________________ चेइय १२६४-अभिधानराजेन्द्रः-भाग 3 चेइय हा एकान्तसुखं वा सिद्धिसुखं,तदावहा। यतनोक्तलक्षणा, इह च यतनाशब्दस्य पुनः पुनरुपादानं न दुष्टम्, आदरकृतत्वात् / आह च-''वक्ता हर्षभयादिभिराक्षिप्तमनाः स्तुर्वैस्तथा निन्दन् / यत्पदमसकृत् ब्रूयात्तत्पुनरुक्तं न दोषाय ||1||" इति गाथार्थः / / 30 / / तथाजयणाऍ वट्टमाणो, जीवो सम्मत्तणाणचरणाणं / सद्धाबोहासेवण-भावेणाराहगो भणितो।।३१।। यतनया करणभूतया, वर्तमानो व्याप्रियमाणो, विधियोगेषु यतनायां वा वर्तमानः, जीवो जन्तुः, सम्यक्त्वज्ञानचरणानं मोक्षपथानाम, क्रमेण श्रद्धाबोधासेवनानां रुच्यवगमानुष्ठानानां, यो भावः सद्भावः स तथा, तेन यतनायाः श्रद्धाभावेन सम्यक्त्वस्य, बोधभावेन ज्ञानस्य, आसेनभावेन चरणस्य, आराधकः साधकः, भणितोऽभिहितः, जिनैरिति गम्यते। इति गाथार्थः // 31 / / नन्वस्याः कथञ्चिदारम्भरूपत्वात्कथमनया वर्तमानस्य चर णाराधकत्वं निवृत्तिरूपत्वाचरणस्येत्याशङ्कयाऽऽहएसा य होइणियमा,तदहिगदोसविणिवारणी जयणा। तेण णिवित्तिपहाणा, विण्णेया बुद्धिमंतेहिं // 32 / / एषा चइयं पुनर्यतना, भवति जायते, नियमादवश्यंतया, तदधिकदोषविनिवारिणी तस्माद्यतनागतारम्भदोषादधिको बहुतरो यो दोष आरम्भान्तररूपस्तं विनिवारयति इति तदधिकदोषविनिवारिणी / येन यस्मात्कारणात्तेन तस्मात्कारणात्, निवृत्तिप्रधाना आरम्भान्तरनिवर्तनसारा, विज्ञेया ज्ञातव्या इति / बुद्धिमद्भिः पण्डितैः, एषा / इति गाथार्थः // 32 // तामेव स्वरूपणे दर्शयन्नाहसा इह परिणयजलदल-विसुद्धिरूवा उ होइ णायव्वा। अण्णारंभणिवित्ती-ऐं अप्पणाऽहिट्ठणंचेवं // 33 / / सा पुनर्यतना, इह जिनभवनविधाने, अन्यत्र पुनरनीदृश्यपि परिणतं प्रासुकं यज्जलं पानीयं दलंच दार्वादि, तयोर्या विशुद्धिरनवद्यता त्रसरहितत्वादिलक्षणा, सैव रूपं स्वभावो यस्याः सा परिणतजलदलविशुद्धिरूपा। तुशब्दः पुनरर्थः / सा तु सा पुनरित्येवं संबन्धित एव, अवधारणार्थों वाऽयं, तेन एवंविधैव सामान्यरूपा, भवति वर्तते, ज्ञातव्या ज्ञेया। तथा अन्यारम्भनिवृत्त्या कृष्याद्यारम्भत्यागेन, आत्मना स्वयमेव, अधिष्ठानं जिनभवनारम्भाणामध्यासनम्, एवं चैषा यतना, भवति ज्ञातव्येति प्रकृतम्। जिनभवनारम्भाणां हि स्वयमधिष्ठायकत्वं प्रतिपन्नो यथोचितं जीवान् रक्षयन् कर्मकराँस्तदारम्भेषु प्रवर्त्तयति, निरधिष्ठायकास्तु ते यथाकथञ्चित्तेषु प्रवर्तन्ते, इत्यात्माऽधिष्ठायकत्वं यतना / इति गाथार्थः // 33 // निवृत्तिप्रधाना यतनेति यदुक्तं, तदेव समर्थयन्नाहएवं च होइ एसा, पवित्तिरूवा वि भावतो णवरं। अकुसलणिवित्तिरूपा, अप्पबहुविसेसमावेणं॥३४॥ एवं चानेन पुनः प्रकारेण परिणतजलाद्याश्रयणजिनभवनारम्भाधिष्ठायकत्वलक्षणेन, भवति जायते, एषा यतना, प्रवृत्तिरूपाऽपि सती, आस्तामप्रवृत्तिरूपा, भावतः परमार्थेन, नवरं केवलम्, अकुशल निवृत्तिरूपा सपापारम्भोपरमणस्वभावा / ननु यतनायामपि अल्पीयसां पृथिव्याद्यारम्भाणां विद्यमानत्वात्कथमकुशलारम्भनिवृत्तिरूपाऽसावित्याह-(अप्पबहुविसे सभावेणं ति) इह भावप्रत्ययस्य लुप्तस्य दर्शनादल्पत्वबहुत्वलक्षणौ यौ विशेषौ परस्परभेदौ जिनभवनविषयाणां यतनारम्भाणां तदन्यारम्भाणां च तयोर्यो भावः सद्भावः स तथा, तेनाल्पबहुविशेषभावेन। इदमुक्तं भवति-जिनभवनारम्भाणामल्पदोषाणामाश्रयणेन तदन्येषां बहुदोषाणां त्यागादकुशलनिवृत्तिरूपा यतना भवतीति गाथार्थः // 34 // नन्यादिदेवस्य सकललोकव्यवहारप्रवर्त्तनमयुक्तं, भूतोपघा-- तरूपत्वादित्येवं पूर्वपक्षं जिनभवनयतनाद्वारप्र सङ्गेन परिहरन्नाहएत्तो चिय णिद्दोसं,सिप्पादिविहाणमो जिणिंदस्स। लेसेण सदोसं पिहु, बहुदोसणिवारणत्तेण॥३५॥ (एत्तो चिय त्ति) यतोऽल्पबहुंत्वविशेषभावेनाकुशलनिवृत्तिरूपा जिनायतना भवति, अत एव कारणात्। निर्दोषं निरवद्यम्, शिल्पादिविधानं शिल्पकलाराजनीतिप्रभृतिपदार्थोपदर्शनम्,'ओ' इति निपातः / जिनेन्द्रस्य नाभिनन्दनस्य, किंभूतं तदित्याह-लेशेन मात्रया, सदोषमपि सावद्यमपि, निर्दोषमेवेत्यपिशब्दार्थः / हुशब्दोऽलकृतौ / केन कारणे-- नेत्याह- बहुदोषनिवारणत्वेनाऽन्योऽन्यहननधनहरणाद्यनेकविधाऽनर्थ निषेधकतया, इति गाथार्थः / / 3 / / भगवतः शिल्पादिविधाने निर्दोषतामेव समर्थन्नाहवरबोहिलामओ सो, सव्वुत्तमपुण्णसंजुओ भयवं / एगंतपरहियरतो, विसुद्धजोगो महासत्तो॥३६|| जं बहुगुणं पयाणं, तं णाऊणं तहेव दंसेइ / ते रक्खंतस्स ततो, जहोचितं कह भवे दोसो // 37|| वरः प्रधानोऽप्रतिपातित्वाबोधिलाभः सम्यग्दर्शनावाप्तिर्यस्य स वरबोधिलाभको, वरबोधिलाभाद्वा हेतोः स जिनः / किमित्याह-- सर्वोत्तमपुण्यसंयुतः अत्यन्तप्रकृष्टतीर्थकरनामादिलक्षणशुभकर्मसंयुक्तः, तथा भगवान् परमेश्वरः, तथैकान्तपरहितरतः सर्वथा परोपकारनिरतः, तथा विशुद्धयोगो निरवद्यमनोवाकायव्यापारः, तथा महासत्त्व उत्तप्रसत्त्व इति / ततः किमित्याह-यच्छिल्पादि, बहुगुणं प्रभूतोपकारं,किञ्चिद् दुष्टमपि, प्रजानां लोकानां, तच्छिल्पादिकम, ज्ञात्वाऽवगम्य, तथैव यथा लोकोपकारम्, दर्शयति प्रकाशयति, (ते त्ति) तान् प्रजाशब्दपर्यायान लोकान, रक्षतो बहुतराऽनर्थेभ्यः पालयतः, ततः शिल्पादिप्रकाशनात. यथोचितमौचित्येन, उचितं चावश्यवेद्यशुभवेदनीयचारित्रमोहादिकर्मो यदये वर्तमानस्य कलादिदर्शनत एव प्राणिसंरक्षणम्, ततः विरतिप्रतिपत्तौ तु संयमः, ज्ञानोत्पत्तौ च तीर्थप्रवर्त्तनादेवेति ।कथं केन प्रकारेण? भवेज्जायेत, दोषो दूषणम् / , न कथञ्चिदित्यथैः / इति गाथाद्वयार्थः // 36 // 37 // ननु शिल्पादिविधानेऽप्यारम्भदोषो दृष्ट एयस्त्यितः कथं तत्र दोष इत्याशङ्कयाऽऽहतत्थ पहाणो अंसो, बहुदोसनिवारणाउ जगगुरुणो। णागादिरक्खणे जह, कवणदोसे वि सुहजोगो॥३०॥