________________ चेइय १२७०-अभिधानराजेन्द्रः-भाग 3 चेइय (आगमेत्यादि) आगमतन्त्र आगमपरतन्त्र आगमानुसारी; सततमनवरतं,स आगमा विद्यते येषां ते तद्वन्तस्तेषु, भक्त्यादीनि भक्तिबहुमानविनयपूजनादीनि यानि लिङ्गानि तैः संसिद्धो निश्चितः, तद्वद्भक्त्यादिलिङ्ग संसिद्ध, चेष्टायां व्यापारकरणे, तत्रमृतिमानागमस्मृतियुक्तः, शस्तः खलु प्रशस्तो भवत्याशयविशेषः परिणामभेदः // 13 / / एवमाशयविशेषमभिधाय तेन बिम्बकरणं समर्थयन्नाहएवं विधेन यद् वि-म्बकारणं तद्वदन्ति समयविदः / लोकोत्तरमन्यदतो, लौकिकमभ्युदयसारं च / / 14 / / (एवमित्यादि) एवं विधेनाऽऽशयेन यद् बिम्बकारणं पूर्वोक्तं, तद्वदन्ति प्रतिपादयन्ति, समयविदः शास्त्रज्ञाः, लोकोत्तरमागमिकमन्यदतो लौकिकमतोऽस्मादाशयविशेषसमन्वितात् जिनबिम्बकारणाद्, अन्यद् लौकिकं वर्तते, अभ्युदयसारं च तद्भवति / / 14 / / लौकिकमभ्युदयसारमित्युक्तं, लोकोत्तरं तु कीदृगित्याह-- लोकोत्तरं तु निर्वाणसाधकं परमफलमिहाश्रित्य / अभ्युदयोऽपि हि परमो, भवति त्वत्रापनुषनेण / / 15 / / लोकोत्तरं तु पुनर्निर्वाणसाधकं मोक्षसाधकं, परमफलमिहाश्रित्य प्रकृष्टफलमङ्गीकृत्याऽभ्युदयोऽपि हि स्वर्गादिः, परमः प्रधानो भवति त्वत्रानुषड्नेण भवत्येवात्र प्रसङ्गेन, न मुख्यवृत्त्या / / 15 / / प्रधानानुषङ्गिकप्रतिपत्त्यर्थ दृष्टान्तमाह-- कृषिकरण इव पलालं, नियमादत्रानुषङ्गिकोऽभ्युदयः। फलमिह धान्यावाप्तिः, परमं निर्वाणमिव बिम्बात्॥१६॥ कृषिकरण इव, पलालं प्रतीतं, नियमादत्र जिनबिम्बकारणे, आनुषङ्गिकोऽभ्युदयः स्वर्गादिः फलमिह दृष्टान्ते, धान्यावाप्तिः सस्यलाभः, परमं निर्वाणमिव बिम्बात् धान्यनिर्वाणावाप्त्योः साम्यं दर्शयति / षो०७ विव०। जिनबिम्बस्य तावद्विशिष्टलक्षणलक्षितस्य प्रसादनीयस्य वजेन्द्रनीलाञ्जनचन्द्रकान्तसूर्यकान्तारिष्टकर्केतनविद्रुमसुवर्णरूप्यचन्दनोपलमृदादिभिः सारद्रव्यैर्विधापनम् / यदाह"सन्मृत्तिकाऽमलशिलातलरूप्यदारुसौवर्णरत्नमणिचन्दनचारु बिम्बम्। कुर्वन्ति जैनमिह ये स्वधनानुरूपं, ते प्राप्नुवन्ति नृसुरेषु महासुखानि // 1 // " बिंबपरिवारमज्झे, सेलस्स य वन्नसंकरं न सुहं / समअंगुलप्पमाणं, न सुंदरं होइ कइया वि // 4 // इकगुलाइपडिमा, इझारस जाव गेहें पूइज्जा। उडु पासाऍ पुणो, इअ भणिअंपुटवसूरीहिं // 5 // निरयावलिसुत्ताओ, लेवोवलदंतकट्ठलोहाणं / परिवारमाणरहिअं, घरम्मि नो पूअए बिंबं / / 6 // गिहपडिमाणं पुरओ, वलिवित्थारो न चेव कायव्वो। निच्च न्हवण तिसंझं, मज्जणयं भावओ कुज्जा " // 7 // प्रतिमा मुख्यवृत्त्या सपरिकराः सतिलकाद्याभरणाश्च कारयितव्याः, विशिष्य च मूलनायकः, तथैव विशेषशोभातज्जनितविशेषपुण्यानुबन्धिपुण्यादिसंभवात् / उक्तं च-''पासाईआ पडिमा' इत्यादि द्वारम्। अथैवंनिष्पन्नस्य बिम्बस्य सद्यः प्रतिष्ठा विधाप्या। यदुक्तं षोडशके"निष्पन्नस्यैवं खलु, जिनबिम्बस्योदिता प्रतिष्ठा तु। दशदिवसाभ्यन्तरतः, सा च त्रिविध सगासेन ॥१॥"इत्यादि। वृहद्भाष्येऽपि-"वत्तपइट्ठा एगा, खित्तपइट्ठा महापइट्ठा य। एगचउवीससत्तरिसयाण सा होइ अणुकमसो // 1 // " प्रतिष्ठाविधिश्च सर्वाङ्गीणतदुपकरणमीलननानास्थानश्रीसङ्गगुर्वाज्ञाकारणप्रौढप्रवेशमहादितत्स्वागतकरणभोजनवसनप्रदानादि सर्वांगीणं सप्रकारेण वन्दिमोक्षकारणमारिनिवारणाऽवारितसत्रवितरणसूत्रधारसत्कारणस्फीतसङ्गीताद्यभिनवाद्भुतोत्सवावतारणादिरष्टादशस्नात्रकारणादिश्च प्रतिष्ठाकल्पादेईयः / ध०२ अधि०। (26) अथ तत्प्रतिष्ठाविधिमभिधातुमाहणिप्फण्णस्स य सम्म, तस्स पइट्ठावणे विही एस। सुहजोएण पवेसो, आयतणे ठाणठवणा य॥१६॥ निष्पन्नस्य च सिद्धस्य पुनः, सम्यक् यथावत्, इदं पदं प्रतिष्ठापन इत्यनेन, निष्पन्नस्येत्यनेन वा संबध्यते। तस्य जिनबिम्बस्य,प्रतिष्ठापने संस्थापने, विधिविधानम्, एष वक्ष्यमाणः / तमेवाह-शुभयोगेन साधकचन्द्रनक्षत्रादिसंबन्धेन प्रशस्तमनःप्रभृतिव्यापारेण वा, प्रवेशःप्रवेशनं, बिम्बस्य कर्त्तव्य इति शेषः / आयतने भवने, स्थानस्थापना च उचितस्थानन्यासश्च, बिम्बस्यैव / इति गाथार्थः // 16 // तथातेणेव खेत्तसुद्धी, हत्थसयादिविसया णिओगेण। कायव्वो सक्कारो, य गंधपुप्फादिएहि तहिं / / 17 / / तेनैव शुभयोगेन, क्षेत्रशुद्धिर्भूमिशोधनं, हस्तशतादिविषयो गोचरी यस्याः शुद्धेः सा हस्तशतादिविषया, आदिशब्दाद् बहुतरविषया, अल्पतरविषया वा / इयं च समन्ततो द्रष्टव्या, शोधनीयं च तत्रास्थिमांसाशुच्यादिद्रव्यमिति। नियोगेनावश्यंतया, कार्येति गम्यम्। तथा कर्तव्यो विधयः, सत्कारश्च गन्धपुष्पादिभिः प्रतीतैः, आदिशब्दाद् धूपादिग्रहः। तस्मिन् जिनभवने, प्रतिष्ठावसरे च, इति गाथार्थः / / 17 // दिसि देवयाण पूजा, सव्वेसिं तह य लोगपालाणं। ओसरणकमेणऽण्णे, सव्वेसिं चेव देवाणं / / 18 // दिग्देवताऽऽदीनामिन्द्रादीनाम्, पूजार्चनं, सर्वेषां समस्तानाम्, तथा चेति समुचये, लोकपालानां सोमवमवरुणकुबेराणां, शक्र तथा "पासाईआ पडिमा, लक्खणजुत्ता समत्तलकरणा। जह पल्हाएइ मणं, तह णिज्जरमो विआणाहि // 1 / / ध०२ अधि०। प्रतिमाश्च वास्तुशास्त्रोक्तविधिनिष्पन्नाः सुलक्षणा अत्राप्यभ्युदयगुणहेतवः। यतः"अन्यायद्रव्यनिष्पन्ना, परवास्तुदलोद्भवा / हीनाधिकाङ्गा प्रतिमा, स्वपरोन्नतिनाशिनी // 1 // मुहनक्कनयणनाही-कडिभगे मूलनायम चयह / आहरणवत्थपरिगर-चिंधाउहभंभे पूइज्जा / / 2 / / वरिससयाओ उड्. जं बिंब उत्तमेहि संठविअं। विअलंग वि पूइज्जइ, तं बिंब निक्कलं नजओ / / 3 !!