SearchBrowseAboutContactDonate
Page Preview
Page 1295
Loading...
Download File
Download File
Page Text
________________ चेइय १२७१-अभिधानराजेन्द्रः-भाग 3 चेइय सबन्धिना पूर्वादिदिक्षु क्रमेण व्यवस्थिताना, क्रमेणैव तु खड्गदण्डपाशगदाहस्तानामिति, अवसरणक्रमेण समवसरणन्यायेन द्वितीयप्रकरणवर्णितेन, अन्येऽपरे सूरयः, सर्वेषां चैव समस्तानामेव, देवानां सुराणाम, पूजा कार्येत्याहुरिति शेषः / इति गाथार्थः / / 18 / / अथ किमेषामसंयतानां पूजादि क्रियत इत्याहजमहिगयबिंबसामी, सव्वेसिं चेव अब्भुदयहेऊ। ता तस्स पइट्ठाए, तेसिं पूयादि अविरुद्धं / / 16 // यद्यस्मादधिकृतबिम्बस्वामी, जिनपतिरित्यर्थः / सर्वेषामेव समस्तानामपीन्द्रादिदेवानाम्, अभ्युदयहेतुः कल्याणनिमित्तम्, तत्तस्मात्, तस्याधिकृतबिम्बस्वामिनः, प्रतिष्ठायाम, तेषां दिक्देवतादीनाम्, पूजादि पूजासत्कारप्रभुति क्रियमाणम्, अविरुद्धं संगतमेव, इति गाथार्थः // 16 // साहम्मिया य एए, महिनिया सम्मदिट्ठिणो जेण। एत्तो च्चिय उचियं खलु, एतेसिं एत्थ पूजादी।।२०।। साधर्मिकाः समानधार्मिकाः, आर्हतत्वात्तेषाम् / एते दिग्देवतादयः, तथा महर्द्धिका महेश्वराः, तथा मिथ्यादृशोऽपि साधर्मिका द्रव्यतो भवन्तीत्याह सम्यग्दृष्टयः सम्यग्यदर्शनधराः, येन कारणेन, (एतो चिय त्ति) अत एव कारणत्रयादेव, उचितं खलु सङ्गतमेवेति, एतेषां दिगदेवतादीनाम्, अत्र प्रतिष्ठाऽवसरे, पूजादि पूजासत्कारप्रभृति / इति गाथार्थः / / 20 // तत्तो सुहजोएणं, सट्ठाणे मंगले हिँ ठवणा उ। अहिवासप्पमुचिएणं, गंधोदगमादिणा एत्थ॥२१॥ ततो दिभदेवताऽऽदिपूजानन्तरम्, शुभयोगेन प्रशस्तचन्द्रनक्षत्रलग्रादिसंबन्धेन, स्वस्थानेऽधिवासनोचितदेशे, मङ्गलैयविशेषैः चन्दनादिभिर्वा / स्थापना तु न्यासश्च, बिम्बस्य विधेयेति गम्यम् / ततश्चाभिवासनमधिवासनं वा, शुद्धिविशेषापादनेन बिम्बप्रतिष्ठायोग्यताकरण प्रतिष्ठाकल्पग्रसिद्धम, उचितेन योग्येन, गन्धोदकादिना सद्गन्धद्रव्योन्मिश्रजलप्रभृतिना, आदिशब्दात्कषायमृत्तिकाऽऽदिपरिग्रहः, अत्र प्रतिष्ठायाम् / इति गाथार्थः // 21 // तथाचत्तारि पुण्णकलसा, पहाणमुद्दाविचित्तकुसुमजुया। सुहपुण्णचत्तचउतं-तुगोत्थया होंति पासेसु / / 22 / / चत्वारश्चतुःसंख्याः, पूर्णकलशा घटाजलपरिपूर्णा अखण्डाश्च, प्रधानमुद्रया रूप्यसुवर्णरत्नस्वरुपया विचित्रकुसुमैश्च नानाविधपुष्पैर्युता युक्ता ये ते तथा / शुभपूर्णचत्रचतुस्तन्तुकावस्तृताः, पूर्ण सूत्रकुकुटिकापूरितं, यचत्रं तद्दुः, तस्य संबन्धि यच्चतुस्तन्तुकं तन्तुकचतुष्टं तत्तथा / शुभं च तन्निरवा पूर्णचत्रचतुस्तन्तकं चेति समासः, तेनावस्तृता आच्छादिताः कण्ठदेशेषु ये ते तथा, भवन्ति, विधेया इति शेषः / पार्श्वेषु चतसृषु दिक्षु, पुरस्तात्प्रतिष्ठाप्यप्रतिमायाः, इति गाथार्थः / / 22 / / किं चान्यत्मंगलदीवा य तहा, घयगुलपुण्णा सुभिक्खुभक्खा य। जवबारयवण्णयसत्थिगादि सव्वं महारम्मं / / 23 // मङ्गलदीपण मागल्यप्रदीपाः, चः समुच्चयार्थः, तथेति तेनैव प्रकारेण, घृतगुडपूर्णाः धुतगुडसमन्विता भवन्ति, तत्र तथा शुभाः प्रशस्ता इक्षव इक्षुयष्टिखण्ढानि, भक्ष्याणि च खण्डखाद्यकादीनि, येषु दीपेषु ते तथा। चः समुचये / अथवा-स्वतन्त्रायेव शुभेक्षुभक्ष्याणि च भवन्ति / ''सुभेक्खु रुक्ख ति'' पाठान्तरम् / तत्र शुभा इक्षवो वृक्षाश्च कदल्यादयः। तथा यववारकाः शरावादिरोपितयवासराः, वर्णकश्चन्दनं श्रीखण्डादि, स्वस्तिकः प्रसिद्ध एव, वर्ण कस्य वा स्वस्तिका वर्णकस्वस्तिकास्ते आदिर्यस्य नन्दावदिवस्तुजातस्य तत्तथा / सर्व समस्तम्, महारम्यभतिरमणीयं, भवति, तत्र विधेयमित्यन्वयः / इति गाथार्थः / / 23 // मंगलपडिसरणाई, चित्ताई रिद्धिविद्धिजुत्ताई। पढमदियहम्मि चंदण-विलेवणं चेव गंधन / / 4 / / मङ्गलप्रतिसरणानि मङ्गलकङ्कणानि, चित्राणी विचित्राणि, ऋद्धिवृद्धियक्तानि ऋद्धिवृद्ध्यभिधानौषधीसनाथानि, प्रथमदिवसे आद्यदिने, अधिवासनादिने इत्यर्थः / चन्दनविलेपनमेव च मलयजानुलेपनमेव च, गन्धाढ्यं कर्पूरकस्तूरिकादिगन्धैः पूर्ण विधेयम्, इति गाथार्थः / / 24 / / चउणारीओमिणणं, णियमा अहिगासु एत्थि उ विरोहो। णेवत्थं च इमासिं, जं पवरं तं इहं सेयं / / 25 / / चतुःसंख्या नार्यः स्त्रियश्चतुर्यिस्ताभिर्मङ्गल्याभिः, (ओमिणणं ति)अवमानं प्रोवणकं लोकशास्त्रसिद्धम्, चतुर्यिवमानं भवति तत्र कर्त्तव्यम् / नियमादवश्यतया, अधिकासु चतसृभ्योऽर्गलतरासु, नास्ति तु न भवत्येव, विरोधः शास्त्रबाधः, नेपथ्यं च वेषः, आसामवमानकारिणीनां नारीणां, यत्प्रवरं यत्प्रधानं प्रशस्तं च, तदिहावमानप्रस्तावे, श्रेयः कल्याणभूतं समाश्रयणीयं च, इति गाथार्थः / / 25 / / ननु प्रवरनेपथ्यस्य रागहेतुत्वात्कथं श्रेयस्त्वमित्याहजं एयवइयरेणं, सरीरसक्कारसंगयं चारु। कीरइ तयं असेस, पुण्णणिमित्तं मुणेयव्वं // 26 / / यत्प्रवरने पथ्यादि, एतद्व्यतिकरेण जिनबिम्बप्रतिष्ठासंबन्धेन, शरीरसत्कारसंगतं देहभूषानुगतं, चारु शोभनम्, क्रियते विधीयते, धार्मिकजनेन / तत्तदशेषं सर्वम्, पुण्यनिमित्तं शुभकर्मनिबन्धनम्, (मुणेयव्वं ति)ज्ञेयं, सत्पक्षपातरूपत्वात्तत्परिणामस्येत्यर्थः / श्रेय एव तासां नेपथ्यविशेषः, इति गाथार्थः / / 26 // अथ कुतस्तत्पुण्यनिमित्तमित्याह-- तित्थगरे बहुमाणा, आणाआराहणा कुसलजोगा। अणुबंधसुद्धिभावा, रागादीणं अभावा य॥ 27 / / तीर्थकरे जिने, बहुमानात् पक्षपातात्, तथा आज्ञाऽऽराधनादाप्तोपदेशानुपालनात्, कुशलयोगात् प्रशस्तव्यापारात् शास्त्रोक्तत्वेन / अनुबन्धशुद्धिभावात् सातत्येन कर्मक्षयोपशमेनात्मनो निर्मलत्वसद्धावात्, रागादीनां रागद्वेषप्रभृतीनाम्, अभावात् अविद्यमानत्वात्, रागाऽऽद्यभावश्चानपरतन्त्रत्वादेव, च-शब्दःसमुच्चये, पुण्यनिमित्त प्रवरनेपथ्यादि विज्ञेयमिति प्रकृतम्, इति गाथार्थः / / 27 / /
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy