SearchBrowseAboutContactDonate
Page Preview
Page 1291
Loading...
Download File
Download File
Page Text
________________ चेइय १२६७-अभिधानराजेन्द्रः-भाग 3 चेइय जिनबिम्बस्याकारितस्य प्रतिष्ठा न भवतीति तत्कारणवि धिमभिधित्सुस्तत्प्रस्तावनाऽऽहजिणबिंबस्स पइट्ठा, पायं कारावियस्स जं तेण। तक्कारवणम्मि विहिं, पढम चिय वण्णिमो ताव // 2 // जिनबिम्बस्य जिनप्रतिमायाः, प्रतिष्ठा प्रतिष्ठापना, प्रायः प्रायेण, प्रायोग्रहण चाकारितस्याऽपि स्वयंकृतस्य क्रीतस्य च प्रतिष्ठा भवतीति प्रतिपादनार्थम् / यदिति यस्माद्धेतोः, तेन तस्मात्, (तकारवणम्मि त्ति) जिनबिम्बविधापने, विधि कल्पम्, प्रथममेव पूर्वमेव, प्रतिष्ठाभिधानात्, वर्णयामो भणामः, तावदिति प्रक्रमार्थः / इति गाथार्थः / / 2 / / अथ बिम्बकारणविधिमेवाभिधित्सुस्तत्प्रवर्तकशुद्धबुद्धिस्व रूपं तावद्गाथाचतुष्केणाऽऽहसोउं णाऊण गुणे, जिणाण जायाएँ सुद्धबुद्धीए। किचमिणं मणुयाणं, जम्मफलं एत्तियं चेव // 3 // गुणपगरिसो जिणा खलु, तेसिं विवस्स दंसणं पि सुहं। कारावणेण तस्स उ, अणुग्गहो अत्तणो परमो॥४|| मोक्खपहसामियाणं, मोक्खत्थं उज्जएण कुसलेणं। तग्गुगबहुमाणादिसु, जइयव्वं सव्वजत्तेणं / / 5 / / तग्गुणबहुमाणाओ, तह सुहभावेण वज्झती णियमा। कम्मं सुहाणुबंधं, तस्सुदया सव्वसिद्धि त्ति॥६॥ श्रुत्वा गुरुणाऽभिधीयमानानाकर्ण्य, तथा ज्ञात्वाऽवगम्य, कान्? गुणान् रागादिवैरिवारविदारणप्रवचनप्रवर्तनादीन्, केषाम्? जिनानामर्हताम्, जातायां प्राप्तायां सत्यां भूतायामित्यत्र पुनव्याख्याने एककर्तृकत्वाभावात् क्त्वाप्रत्ययस्यानुपपत्तिः स्यादिति प्राप्तायामिति व्याख्यातम् / अथवा गुणगुणिनोर्बुद्धिजीवयोरभेदात् श्रवणज्ञानक्रियाऽपेक्षया बुद्धिजननक्रियाया एककर्तृकत्वमेवेति. ततो जातायामुत्पन्नायाम, शुद्धबुद्धी निर्मलबोधे, किमित्याह-कृत्यं विधेयम्, इदं जिनबिम्बम्, मनुजाना नृणाम्, तथा जन्मफलं जननसाध्यम, एतावदेव नाधिकम्, अत्र मनुष्यभवे // 3 // तथ-गुण-प्रकर्षों गुणातिशयः, जिना एवार्हन्त एव, धर्मधर्मिणोरभेदाच गुणप्रकों जिना इत्युक्तम् / अन्यथा गुणप्रकर्षों जिनानामिति वक्तव्यं स्यादिति / खलुरवधारणे / अत एव तेषां जिनानां, बिम्बस्य प्रतिमायाः, दर्शनमप्यवलोकनमपि, आस्तां तद्वन्दनादि। सुखं शुभं बा वर्तते, तद्धेतुत्वात्। ततः किमित्याह-कारणेन विधापनेन, तस्य बिम्बस्य, तुशब्दः पुनरर्थः, अनुग्रह उपकारो भवति, आत्मनः स्वकीयस्य, परम उत्कृष्टः / / 4 / / ततश्च मोक्षपथस्वामिकानां सिद्धिमार्गप्रभूणा, तदुपदर्शकत्वाज्जिनानां, मोक्षार्थ सिद्धिनिमित्तम्, उद्यतेन प्रयत्नपरेण, कुशलेन निपुणेन, स एव मोक्षो गुणः फलं येषां बहुमानादीनां ते तद्गुणाः, ते च ते बहुमानादयश्च। अथवा-ते च ते असाधारणा गुणाश्च तद्गुणास्तेषु बहुमानादयः प्रीतिपूजाप्रभृतयः तद्गुणबहुमानादयः। अथवा ते च ते गुणा बहुमानादयश्चेति समा-सोऽतस्तेषु, तेषां मोक्षपथस्वाभिकानां गुणबहुमानादय इतितुन व्याख्यातम्, तच्छब्दस्य गतार्थत्वात्तसंस्पर्शनीयस्य साक्षादेवोक्तत्वात् / अथवा तदिति लुप्तषष्ठीबहुवचनान्तं, तेन तेषां जिनानामिति व्याख्येयमिति / यतितव्यं प्रवृत्तिर्विधेया, सर्वयत्नेन समस्तादरेण / / 5 / / अथ कस्मादेवमित्याहतद्गुणबहुभानात् मोक्षपथस्वामिगुणपक्षपातात्, तथा तत्प्रकारेण मोक्षपथस्वामिगुणबहुमानोद्भवेन, शुभभावेन शोभनपरिणामेन, वध्यते उपादीयते, नियमादवश्यंतया, कर्मादृष्ट, शुभानुबन्धं कुशलानुबन्धि / ततश्च तस्य शुभानुबन्धिकर्मण उदयाद्विपाकात्, सर्वसिद्धिः समस्तेप्सितकार्यनिष्पत्तिर्भवति / इतिशब्दः शुद्धबुद्धिस्वरूपोक्तिसमाप्तिसूचनार्थः / इति गाथाचतुष्कार्थः / / 6 / / चतुर्भिः कलापकम्। अथ जिनबिम्बकारणविधिमाहइय सुद्धबुद्धिजोगा, काले संपूइऊण कत्तारं / विभवोचियमप्पेज्जा, मोल्लं अणहस्स सुहभावो।।७।। इति शुद्धबुद्धियोगादेवमनन्तरगाथाचतुष्कोक्तनिर्मलबोधसंबन्धात्, काले तदुचितावसरे, संपूज्य संमानयित्वा, कतरि जिनबिम्बविधायकं, सूत्रधारकमित्यर्थः / विभवोचितं स्वसमृद्ध्यनुरूपम्, अर्पयेत् समर्पयेत्, मूल्यं वेतनम, अनघस्य निर्दोषस्य, अनौचित्येन द्रव्यविनाशकत्वात्। शुभभाव उदारतया प्रवर्द्धमानप्रशस्ताध्यवसायः, कारयिता / इति गाथार्थः / / 7 / / अनघशिल्पिनोऽसद्भावे यद्विधेयं तदाहतारिसयस्साभावे, तस्सेव हि तत्थ मुज्जुओ णवरं। णियमेज्ज बिंबमोल्लं, जं उचियं कालमासज्ज ||8|| तादृशकस्यानघस्येत्यर्थः, कर्तुरिति प्रक्रमः / अभावे अप्राप्तौ, तस्यैव कर्तुरेव, हितार्थ श्रेयोनिमित्तम्, बिम्बार्थकल्पितद्रव्यभक्षणतो यत्तस्य संसारगर्तपतनं, तद्रक्षणद्वारेण उद्यतः प्रयतः, नवरं केवलम् / नियमयेन्नियन्त्रयेत्, बिम्बमूल्य प्रतिमावेतनम्, यथेयता द्रव्येण यद् बिम्ब विधातव्यं भवता यथाबहुशो मूल्यं च दास्यामीति / यदिति मूल्यम, . उचित योग्यं प्रतिभाऽपेक्षया, कालमवसरम् आश्रित्य प्रतीत्य, यतः कचित्काले लघावपि बिम्बे मूल्यं प्रचुरं स्यात्कदाचिदल्पम् / इति गाथार्थः / / यदि पुनरनघस्यैवेतरस्यापि मूल्यमर्पयति, ततः को दोषः स्यादित्यत आहदेवस्सपरीभोगो, अणेगजम्मेसु दारुणविवागो। तस्मि स होइ णिउत्तो, पावो जो कारुओ इहरा ||6|| देवस्वस्य जिनबिम्बनिर्मापणार्थं कल्पितत्वेन जिनदेवद्रव्यस्य, परीभोगो भक्षणं, देवस्वपरीभोगः। उपचारात्तद्धेतुकं कर्म देवस्वपरीभोग उक्तः / स चानेकजन्मस्वनन्तभवेषु, दारुणविपाको नरकादिदुःखकारणत्वेन घोरोदयो भवति, ततश्च तस्मिन् देवस्वपरीभोगे, स इति कारुकः, भवति स्यात्, नियुक्तो व्यापारितः, पापः सदोषो, यः कारुकः शिल्पी, इतरथाऽन्यथा, बिम्बमूल्यनियमनाभावे इत्यर्थः / न च परोपकारणप्रवणान्तःकरणानां सतां दारुणविपाके कर्मणि परव्यापारणं युक्तम् / इति गाथार्थः / / 6 / / अथ देवस्वपरीभोगो दारुणविपाको यदि कारुकस्य भविष्यति, ततः किमस्माकमित्यभिप्रायवन्तं शिक्षयितुमाहजं जायइ परिणामे, असुहं सव्वस्स तं न कायव्वं /
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy