________________ चेइय १२६८-अभिधानराजेन्द्रः-भाग 3 चेइय सम्मं णिरूविझणं, गाढगिलाणस्स वाऽपत्थं ||10|| यदनुष्ठानम्, जायते संपद्यते, परिणामे आयत्याम्, असुखम्, असुखहेतुल्यात, असौख्यमशुभं वा, सर्वस्य समस्तस्याऽऽत्मनः परस्य वा, न पुनरात्मन एव / सतां परोपकारकरणप्रवणान्तःकारणत्वात् / आह च"जयन्तु ते सदा सन्तः, सत्त्वीयाः सद्गुणान्विताः / ये कृतार्थाः स्वयं सन्तः, परार्थे विहितश्रमाः॥१॥" तदित्यनुष्ठानम्, न कर्तव्यं न विधेयम्, सम्यगविपरीततया, निरूप्यालोच्य, सम्यनिरूपणाभावे हि परिणामस्य दुरवसेयत्वं स्यादिति। अत्रार्थे दृष्टान्तमाहगाढग्लानस्य सन्निपाताद्यभिंभूततया तीव्रातुरस्य, वाशब्द इवशब्दार्थः, अपथ्यमयोग्यभोजनम्, अपथ्यदानेन हि गाढग्लानो विनाशितो भवति, इति गाथार्थः / / 10 / / ननु यद्यनवद्यकारुकस्यविशेषेण मूल्यार्पणे सदोषस्य वा तन्नियमनेऽपि देवद्रव्यक्षतिः स्या-- तदा का वार्तेत्याशङ्कयाऽऽहआणागारी आरा-हणेण तीए ण दोसवं होति। वत्थुविवज्जासम्मि वि, छउमत्थो सुद्धपरिणामो।।११।। आज्ञाकारी आप्तोपदेशवर्ती, यथोक्तजिनबिम्बमूल्यविधिविधायीत्यर्थः / किमित्याह-आराधनेन बिम्बमूल्यनियमनादिद्वारेण पालनया, तस्या आज्ञायाः, न नैव, दोषवानविपाकदारुणदेवस्वपरिभोगप्रर्वत्तकलक्षणदूषणयुक्तः, भवति जायते, वस्तुनो यथोक्तमूल्यापणविधानेन देवद्रव्यरक्षणलक्षणस्य, विपर्यासः स्वभाववैपरीत्यं, वस्तुविपर्यासस्तस्मिन्नापि, देवद्रव्यस्य कारुकेण भक्षणेऽपीत्यर्थः, अविपर्यासे निर्दोष एवेत्यपिशब्दार्थः। छद्मस्थो निरतिशयज्ञानः, अनेन च वस्तुविपर्यासस्य बीजमुक्तं, तस्यैव मोहसंभवात्। अथ कथमसावाज्ञाकारीनदोषवानित्याह-यतः शुद्धपरिणामो निरवद्याध्यवसायः कर्ता / इति गाथार्थः ||11|| अथ कथं वस्तुविपर्यासेऽप्याज्ञाकारिणः शुद्धपरि ___णामो भवतीत्यत आहआणापवित्तिओ चिय, सुद्धो एसो ण अण्णहा णियमा। तित्थगरे बहुमाणा, तदभावाओ य णायव्वो // 12 // आज्ञाप्रवृत्तित एवाऽऽतोपदेशपरतन्त्रप्रवर्त्तनादेव, शुद्धो विशुद्धः एष परिणामो बिम्बविधायको वा, ज्ञेय इति योगः। न नैव, अन्यथा अपरया, आज्ञाया अपारतन्त्र्यप्रवृत्तेरित्यर्थः / नियमादवश्यतया, शुद्धो ज्ञेयो भवतीति प्रकृतमेव / अथ कुत एतदपि द्वयमित्याह-तीर्थकरे जिने बहुमानात्पक्षपातात् आज्ञाप्रवृत्तिकः शुद्ध / तदभावात्तीर्थकरे बहुमानाभावात् अनाज्ञाप्रवृत्तिकस्त्यशुद्धः, चशब्दः समुच्चयार्थः, ज्ञातव्यो ज्ञेय इति संबन्धितमेव, इति गाथार्थः // 12 // अथ किमेवमाज्ञायाः प्राधान्यमु ष्यते इत्याहसमतिपवित्ती सव्वा, आणावज्झत्ति भवफला चेव। तित्थगरुद्देसेण वि,ण तत्तओ सा तदुद्देसा / / 13 / / स्वमतिप्रवृत्तिः आत्मबुद्धिपूर्विका चेष्टा, सर्वा समस्ता द्रव्यस्तवभावस्तवविषया, आज्ञाबाह्या आप्तोपदेशशून्या, इति हेतोः, भवफलैव संसारनिबन्धनमेव, आज्ञाया एव भवोत्तारहेतुषु प्रमाणत्वादि ति / ननु या तीर्थकरानुद्देशवती सा भवफला युक्ता, न त्वितरा, जिनपक्षपातस्य महाफलत्वादित्याशक्याह-तीर्थकरोद्देशेनाऽपि जिनालम्बनेनापि, आस्तां ततोऽन्यत्र स्वमतिप्रवृत्तिर्भवफलैवेति प्रकृतम्। कुत एवम्? यतो न तत्त्वतो न परमार्थेन, सा तीर्थकरोद्देशवती स्वमतिप्रवृत्तिः, तस्मिस्तीर्थकरे उद्देशः प्रणिधानं यस्यां सा तदुद्देशा, य एव ह्याज्ञया प्रवर्ततेस एव हि जिनमुद्दिश्य प्रवर्तत इत्यभिधीयते, नापर इति गाथार्थः / / 13 / / आज्ञोल्लङ्घनेन जिनमुद्दिश्य जिनभवनविम्बत त्पूजाऽऽदिप्रवृतान् बहूनुपलभ्योपालम्भयन्नाहमूढा अणादिमोहा, तहा तहा एत्थ संपगट्टता। तं चेव य मण्णंता, अवमण्णंता ण याणंति / / 14 / / मूढा मूर्खाः, कुत इत्याह-अनादिमोहात् आदिरहिताज्ञानात्, अनादिर्वा मोहो येषां ते तथा / तथा तथा तेन तेन प्रकारेणाऽऽज्ञोल्लङ्घनतो बिम्बपूजादिलक्षणेन, अत्र तीर्थकरविषये, संप्रवर्त्तताना व्याप्रियमाणाः, (तं चेव य त्ति) तमेव च तीर्थकर, मन्यमानास्तत्पूजादिकरणत आराध्यतयाऽभ्युपगच्छन्तः, अवमन्यमानास्तमेव परिभवन्त आज्ञोल्लङ्घनेन, नजानन्ति नावगच्छन्ति, अनादिमोहमूढत्वादिति हृदयम्। इति गाथार्थः // 14 // प्रस्तुतमेवार्थ निगमयन्नाहमोक्खत्थिणा तओ इह, आणाए चेव सव्वजत्तेणं। सव्वत्थ वि जइयव्वं, संमं ति कयं पसंगेण / / 15 / / मोक्षार्थिना सिद्धिकामेन, (तओ त्ति) यतः स्वमतिप्रवृत्तिः भवफला ततो हेतोः, इह प्रक्रमे, आज्ञयैवाप्तोपदेशेनैव, सर्वयत्नेन सर्वादरेण, सर्वत्रापि समस्तेऽपि परलोकसाधनविधौ, आस्तामेकत्र; यतितव्यं चेष्टितव्यं, सम्यग् भावशुद्ध्या, इतिशब्दः परिसमाप्तौ, कृतमलम, प्रसङ्गेन प्रसङ्गापन्नभणितेन; इति गाथार्थः / / 15 / / पञ्चा० 8 विव०। जिनभवने तबिम्बं, कारयितव्यं दुतं तु बुद्धिमता। साधिष्ठानं ह्येवं, तद्भवनं वृद्धिमद्भवति // 1 // जिनभवने जिनायतने, तबिम्बं जिनबिम्ब, कारयितव्यं कारणीयं, द्रुतं तु शीघ्रमेव, बुद्धिमता बृद्धिसंपन्नेन किमिति / द्रुतं कारयितव्यमित्याह-हि यस्मात्साधिष्ठानं साधिष्ठातृकमेव, जिनबिम्बेनैव, तद्भवनं प्रस्तुतं वृद्धिमद्धति वृद्धिभाग् भवति // 1 // तबिम्बकारणविधिमाहजिनबिम्बकारणविधिः, काले पूजापुरस्सरं कर्तुः। विभवोचितमूल्यार्पण-मनघस्य शुभेन भावेन // 2 // जिनबिम्बकारणविधिः, अभिधीयते इति वाक्यशेषः / काले अवसरे, पूजापुरस्सरं भोजनपत्रपुष्पफलपूजापूर्वकं, कर्तुः शिल्पिनः विज्ञानिकस्य, विभवोचितस्य मूल्यस्य धनस्यार्पणं समर्पणमनघस्याव्यसनस्य, शुभेन प्रशस्तेन भावनान्तःकरणेन // 2 // अनघस्येत्युक्तं तद्व्यतिरेकेणाहनार्पणमितरस्य तथा, युक्त्या वक्तव्यमेव मूल्यमिति / काले च दानमुचितं, शुभभावेनैव विधिपूर्वम् / / 3 / /