________________ चेइय १२६६-अभिधानराजेन्द्रः-भाग 3 चेइय (नार्पणमित्यादि) इतरस्य स्थीमद्यद्यूतदिव्यसनवतो, नार्पणं तथा / क्रियते यथा अनघस्य, युक्त्या लोकन्यायेन, वक्तव्यमेव मूल्यमिति इति एवंस्वरूपं मूल्यमिदं वक्तव्यं, काले च प्रस्तावे च दानमुचित, मूल्यस्येति गम्यते / शुभभावेनैव न अशुभभावेन, विधिपूर्वमविधिपरिहारेण / / 3 // सव्यसनं प्रति किमेवमुपदिश्यत इत्याहचित्तविनाशो नैवं, प्रायः संजायते द्वयोरपि हि। अस्मिन् व्यतिकर एष, प्रतिषिद्धो धर्मतत्त्वज्ञैः।। 4 / / चित्तविनाशः चित्तकालुष्यं, नैवम् उक्तनीत्या, प्रायो बाहुल्येन, संजायते, द्वयोरपि हि कारयितृवैज्ञानिकयोः, अस्मिन् प्रस्तुते, व्यतिकरे संबन्धे, एष चित्तविनाशश्चितभेदः,प्रतिषिद्धो निराकृतो, धर्मतत्त्वज्ञैर्धर्मस्वरूपवेदिभिः॥ 4 // अस्मिन् व्यतिकर इत्युक्तं तमेवाश्रित्याहएष द्वयोरपि महान्, विशिष्ट कार्यप्रसाधकत्वेन। संबन्धमिह क्षुण्णं,न मिथः सन्तः प्रशंसन्ति / / 5 / / (एष इत्यादि) एष योगो, द्वयोरपि पूर्वोक्तयोर्महान् गुरुर्विशिष्टकार्यप्रसाधकत्वेन जिनबिम्बनिर्वर्तकत्वेन, इह संबन्धं, क्षुण्णं वैकल्यं, न मिथः परस्परं, सन्तः सत्पुरुषाः, प्रशंसन्ति स्तुवन्ति // 5 // जिनबिम्बकारणे भावप्राधान्यमुररीकृत्याऽऽह-- यावन्तः परितोषाः, कारयितुस्तत्समुद्भवाः केचित्। तद्विम्वकारणानी-ह तस्य तावन्ति तत्त्वेन / / 6 / / (यावन्त इत्यादि) यावन्तो यत्परिमाणाः, परितोषाः प्रीतिविशेषाः, कारयितुरधिकृतस्य, तस्य समुद्भवा बिम्बसमुद्भवाः, के चित्केऽपि, चिच्छन्दोऽप्यर्थे, तद्भिम्बकारणानि जिनबिम्बनिर्वर्तनानीह प्रक्रमे, तस्य कारयितुः, तावन्ति तत्परिमाणानि, तत्त्वेन परमार्थेन // 6 // चित्तविनाशोऽत्र प्रतिषिद्ध इत्युक्तं, तमाश्रित्याहअप्रीतिरपि च तस्मिन्, भगवति परमार्थनीतितो ज्ञेया। सर्वापायनिमित्तं, ह्येषा पापा न कर्तव्या॥७॥ (अप्रीतिरित्यादि) अप्रीतिरपि च चित्तविनाशरूपा, तस्मिन् शिल्पिनि क्रियमाणा, भगवति जिने, परमार्थनीतितः परमार्थन्यायेन, कारयितु या सर्वापायनिमित्तं, हि यतः, सर्वेषामपायानां प्रत्यवायानां निमित्तमप्रीतिः, तस्मादेषा पापाऽप्रीतिः, न कर्तव्या न विधेया॥७॥ कथं पुनः तत्कारयितव्यमित्याहअधिकगुणस्थैर्नियमात्, कारयितव्यं स्वदौर्खदैर्युक्तम् / न्यायार्जितवित्तेन तु, जिनबिम्बं भावशुद्धेन // 8 // (अधिके त्यादि) अधिकगुणस्थैरधिकगुणवर्तिभिः, प्राक्तनकालापेक्षया, नियमाद् नियमेन, कारयितव्यं कारणीयं, स्वदौ हुंदैः स्वमनोरथैः, शिल्पिगतैः, युक्तं सहितं, न्यायाजितयित्तेन तु न्यायोपातद्रविणेन तु करणभूतेन, जिनबिम्बं जिनप्रतिमारूपं, भावशुद्धेन भावेन सदन्तःकरणलक्षणेन शुद्धं यन्न्यायार्जितवित्तं तेन // 8 // स्वदौ«दैर्युक्तमित्युक्तं तद्विवरीषुराहअत्रावस्थात्रयगा-मिनो बुधैर्हिदाः समाख्याताः। बालाद्याश्चैता य-तत्क्रीडनकादिदेयमिति / / / / (अत्रेत्यादि) अत्र जिनबिम्बकारणे, अवस्थात्रयगामिनो बालकुमारयुवलक्षणावस्थात्रयगामिनो, बुधैर्विद्वद्भिहृदा मनोरथाः, समाख्याताः कथिताः, बालाद्याः चैत्ता यत् चित्ते भवाश्चैत्ताः शिल्पिचित्तगताः, यद्यस्मात्तु वर्तन्ते तत्तस्माच्चैत्तबालाद्यवस्थात्रयमनोरथसंपत्तये, क्रीडनकादि क्रीडनकं विस्मयकारि भोगोपकारणजातं, देयमुपढौकनीयम्, इति एवंप्रकारम्। इदमुक्तं भवति-शिल्पी बालो युवा मध्यमवया वा प्रतिमानिर्माण व्याप्रियते, तस्य तदवस्थात्रयमनादृत्य प्रतिमागतावस्थात्रयदर्शिनश्चैत्ता ये दौ«दाः समुत्पद्यन्ते, तत्परिपूर्णाय यतितव्यम्॥६॥ भावशुद्धेनेत्युक्तं, तदुपदर्शनायाऽऽहयद्यस्य सत्कमनुचित-मिह वित्ते तस्य तज्जमिह पुण्यम्। भवतु शुभाशयकरणा-दित्येतद्भावशुद्धं स्यात् / / 10 // यत् स्वरूपेण यन्मात्रं, यस्य सत्कं यस्य संबन्धि, वित्तमिति गम्यते, अनुचितमयोग्यम्, इह वित्ते मदीये कथञ्चिदनुप्रविष्ट, तस्य पुरुषस्य, तस्माज्जातं तज्जम्, इह विम्बकरणे, पुण्यं पुण्यकर्म, भवतु अस्तु, शुभाशयकरणात् शुभपरिणामकरणात्, इत्येवमुक्तनीत्या, एतत् न्यायार्जितं वित्तं पूर्वोक्तं भावशुद्धं, स्यात् / परकीयवित्तेन स्ववित्तानुप्रविष्टन पुण्यकारणानभिलाषाद्भावेनान्तःकरणेन शुद्धं भवेत् // 10 // जिनबिम्बकारणविधिरभिधीयत इत्युक्तं, तद्गतमेव वि शेषमाहमन्त्रन्यासश्च तथा, प्रणवनमःपूर्वकं च तन्नाम / मन्त्रः परमो ज्ञेयो, मननत्राणे ह्यतो नियमात् // 11 // मन्त्रन्यासश्च तथा जिनबिम्बे कारयितव्यतयाऽभिप्रेते मन्त्रस्य न्यासो विधेयः। कः पुनः स्वरूपेण मन्त्र इत्याह-'प्रणवनमः--पूर्वकं च तन्नाम। मन्त्रं परमो ज्ञेयः ' प्रणव ओङ्कारो, नमःशब्दश्च, तौ पूर्वावादी यस्य तत्प्रणवनमःपूर्वकं, तस्य विवक्षितस्य ऋषभादेन म तन्नाम, मन्त्रः परमः प्रधानो, ज्ञेयो वेदितव्यः / किमित्याह-'मननत्राणे ह्यतो नियमात्' हिर्यस्मादतः प्रणवनमः पूर्वकान्नाम्नः सकाशात् ज्ञानरक्षणे नियमाद्भवत इति कृत्वा मन्त्र उच्यते तन्नामैवैति॥११॥ ननु च रत्नकनकादिभिः सुरूपमहाबिम्बकरणैर्विशिष्ट फल माहोस्वित्परिणामविशेषादित्याशङ्कयाऽऽहबिम्बं महत्सुरूपं, कनकादिमयं च यः खलु विशेषः। नास्मात्फलं विशिष्ट, भवति तु तदिहाशयविशेषात् / / 12 / / बिम्बं प्रतिमारूपं, महत्प्रमाणतः, सुरूपं विशिष्टाङ्गाबयवसन्निवेशसौन्दर्य , कनकादिमयं च चतुर्वर्णरत्नादिमयं च, यः खलु विशेषो बाह्यवस्तुगतः नास्मात्फलं विशिष्टमस्मादेव विशेषान्न फलविशेषो न फलमधिकं, नैतदविनाभाविफलमित्यर्थः / भवति तु भवत्येव, तद्विशिष्ट फलम्, इह प्रक्रमे, आशयविशेषात् यत्र भावोऽधिकस्तत्र फलमप्यधिकमिति हृदयम् / / 12 // आशयविशेषात् विशिष्टं फलमित्युक्तं, स एव आशयविशेषोयादृक्षः प्रशस्तो भवति तादृक्षमाहआगमतन्त्रः सततं, तद्द्वक्त्यादिलिएसंसिद्धः। चेष्टायां तत्स्मृतिमान, शस्तः खल्व शयविशेषः।। 13 / /