________________ चेइय १२६१-अभिधानराजेन्द्रः-भाग 3 चेइय द्रव्ये द्रव्यतः, शुद्धा भूमिर्भवतीति प्रकृतम् / अथ द्वितीयामाहअ-- प्रीतिकरहिता अप्रीतिवर्जिता / इहाप्रीतिकशब्दस्यान्येषामित्येत्पदसापेक्षस्यापि समासः, तथा दर्शनादिति / अन्येषां परेषाम्, भवति वर्त्तते, भावे तु भावतः पुनः, शुद्धा भूमिरिति प्रस्तुतमेवेति गाथार्थः // 10 // विशिष्टजनाऽऽकीर्णप्रदेशे जिनभवनभूमिर्द्रव्यतः शुद्धा भवतीत्युक्तमन्यत्र पुनरशुद्धा भवति, दोषसंभवात्। अथैत्तद्दर्शयन्नाहअपदेसम्मिण वुड्डी, कारवणे जिणघरस्स ण य पूजा। साहूणमणणुवाओ, किरियाणासो उ अववाए॥११॥ अप्रदेशे, नञः कुत्सार्थत्वादलाक्षणिकत्वेनाशिष्टजनाकीर्णत्वेन वा कुत्सिते प्रदेशे, (कारवणे त्ति) कारणे विधापने, जिनगृहस्याऽर्हहन्निवासस्य, न वृद्धिर्नानुदिनं स्फातिर्भवति, अपलक्षणसामर्थ्यदसज्जनसामर्थ्याच्च। अत एव नच नैव, पूजा अर्चा तस्य भवति। जिनबिम्बपूजाऽपि जिनभवनपूजा विवक्षिता, बिम्बानां तदाश्रितत्वेनोपचारादिति / तथा साधूनां संयतानाम्, अननुपातोऽनागमनं, चैत्यवन्दनाद्यर्थ वेश्याषिङ्गादिभ्यो धर्मभ्रंशयात्, अथापतन्ति ते तत्र तदा यद्भवति तदाहक्रियानाशः स्वाचारभंशो विटचेष्टादर्शनवचनश्रवणादिभिः साधूनां भवति / तुशब्दः पुनरर्थो भिन्नक्रमश्च / अवपाते तु तत्रागमने पुनः / इति गाथार्थः / / 11 / / तथासासणगरिहालोए, अहिगरणं कच्छियाण संपाए। आणादीया दोसा, संसारणिबंधणा घोरा।।१२।। शासनगरे प्रवचननिन्दा, “एवंप्राया एव ह्येते जैनाः, ये वेश्यापाटकमद्यापणपाटकबूतखलकमत्स्यबन्धादिपाटकादिषु जिनायतनं विधापयन्ति'' इत्येवंरूपा / लोके जनमध्ये, तथाऽधिकरणं कलहो भवति, कुत्सितानां निन्द्यानां मद्यपप्रभृतीनां, संपाते समागमे सति / ते हि निवार्यमाणाः कलहायोत्तिष्ठन्ते। तथा अत्रैवाऽऽज्ञादयः, आज्ञाभङ्गानवस्थाप्यमिथ्यात्वविराधना दोषा भवन्ति / किंभूताः? संसारनिबन्धनाः भवहेतवः, घोरा दारुणाः / इति गाथार्धः ||12|| अकीला चेत्युक्तं, तत्र सकीलायां दोषमाह-- कीलादिसल्लजोगा, होति अणिव्वाणमादिया दोसा। एएसि वज्जणट्ठा, जइज्ज इह सुत्तविहिणा उ॥१३|| कीलदिशल्ययोगात् शिवकाङ्गारास्थिकप्रभृतिशल्यसंबन्धाद्, भवन्ति जायन्ते, अनिर्वाणादयोऽनिवृत्त्यर्थहान्यासिद्धिप्रभृतयः, दोषा दूषणानि, यस्मादेवं तस्मात्, एतेषामनिवृत्त्यादीनामुक्तदोषाणां, वर्जनार्थ परिहारार्थम्, यत्नं कुर्यात् / इह जिनभवनं प्रति द्रव्यतो भूमिशुद्धौ, सूत्रविधिना तु आगमनीत्यैवोक्तलक्षणयेति गाथार्थः / / 13 / / द्रव्यतो भूमिशुद्विरुक्ता, अथ भावतस्तामाश्रित्य यदुक्तमप्रीतिकरहितेति तत्र कारणमाहधम्मत्थमुज्जएणं, सव्वस्सापत्तियं ण कायव्वं / इय संजमोऽवि सेओ, एत्थ य भयवं उदाहरणं ||14|| धर्मार्थ जिनभवनोद्देशेन कर्मक्षयनिमित्तम्, उद्यतेनोधर्म कुर्वता, सर्वस्य समस्तस्य जघन्यादिजनस्य, अप्रीतिकमप्रेम, न कर्तव्यं न विधातव्यं, धर्मविरुद्धत्वादस्याप्रीतिनियोगाच्च जिनभवनविघातादिप्रवृत्ती दीर्घसंसारभाजनं भवन्तीत्यताऽप्रीतिकरहिता भावतः शुद्धा भवति भूमिरिति हृदयम्। न केवलं जिनभवनविधिरूपं धर्ममिच्छतापराप्रीतिकं न कार्य, किं तु इत्येवमप्रीतिवर्जनेन, संयमोऽप्याश्रवनिरोधोऽपि, आस्तां जिनभवनम्, श्रेयान् प्रशस्यः, अथ कथमयमर्थः सिद्ध इत्याहअत्र च इह पुनः, पराप्रीतिपरिहारेण संयमस्य श्रेयस्त्वे प्रत्येतव्ये, भगवान महावीरः, उदाहरणं ज्ञातम् / उदाहरणप्रयोगश्चैवम् ये संयमार्थिनस्ते पराप्रीतिकंन कुर्वन्ति, संयमार्थित्वादेव, यथा भगवान्। इति गाथार्थः / / 14 / / एतदेव दर्शयन्नाहसो तावसासमाओ, तेसिं अप्पत्ति मुणेऊणं। परमं अबोहिबीयं, ततो गतो हंतऽकाले वि।।१५।। स भगवान्, यः पूर्वगाथायामुदाहरणतयोक्तः, तापसाश्रमात्पाखण्डिकविशेषनिवासात्, तेषां तापसानाम्, अप्रीतिकप्रीतिम्, (मुणेऊणं ति)ज्ञात्वा, परममात्यन्तिकम्, अबोधिबीजं सम्यग्दर्शनाभावहेतुम्, ततस्तस्माद्यत्र तापसाश्रमे वर्षावासः कर्तुमारब्धः, गतो निर्गतः, "हंतेति' कोमलामन्त्रणे, प्रत्यवधारणेवा। अकालेऽपि साधूनां विहारासमयेऽपि, प्रावृषीत्यर्थः / विहारकालश्चासौ, यदाह-"नो कप्पइ निग्गंथाए वा निग्गथीण वा पढमपाउसंसि गामाणुग्गामं दूइञ्जित्तए / ' तथा-''दगबाहल्लत्तणओ,हरियतणाणं च बीहियाईसु / आयाविराहणाओ, न जई वासासु विहरंति।।१।।" काल एव किल गच्छन्ति साधव इत्यर्थसंसूचकोऽपिशब्दः, इत्यक्षरार्थः। भावार्थः कथानमगम्यः / तच्चेदम्"जिनः श्रीमान् महावीरो, वारितान्तरशात्रवः / प्राज्यं राज्यं परित्यज्य, प्रव्रज्या प्रतिपद्य च / / 1 / / निःसङ्गोऽतिमहासत्त्वः, सत्त्वाना रक्षणोद्यतः। ग्रामादिसंकुलां पृथ्वी ,छद्मस्थो विहरन्नसौ // 2 // मथुराकाभिधं ग्राम, संप्राप्तस्तत्र चाश्रयः / दूयमानाभिधानानां, पाखण्डिगृहिणामभूत् / / 3 / / तेषां कुलपतिर्मित्र-मासीद्भगवतः पितुः / महावीरमसौ दृष्ट्वा, संभ्रमेण समुत्थितः // 4 // स्नेहादालिङ्गनार्थाय, श्रीजिनस्य ततो जिनः / बाहुं प्रसारयामास, तं प्रति प्राक् प्रयोगतः // 5|| सोऽवोचत्सस्ति वेश्मानि, योग्यान्यत्राश्रमे तव / ततःकुमार! तिष्ठ त्व-मत्राथ जिननायकः / / 6 / / एकां तत्र स्थितो रात्रि-मन्यत्र गतवाँस्ततः / गच्छन्तं च जिनं स्नेहा-दवोचत्तापसाधिपः // 7 // यद्यत्र रोचते तुभ्यं, तदागत्य विधीयताम्। वर्षावासो जनस्यास्या-नुग्रहार्थं त्वया मुने! |8|| मासानष्टौ विहृत्याथ, तं ग्राममगमजिनः / उपागतासु वर्षासु, मठं चैकमुपाश्रितः।।६।। प्रारम्भे प्रावृषस्तत्र, प्राप्नुवन्ति नवं तृणम्। गोरूपाणि मठानां तत्, प्रचखादुः पुरातनम् // 10 // तापसा वारयन्ति स्म,तानि ते दण्डपाणयः।