________________ चेइय १२६०-अभिधानराजेन्द्रः-भाग 3 चेइय णामः प्रशंसादिरूपः, खलुक्यलङ्कारे, सर्वज्ञमते सर्ववेदिप्रवचनविषये, तदन्यविषयस्यातथाविधत्वात् / भवति जायते, परिशुद्धः, न पुनः परानुवृत्यादिदूषणोपेतत्वेनापरिशुद्धः, स एवासावेव, परिशुद्धः / शुभभाव एव, जायते संपद्यते, बीजमिव बीजं कारणम्, बोधेः सम्यग्दर्शनस्य; अयं चार्थः कथं समर्थनीय इत्याह-स्तेनहातेन चौरोदाहरणेन। तच्चेदम्"इहाभूतां नरौ कौ चि-दन्योऽन्यं दृढसौहृदौ। युवानौ साहसोपेत्तौ, चौरौस्वबलगर्वितौ / / 1 / / भोगलुब्धौ समस्तेच्छा-पूरकद्रव्यवर्जितौ। तौ च चौर्य व्यधासिष्टा, भोगवाञ्छाविडम्बितौ॥२|| दण्डपाशिकलोकेन, संप्राप्तावन्यदातकौ। नीयमानौ चतौ तेन, वध्यस्थानं तपस्विनौ // 3 // दृष्टवन्तौ मुनीन्मान्यान्, मानिमानवसंहतेः। साधूनां सत्क्रिया दृष्ट्वा, तयोरेको व्यचिन्तयत्।।४|| अहो धन्यतमा एते, मुनयो विमलक्रियाः। स्वकीयगुणसंदोहात्, जगतां पूज्यतां गताः / / 5 / / वयं पुनरधन्यानाम--धन्या धनकाङ्गया। विदधाना विरुद्धानि, वध्यतां प्रापिता जनैः / / 6 / / धिक्कारोपहतात्मानो, यास्यामः कां गतिं मृताः। ही जाता दुःस्वभावेन, लोकद्वयविराधकाः // 7|| तदेवंसाधु साधूनां, वृत्तं वारितकल्मषम्। विपरीतोमतोऽस्माक-मस्मात् कल्याणकं कुतः? |8|| अन्यः पुनरुदासीनो, भवति स्म मुनीनभि। गुणरागादवापैको, बोधिबीजन चापरः / / 6 / / ततस्तनुकषायत्वा दानशीलतया च तौ। नरजन्मोचितं कर्म, बद्धवन्तावनिन्दितम्॥१०॥ मृत्वा चतौ समुत्पन्नौ, कौशाम्ब्यां पुरिवाणिजौ। जातौ चानिन्दिताराचारी, वणिग्धर्मपरायणौ // 11 // जन्मान्तरीयसंस्कारा-दाबालत्वात्तयोरभूत्। अत्यन्तमित्रताभावो, लोकाश्चर्यविधायकः / / 12 / / रोचतेच यदेकस्य, तदन्यस्याऽपिरोचते। ततो लोक गतौ ख्याति-मेकचित्ताविमाविति / / 13 / / ततः कुलोचितं कर्म,कुर्वतोर्यान्ति वासराः। अन्यदा भुवनानन्दी प्राप्तस्तत्र जिनेश्वरः॥१४॥ भगवान् श्रीमहावीरः, इक्ष्वाकुकुलनन्दनः। वागनीरैर्जनसंताप--शमनेऽम्भोदसन्निभः ||15|| विदधुस्तस्य गीर्वाणाः, व्याख्याभूमिमनोहराम्। तत्राऽसौ धर्ममाचख्यौ, सनरामरपर्षदि|१६|| तमागतं समाकर्ण्य, कौशाम्बीवासिनोजनाः। राजादयः समाजग्मु-र्वन्दितुं तत्पदाम्बुजम्॥१७॥ तावपि श्रेष्ठिसत्सूनू, कुतूहलपरायणौ। जनेन सार्द्धमायातौ, जिननायकसन्निधौ॥१८॥ जिनस्तु देशयामास, मोक्षमार्ग सनातनम्। सत्त्वानां सर्वकल्याण-कारणं करुणापरः||१६|| ततस्तयोर्वणिकसून्दो-रेकस्य तजिनोदितम्। श्रध्दानमार्गमायाति, भाव्यतेऽथ समानसे।।२०।। स्फाराक्षो मस्तकं धुन्वन्, कर्णपर्णपुटार्पितम्। रोमाञ्चितः पिबत्युच्चै--र्जिनवाक्यं यथाऽमृतम्॥२१॥ तदन्यस्य तदाभाति, बालुकाकवलोपमम्। अन्योऽन्यस्य चतौ भावं,लक्षयामासतुस्तराम्॥२२॥ व्याख्याभुवः समुत्थय,जग्मतुर्भवनं निजम्। तत्रैको व्याजहारैव,यातस्त्वं भावितः किल // 23 // जैनवाचा न चाऽहं भोः! तदत्र किमुकारणम्? एकचित्ततयाऽऽख्याता-वावां लोक इयचिरम् // 24 // इदानीमत्र संजातं, विभिन्नं चित्तमावयोः। तदत्र कारणं किं स्या-दन्योवक्तिस्मविस्मितः।।२५|| सत्यमेवं ममाप्यत्र, विकल्पः संप्रवर्तते। केवलं केवली नूनं, निश्चयं नः करिष्यति॥२६|| स एव प्रश्रितोऽत्रार्थे, तद्यातास्वस्तदंन्तिके। एवं तौ निश्चयं कृत्वा, प्रातर्यातौतदन्तिकम्॥२७॥ पप्रच्छतुस्तमाराध्यं, विनयेन स्वसंशयम्। सोऽप्युवाच पुरैकेन, साधवो वां प्रशंसिताः॥२८॥ नचान्येन तदेकस्य, जातंबीजस्यतत्फलम्। तबोधरूपमन्यस्य,बीजत्वेन न चाभवत्॥२६॥ एवं पूर्वभवासेवां, जिनेनोक्ता सविस्तराम्। निशस्यैकस्य संजातं, जातेः संस्मरण क्षणात्।।३०।। ततोऽसौ प्रत्यये जाते, जातः संवेगभावितः। भावतश्च जिनोद्दिष्ट, प्रपेदे शासनं शुभम्॥३१॥ तत्प्रतिपत्तिसामर्थ्यात्, शुभकर्मानुबन्धतः। सिद्धिं यास्यत्यसौ काले,परःसंसारमेव हि।।३।। ततः स्थापितमेतेन, भावो जैनमताश्रयः। स्वल्पोऽपि जायते बीजं, निर्वाणसुखसंपदाम् / / 33 / / इति गाथार्थः॥८॥ एवं जिनभवनकारणाधिकारी सप्रसङ्गोऽभिहितोऽथाधिकृ तमेव जिनभवनविधिमुपदर्शयन्नाहजिणभवणकारणविही, सुद्धा भूमी दलं च कट्ठाई। मियगाणइसंधाणं, सासयवुड्डी य जयणाय Ill जिनभवनकारणविधिरुक्तशब्दार्थः, किंविध इत्याह-शुद्धा निर्दोषा, काऽसौ? भूमिः क्षेत्रं, तथा दलं चोपादानकारणं, किं-भूतम? काष्ठादि दारुपाषाणप्रभृति, शुद्धमिति प्रक्रमः। तथा भृतकानां कर्मकराणामनतिसन्धानमवञ्चनं भृतकानतिसन्धानम् / तथा स्वाशयस्य शोभनाध्यवसायस्य, स्वकीयाध्यवसायस्य वा, वृद्धिर्वर्द्धनं स्वाशयवृद्धिः, सा च / तथा यतना च यथाशक्ति गुरुदोषत्यागेतरदोषाश्रयणम्, सा च / च शब्दाः समुच्चयार्थाः। इह भूम्यादीनि जिनभवनविधेर-- गानीत्यङ्गाङ्गि नोरभेदोपचारात् जिनभवनविधिभूम्यादीनीति समानाधिकरणेनोक्तम्। इति द्वारगाथासमासार्थः। पञ्चा०७ विवाषोता धा द्वा० __ शुद्वा भूमिरित्युक्तमतस्तां दर्शयन्नाहदवे भावे य तहा, सुद्धा भूमी पएसऽकीला य। दव्वेऽपीतिगरहिया, अण्णेसिं होइ भावे उ॥१०॥ द्रव्ये द्रव्यमाश्रित्य, भावे भावमाश्चित्य, चशबदः समुच्चये / तथा ते न वक्ष्यमाणप्रकारेण विशिष्ट प्रदे शादिलक्षणे न, कि मित्याह शुद्धा भूमिर्निर्दोषा जिनभवनोचितभूः, द्विविधा भवति। तत्राऽऽद्यां तावदाहप्रदेशे विशिष्ट जनोचितभूभागे, तथा अकीला च शङ्करहिता / उपलक्षणत्वादस्थ्यादिशल्यरहिता च,