________________ चेइय १२६३-अभिधानराजेन्द्रः-भाग 3 चेइय समलतरद्रव्यवितरणम, कर्तव्यमिति प्रक्रमः। यतो दृष्टादृष्टफलमुपलभ्य प्रयोजनम्, एतदधिकप्रदानमिति गाथार्थः / / 21 / / दृष्टफलप्रतिपादनायाऽऽहते तुच्छगा वराया, अहिगेण ददं उविंति परितोसं। तुट्ठा य तत्थ कम्म, तत्तो अहिगं पकुव्वंति / / 22 / / ते भृतकाः, तुच्छका अगम्भीराः, वराकास्तपस्विनः, यतोऽतः, अधिकेन प्रतिपन्नवेतनापेक्षया समर्गलेन द्रव्येण, दत्तेनेति गम्यम् / दृढमत्यर्थम्, उपयान्त्युपगच्छन्ति, परितोषमानन्दम्।ततः किमित्याहतुष्टाश्च हृष्टाः पुनः तव चिकीर्षितजिनभवने, कर्म भृतकोचितव्यापार, ततोऽधिकदानान्तरम्, अधिकदानं विना वा कृतं यत्कर्म ततस्तस्मात्सकाशात्। अधिकं समर्गलं, प्रकुर्वन्ति विदधति, इति गाथार्थः / / 22 / / एवं तावदधिकदानस्य दृष्टसाधकता प्रतिपाद्यादृष्टफलसा धकता प्रतिपादनायाऽऽहधम्मपसंसाएँ तहा, केइ णिवंधति वोहिबीयाई। अण्णे उ लहुयकम्मा, एत्तो चिय संपवुज्झंति // 23 / / धर्मप्रशंसया जिनशासनश्लाघया, तथेत्यधिकदानोद्भवसंतोषप्रभवया, केचिदेके भृतकाः, तदन्ये वा भृतकविषयाधिकदानदर्शनाऽऽवर्जितहृदयाः, निबध्नन्त्युपार्जयन्ति, बोधिबीजानि सम्यग्दर्शनकारणानि, अन्ये तु बोधिबीजबन्धकेभ्योऽपरे पुनर्भूतकाः, तद्दानदर्शिनो वा, लघुकर्माणो बोधिबीजबन्धकापेक्षया अल्पावरणाः, इत एवाधिकदानात्, संप्रबुद्ध्यन्ते सम्यग्बोधमुपयान्तीति गाथार्थः / / 23 / / लोगे य साहुवाओ, अतुच्छभावेण सोहणो धम्मो। पुरिसुत्तमप्पणीतो, पभावणा चेव तित्थस्स॥२४॥ लोके शिष्टजने, चशब्दो गुणान्तरसमुच्चये। साधुवादो वर्णवादो भवति। केनेत्याह-अतुच्छभावनोदाराशयेन जिनभवनकारयितृगतेन करणभूतेन / किंभूतः साधुवाद इत्याहशोभनः प्रधानः, उदारत्वाज्जैनानाम् / धर्मो जिनप्रवचनरूपः, पुरुषोत्तमप्रणीत उत्तमपुरुषगदितः, तथा प्रभावनोद्भावना, चः समुच्चये। एवमनेन न्यायेन, अनुस्वाराश्रवणं चेह गाथाऽनुलोभ्यात् / तीर्थस्य जिनप्रवचनस्य भवति / इति गाथार्थः // 24 // अथ स्वाशयवृद्धिद्वारमाहसासयवुड्डी वि इहं, भुवनगुरुजिणिंदगुणपरिण्णाए। तविंवठावणंत्थं,सुद्धपवित्तीऍणियमेण // 25 // स्वाशयवृद्धिरपि कुशलपरिणामवर्द्धनमपि, न केवलं भृतकानतिसंधानमित्यपिशब्दार्थः / इह जिनभवनविधाने, भवतीति गम्यम् / कथमित्याह-भुवनगुरुजिनेन्द्रगुणपरिज्ञया त्रिलोकगौरवजिनेश्वरसर्वज्ञत्वसंसारकान्तारोत्तारणसामर्थ्यादिगुणपरिज्ञानेन करणभूतेन, तबिम्बस्थापनार्थं जिनेन्द्रप्रतिमाप्रतिष्ठानिमित्तं, या शुद्धप्रवृत्तिर्निरवद्यक्रिया, तस्याः शुद्धप्रवृत्तेः सकाशात्, नियमेन नियोगेन, इति गाथार्थः / / 25|| तथापेच्छिस्सं इत्थमहं, वंदणगणिमित्तामागए साहू। कयपुण्णे भगवंते, गुणरयणणिही महासत्ते / / 26 / / प्रेक्षिष्ये द्रक्ष्यामि, अत्र जिनभवने, अहमित्यात्मनिर्देशे, वन्दनका निमित्तं चैत्यवन्दनार्थम्, आगतानायातान्, स्थानान्तरेभ्यः / साधून मुनीन.कृतपुण्यानुपार्जितशुभकर्मणः,भगवतः परमेश्वरान, गुणरत्ननिधीन ज्ञानादिमाणिक्यनिधानानि, महासत्त्वान् सत्त्वाधिकान्, इति गाथार्थः // 26|| तथापडिबुज्झिसंति इतं, दह्ण जिणिंदविवमकलंकं / अण्णे वि भव्वसत्ता, काहिंति ततो परं धम्मं / / 27 / / प्रतिभोत्स्यन्ते बोधिं लप्स्य ते, इह जिनभवने, दृष्ट्वाऽवलोक्य, जिनेन्द्रबिम्बं वीतरागप्रतिमाम्, अकलङ्क शस्त्रस्त्र्यादिकलङ्करहितम्, अन्येऽप्यस्मत्तोऽपरे, अहं तु प्रतिबुद्ध एवेत्यपिशब्दार्थः / भव्यसत्त्वाः मुक्तियोग्यजीवाः, करिष्यन्ति विधास्यन्ति, ततः परं प्रतिबोधकालात् परतः, धर्म कुशलानुष्ठानमिति गाथार्थः / / 27 / / ततः किमित्याहता एयं मे वित्तं, जमेत्थमुवओगमेति अणवरयं / इय-चिंताऽपतिवडिया; सासयवुड्डी उ मोक्खफला |28|| यस्मादिह जिनभवने सति तबिम्बस्थापनं साधुदर्शनं भव्यप्रतिबोधश्च भविष्यति, तत्तस्माद्धेतोः, एतदिदमेव, अवधारणं च काकुपाठात् / मे मदीयम, वित्तं द्रव्यम्, अन्यत्परमार्थतः परकीयमेवा यत्किंविधमित्याहयदत्र जिनभवने, उपयोग विनियोगम्, एति याति, अनवरतं सततम्, इत्येवं प्रकारा, चिन्ता विकल्पः, अप्रतिपतिता अविच्छिन्ना / किमित्याह-स्वाशयवृद्धि कुशलपरिणामवर्द्धनम्, भवतीति गम्यम् / तुशब्द एवकारार्थः, उत्तरत्र च संबन्धोऽस्य / सा च मोक्षफला सिद्धिप्रयोजनैव / इति गाथार्थः // 28 / / उक्तं स्वाशयवृद्धिद्वारम् / अथ यतनाद्वारमाहजयणा प पयत्तेणं, कायव्वा एत्थ सव्वजोगेसु। जयणा उधम्मसारो, जं भणिया वीयरागेहिं // 26 // यतना च जलगालनादिजीवरक्षणोपायविशेषलक्षणा, चशब्दः स्वाशयवृद्धपेक्षया समुच्चयार्थः / प्रयत्नेनात्यादरेण, कर्त्तव्या विधेया, अत्र जिनभवनविधौ, सर्वयोगेषु समस्तव्यापारेषु दलानयनभूशोधनभित्तिचयनादिषु, कस्मादेवमित्याह-यतना तु यथाशक्तिजीवरदेव, धर्मसारो धर्मोत्कर्षः, यद्यस्माद्भणिता वीररागैरर्हतिः, इति गाथार्थ॥२६॥ __अथ यतनाया धर्मसारतामेव समर्थयन्नाहजयणा उ धम्मजण्णी, जयणा धम्मस्स पालणी चेव। तबुड्डिकरी जयणा, एगंतसुहावहा जयणा ||30|| यतना तु यथाशक्ति जन्तुरक्षणोपाय एव, धर्मजननी कुशलमाता, तथा यतनैव धर्मस्य पालनी, जनितस्य सतः पुत्रस्येवापायेभ्यो रक्षिका, चशब्दः समुच्चयार्थः, एवशब्दोऽवधारणार्थः, तस्य च संबन्ध प्रागेव दर्शितः। तद्वृद्धिकरी धर्मोपचयकरणशीला यतना, मातेव पृत्रस्य। किं बहुनोक्तेन ? एकान्तेन सर्वथैव, सुखावहा शर्मप्रापिका, एकान्तसुखाव