाचिन्न जातुचित्, नारीणां स्त्रीणां प्रोङ्क्षणककारिणीनाम्, इति गाथार्थः // 28 / / अधिवासनगतं विध्यन्तरमाहउक्कोसिया य पूजा, पहाणदव्ोहिँ एत्थ कायव्वा। ओसहिफलवत्थसुण्णमुत्तरयणाइएहिं च // 26 // उत्कर्षिका उत्कर्षवती, चशब्दः पुनरर्थः, पूजा पूजनमर्हदिम्बस्य। प्रधानद्रव्यैः प्रवरपूजाङ्गैश्चन्दनागरुकर्पूरपुष्पादिभिः, अत्राधिवासनावसरे, कर्तव्या विधेया, ओषधिफलवस्त्रसुवर्णमुक्तारत्नादिकैच प्रतीतैरैव, नवरमोषध्यो ब्रीह्यादयः, फलानि नालिकेरदाडिमादीनि / इति गाथार्थः / / 26 // चित्तवलिचित्तगंधे-हिँ चित्तकुसुमेहँ चित्तवासेहिं। चित्तेहिं विऊहेहिं, भावेहिं विहवसारेण / / 30 // चित्रबलिचित्रगन्धैः, पूर्जा कर्तव्येति प्रकृतम् / तत्र चित्रा नानाविधा | बलय उपहारा गन्धास्तु कोष्ठपुटपाकादयः / चित्रकुसुमैर्विचित्रपुष्पैः, चित्रवासैः सुगन्धिद्रव्यचूर्णरूपैर्वस्त्वन्तरवासकस्वभावैः, चित्रैर्विविधैः, (विऊहेहिं ति) व्यूहै रचनाविशेषैः, भावैश्चरचनागतैः प्रक्रिमितप्रमुदितालिङ्गितादिभिर्भक्तिसारा, विभवसारेण विभूत्युत्कर्षे ण, इति गाथार्थः // 30 // अथ कस्मादेवमत्यादरः पूजायां विधीयत इत्याहएयमिह मूलमंगल, एत्तो चिय उत्तरा वि सकारा। ता एयम्मि पयत्तो, कायव्वो बुद्धिमंतेहिं / / 31 / / एतदुत्कृष्टपूजादिकम्, इह जिनबिम्बविषये, मूलमङ्गलमादिकल्याणम्, ततः किमित्याह-(एत्तो चिय त्ति) इत एव मूलमङ्गलात्, उत्तरेऽप्युत्तरकालभाविनोऽपि सत्कारा अधिकृतबिम्बपूजाविशेषा भवन्ति, निमित्तभूतत्वात् मूलमङ्गलस्य। 'ता' इति / यस्मादेवं तत्तस्माद् . एतस्मिन् मूलमङ्गले उत्तरोत्तरसत्कारहेतौ, प्रयत्न उद्यमः, कर्तव्यो विधेयः, बुद्धिमद्भिर्धीमद्भिः, इति गाथार्थः // 31 // पूजाधनन्तरं यत्कर्त्तव्यं तदाहचितिवंदनथुतिवुड्डी, उस्सग्गो साहु सासणसुराए। थय सरण पूय काले, ठवणा मंगलगपुव्वा उ॥३२॥ चैत्यवन्दना प्रतीता कर्तव्या, स्तुतिवृद्धिः प्रवर्धमानस्तुतिपाठरूपा विधेया, उत्सर्गः कायोत्सर्गो विधेयः, साधु यथा भवति, असंमूढतयेत्यर्थः / कस्या आराधनायेत्याह शासनसुरायाः प्रवचनदेवतायाः, स्तवस्मरणं चतुर्विंशतिस्तवानुचितनं, कायोत्सर्गे कार्यम्। अथवा-चतुर्विंशतिस्तवः पठनीयः, स्मरणं चेष्टगुदीनामिति / ततः पूजा पूजनं विधेया, जिनबिम्बस्य, प्रतिष्ठाकारकस्य वा / स्तवस्मरणपूजापदयोश्चा- | नुस्वाराश्रवणं, ह्रस्वता च प्राकृतत्वादिति। ततः काले लग्नस्याभिमतांशे, स्थापना प्रतिष्ठा जिनबिम्बस्य, मङ्गलपूर्वा तु पञ्चनमस्कारपूर्वय, मङ्गलान्तरपूर्वव वा कर्तव्या, इति गाथार्थः / / 32 // पूया वंदणमुस्स-ग्गपारणा भावथेज्जकरणं च। सिद्धाचलदीवसमु-हमंगलाणं च पाठो उ॥३३॥ ततः पूजा पुष्पापदिभिरर्चनं प्रतिष्ठितबिम्बस्य विधेया, ततो वन्दनं चैत्यवन्दनं विधेयम्, तत उत्सर्गः कायोत्सर्गो निरुपसर्गनिमित्तं विधेयः, प्रतिष्ठा देवताया इत्यन्ये / ततः पारणा परिसमाप्तिः तस्यैव विधेया। भावस्थैर्यकरणं च चित्तस्थिरतासंपादनम्, भावेन वा आशीर्वचनहेतुभूतेन प्रतिष्ठास्थैर्यकरणं च विधेयम्। अत एवाह-सिद्धाचलद्वीपसमुद्रमङ्गलानां च सिद्धाधुपमोपेतमङ्गलगाथानां वक्ष्यमाणरूपाणाम्, पाठोऽभिधानं विधेयः, तुशब्दो गाथापूरणार्थः, इति गाथार्थ / / 33 / / सिद्धादिमङ्गलान्येवाहजह सिद्धाण पतिट्टा, तिलोगचूडामणिम्मि सिद्धिपदे। आचंदसूरियं तह, होउ इमा सुप्पतिहत्ति / / 34 // यथा यद्वत, सिद्धानां निर्वृतानां, प्रतिष्ठा अवस्थानम्, त्रिलोकचूडामणौ त्रिभुवनशिरोरत्नकल्पे, सिद्धिपदे निर्वाणरूपे आस्पदे, आचन्दसूर्य चन्द्रसूर्यो यावत्, तथा तत्, भवतु अस्तु, इयमधिकृता, सुप्रतिष्ठा शोभनावस्थानम्, इतिशब्दः परिसमाप्तौ, इति गाथार्थः // 34 // शेषा मङ्गलगाथा अतिदेशत आहएवं अचलादीसु वि, मेरुप्पमुहेसु होति वत्तव्वं / एते मंगलसद्दा, तम्मि सुहनिबंधणा दिट्ठा // 35 // एवमनेनैव सिद्धमङ्गलन्यायेन, अचलादिष्यपि अचलद्वीपसमुद्रेष्वपि, न केवलं सिद्धविषय एव। किंभूतेष्वचलादिषु? मेरुप्रमुखेषु मेरुजम्बूद्वीपलवणोदधिप्रभृतिषु , भवति जायते, वक्तव्यं भणनीयं, तथाविधगाथाभिधानद्वारेण / तथाहि"जह मेरुस्स पइहा, जम्बूदीवस्स मज्झयारम्मि। आचंदसूरिय तह, होइ इभा सुप्पइट्ठ त्ति / / 1 / / जम्बूदीवपइट्टा, जह सेसयदीवमज्झयारम्मि। आचंदसूरियं तह, होउ इमा सुप्पइट्ट त्ति // 2 // जह लवणस्स पइट्ठा, सव्वसमुद्दाण मज्झयारम्मि। आचंदसूरियं तह, होउ इमा सुप्पइट्ट त्ति // 3 // " एवमन्या अपि मङ्गलगाथा न विरुद्धा इति। अथ कस्मादेताः पठ्यन्ते इत्यत्र कारणमाह-एते अनन्तरोक्ताः सिद्धादयो, मङ्गलशब्दाः माङ्गल्यध्वनयः, तस्मिन् जिनप्रतिष्ठावसरे, शुभनिबन्धनाः शुभहेतवः, दृष्टा निश्चिताः समयज्ञैः, इति गाथार्थः / / 35 / / शुभनिबन्धनत्वमेवैतेषां समर्थयन्नाहसोउं मंगलसई,सउणम्मि जहा उइट्ठसिद्धि त्ति। एत्थं पितहा सम्म, विण्णेया बुद्धिमंतेहिं / / 36 // श्रुत्वा आकर्ण्य, मङ्गलमित्येवं रूपो मङ्गलभूतो वा विजयसिट्यादिशब्दो मङ्गलशब्दस्तम्, शकु ने शकु नविषये, यथा तु यद्वदेव, इष्टसिद्धिरभिमतार्थनिष्पत्तिः, भवतीति गम्यम्, इत्ये तत्,