________________ चेइय १२६२–अभिधानराजेन्द्रः-भाग 3 चेइय भट्टारकः पुनस्तानि, निःसङ्गत्वादुपेक्षते / / 11 / / ततस्ते तापसाः स्वस्य, नायकस्य न्यवेदयन्। यथैव भवतामिष्टो, गोभ्यो नावति नो मठम् / / 12 / / ततः कुलपतिर्गत्वा, वभाण श्रीजिनं प्रति। कुमार भो! न युक्तं ते, मठस्योपेक्षेणं यतः / / 13 / / शकुन्तोऽपि निजं नीभ, रक्षत्येव यथाबलंम्। ततो गावो निवार्यास्ते, नाशयन्त्यो मठं तकम् / / 14 / / इत्येवं शिक्षयामास, सपिपासमसौ जिनम्। ततः स्वामी तदप्रीति, ज्ञात्वा निर्गतवांस्ततः // 15 // प्रावृषोऽतिगते पक्षे, अस्थिकग्राममाययौ / अप्रीतिपरिहाराय, यतेतैवं यथा जिनः / / 16 / / इति गाथार्थः / / 15 / / इदमेव निदर्शनमङ्गीकृत्योपदिशन्नाहइय सव्वेण वि सम्म,सकं अप्पत्तियं सइ जणस्स। णियमा परिहरियव्वं, इयरम्मि सतत्तविंता उ॥१६|| इत्येवं, भगवतेवेत्यर्थः / सर्वेणाऽपि समस्तेनाऽपि, जिनभवनादिविधानार्थिना संयमार्थिना च, न केवलमेकतरेणैवेत्यपिशब्दार्थः / अप्रीतिक परिहर्त्तव्यमिति योगः / कथं ? सम्यग् भावशुद्ध्या। किंभूतं तदित्याहशक्यं शक्यपरिहारत्वे न शकनीयं, नाशकनीयमपि, तस्य परिहर्तुमशक्यत्वादेव, (अप्पत्तियं ति) अप्रीतिरेवाप्रीतिक, सकृत्सदा, जनस्य लोकस्य, नियमादवश्यंतया, परिहर्त्तव्यं वर्जनीयम् , इतरस्मिन्नशक्यपरिहारेऽप्रीतिके, स्वतत्त्वचिन्ता तु स्वस्वभावपर्यालोचनमेव विधेयम् / तथाहि'ममैवाऽयं दोषो यदपरभवे नार्जितमहो, शुभं यस्माल्लाको भवति मयि कुप्रीतिहृदयः। अपापस्यैवं मे कथमपरथा मत्सरमयं, जनो याति स्वार्थ प्रति विमुखतामेत्य साहसा' / / 1 / / इति गाथार्थः।।१६।। व्याख्यातं शुद्धा भूमिरिति द्वारम्। पञ्चा०७ विवा०। द्वा० / षो०। अथ दलद्वारमधिकृत्याऽऽहकट्ठादी वि दलं इह, सुद्धं जं देवतादुवधणाओ। णो अविहिणोवणीयं, सयं च कारावियं जंणो // 17 // काष्ठादि दारुपाषाणप्रभृतिकम्, अपि शब्दस्योत्तरत्र संबन्धः / दलमपि जिनभवनोपादानद्रव्यम्, अपिशब्दो भूम्यपेक्षया समुचायार्थः / (इहेति) जिनभवनविंधौ, शुद्धमनवद्याम्, किं विधमित्याहयदिति दलम्, (देवयादुववणाउत्ति) इहादिशब्दस्यान्यत्र दर्शनाद्देवतोपवनादेरितिद्रष्टव्यम्। तेन देवतोपवनाव्यन्तरकानणात, आदिशब्दात्तद्भवनादिपरिग्रहः, तदानयने हि तस्याः प्रद्वेषसंभवात्, जिनायतनस्य तत्कारकादीनां व्याघातसंभवादिति। नो नैव, उपनीतमुपहितम, तथाऽविधिना द्विपदच- | तुष्पदानां शरीरादिसंतापजननद्वारेण, तथा स्वयं चात्मना च, कारितं वृक्षच्छेदेष्टकापचनादिभिर्विधापितम्, यद्दलम्, नो नैव, तत् शुद्धमिति। उक्तं च-"दलमिष्टकादि तदपि च, शुद्धं तत्कारिवगतः क्रीतम्। उचितक्रयेण यत्स्यादानीतं चैव विधिना तु“ ||1|| इति गाथार्थः / / 17 / / अथ दलस्यैव 'शुद्धाशुद्धत्वपरिज्ञानोपायं दर्शयन्नाह - तस्स वि य इमो णेओ, सुद्धासुद्धपरिजाणणोवाओ। तक्कहगहणादिम्मी, सउणेयरसण्णिवातो जो॥१५|| तस्य दलस्यापि, चेतिशब्दात् भूमेश्च, अयमेव वक्ष्यमाणः, ज्ञेयः ज्ञातव्यः, शुद्धाऽशुद्धपरिज्ञानोपायो निर्दोषसदोषत्वाधिगमहेतुः, तयोदलभूम्योः कथा च ग्रहणाय पर्यालोचो, ग्रहणं च परतः स्वीकरणं,तदादिर्यस्यानयनादेस्तत्तथा तत्र तत्कथाग्रहणादौ, शकुनेतरसन्निपातः साधकासाधकस्वीकृतादिनिमित्तः संबन्धो, यः स उपाय इति प्रकृतम् / इति गाथार्थः // 18 // शकुनाशकुनयोरेव स्वरूपोद्देशमाहणंदादिसुहो सद्दो, भरिओ कलसोऽत्थ सुंदरा पुरिसा। सुहजोगाइ य सउणो, कंदियसद्दादि इतरो उ||१९ नन्द्यादिनन्दीप्रभृतिः, तत्र नन्दी द्वादशतूर्यनिर्घोषः। तद्यथा"भंभा मउंद मद्दल, कलंव झल्लरि हुडुक्क कंसाला / वीणा वंसो पडहो, संखो पणवो य वारसमो" ||1|| आदिशब्दात् घण्टाशब्दादिपरिग्रहः / शुभः प्रशस्तः, स्वतन्त्र एव वा सिद्ध इन्द्र इत्यादिशास्त्रप्रसिद्धः / तथाहि-"सिद्धे इंदे चंदे, सूरनरिंदे तहेव गोविंदे / सेलसमुद्दे गयवस-ह सीह जह मेहसद्दे य' / / 1 / / शब्दो ध्वनिः, तथा भृतो जलपरिपूर्णः कलशो घटः अत्र व्यतिकरे, सुन्दराः प्रशस्ताकारनेपथ्याः, पुरुषा नराः, शुभयोगादि प्रशस्तचेष्टाप्रभृति, शुभचन्द्रनक्षत्रादि, संबन्धादि वा, चशब्दः समुच्चये। शकुनो विवक्षितार्थसिद्धिसूचकं निमित्तम्: क्रन्दितशब्दादि आक्रन्दध्वनिप्रतिषेधवचनप्रभृति, तु पुनः इतरोऽशकुन इत्यर्थः। तुशब्दः पुनरर्थः / स च संबन्धित एवेति गाथार्थः / / 16|| दलगतमेव विधिशेषमाहसुद्धस्स वि गहियस्स, पसत्थदियहम्मि सुहमुहुत्तेणं। संकामणम्मि विपुणो, विण्णेया सउणमादीया।।२०।। शुद्धस्याऽपि शकुनसन्निपातने निश्चितानवद्यत्वस्याऽपि, अशुद्धस्य ग्रहणमेव नास्तीति प्रतिपादनपरोऽपिशब्दः / गृहीतस्य स्वीकृतस्य, दलस्येति प्रकृतम् / कदा गृहीतस्येत्याह-प्रशस्तदिवसे नन्दादिकायां तिथौ, शुभमुहूर्तेन भद्राऽऽदिना शुभकालविशेषेण करणभूतेन, संक्रामणेऽपि गृहस्थानात् स्थानान्तरनयनेऽपि, न केवलं ग्रहण एव / पुनरपि भूयोऽपीत्यर्थः / विज्ञेया ज्ञातव्याः, निरूपणीया इत्यर्थः / शकुनादय:शकुनप्रभृतयः, आदिशब्दात् शुभदिनादिपरिग्रहः / इति गाथार्थः // 20 // गतं दलद्वारम् / पञ्चा०७ विव० / दर्श० / द्वा० / षो०। अथ भृतकानतिसंधानद्वारं प्रतिपादयन्नाहकारवणे विय तस्सिह, भितगाणतिसंधणं ण कायव्वं / अवियाहिगप्पदाणं, दिट्ठादिट्ठप्फलं एयं / / 21 / / कारापणे विधापने, अपि चेत्यस्य समुच्चयार्थत्वाद् दलग्रहणानयनादावपि चेति व्याख्येयम् / तस्य जिनभवनस्ज्ञय, इह द्रव्यस्तवाधिकारे, भूतकानां कर्मक राणां सूत्रधारादीनाम, अतिसंधानं वञ्चनं देयद्रव्यापेक्षया, न कर्त्तव्यं नैव विधेयम्, अपि चेति विशेषप्रतिपादनार्थः / अधिक प्रदान : प्रतिपन्नवेतनापेक्षया