________________ चेइय १२५६-अभिधानराजेन्द्रः-भाग 3 चेइय विपर्यये विपरीतत्वे, अनधिकारिकारण इत्यर्थः। दोषो दूषणमशुभकर्मबन्धलक्षणम् / ननु संसारसरित्तरणतरकाण्डकल्पद्रव्यस्तवविधावपि कथं दोष इत्याह-आज्ञाभङ्गादेव आप्तवचनोल्लङ्घनादेव; आज्ञा चैवं द्रव्यस्तवं प्रति व्यवस्थिता-'अकसिणपवत्तगाणं, विरयाविरयाण एस खलु जुत्तो। संसारपयणुकरणे, दव्वत्थऍ कूवदिढतो / / 1 / / " अथाज्ञाभङ्गेऽपि कथं दोष इत्याह--धर्मो द्रव्यस्तवादिरूपः, आज्ञायामाप्तवचने, प्रतिबद्धो नियतो वर्तते यतोऽतस्तद्ङ्गे दोष एव, धर्माभावलक्षण इति गाथार्थः ।।सा आज्ञाप्रतिबद्धत्वमेव धर्मस्य दर्शयन्नाहआराहणाएँ तीए, पुण्णं पावं विरहणाए उ। एयं धम्मरहस्सं, विण्णेयं बुद्धिमंतेहि / / 3 / / आराधनया पालनया, पञ्चमीसप्तम्योर्वेकवचनं व्याख्येयम्। तस्या आज्ञायाः,पुण्यं शुभकर्मभवति। पुण्यं चधर्म एव, तद्धेतुकत्वात् पुण्यस्य। पापमशुभं कर्म भवति / विराधनया तु बाधया पुनः, आज्ञाया एव धर्मानिमित्ततां प्रति पुरस्करणायाऽऽह-एतदनन्तरोक्तमाराधनाविराधनारूपं विधिनिषेधद्वारेण, धर्मरहस्यं कुशलकर्मगुह्यम्, विज्ञेयं ज्ञातव्यम्, बुद्धिमद्भिः पण्डितैः, यतः पारलौकिकेषु विधिष्वाज्ञात एव प्रवृत्तिनिवृत्ती भवतः, प्रत्यक्षादीनां तत्राप्रवृत्तेः, अनाप्तवचनस्य च व्यभिचारित्वादिति / आह च-'यस्मात्प्रवर्तकं भुवि, निवर्त्तकं चान्तराऽऽत्मनो वचनम्। धर्मश्चैतत्संस्थो, मौनीन्द्रं चैतदिह परमम् / / 1 / / " इति गाथार्थः // 3 // तदेवं जिनभवनकारणविधानाधिकारिणं प्रस्ताव्य तमेव गाथायुग्मेन निदर्शयन्नाहअहिगारी उ गिहत्थो, सुहसयणो वित्तसंजुओ कुलजो। अक्खुद्दो धिइवलिओ, मइमं तह धम्मरागी य॥४॥ गुरुपूयाकरणरई, सुस्सूसाइगुणसंगओ चेव। णायाऽहिगयविहाण-स्स धणियमाणप्पहाणो य॥५॥ अधिकारी तु योग्यः पुनर्जिनभवनविधौ गृहस्थोऽगारी, न तु साधुः विशेषप्रतिज्ञारूढत्वात्तस्य / सोऽपि न सामान्यः, इत आह-शुभस्वजनोऽसंक्लिष्टबान्धवः। अशुभस्वजनो हि स्वजनानां लोकध-- मविरुद्धचारित्वेन न शुभभाववृद्धिमवाप्नोति, न च प्रवचनं प्रभावयितुमलम्। एतद्वयार्थमेव हि जिनभवनारम्भो विवेकिनामिति। सोऽपि वित्तसंयुत्तो द्रव्यपतिः, अनीदृशस्य हि तदारब्धमपि न सिद्धयति, तदसिद्धौ च खेदभाजनं भवति, पराभ्यर्थनाद्वारेण तत्सा–धयन्नपि जनहास्यो भवति-"अहो जिनभवनकारणव्याजेनायं कुटुम्यं पुष्णाति'' इतिसंभावनाहेतुत्वादिति / सोऽपि कुलजः प्रशस्यकुलजातोऽनिन्द्यकुलजातो वा। अन्यथाविधेन हि विहितं तन्नात्यन्तं लोकादेयं स्यादिति। सोऽप्यक्षुद्रोऽकृपणः,कृपणो ह्यौचित्येन द्रव्यव्यपकरणाशक्तत्वान्न तत्साधनाय, शासनप्रभवनाय चालम्। अथवाऽ क्षुद्रोऽक्रूरः। क्रूरेण हि परोपतापित्वाज्जनद्वेष्येण कृतं तदायतनं, तन्मत्सरेण जनद्वेष्यं स्यादिति। सोऽपि धृतिबलिकः चित्तसमाधानलक्षणसामर्थ्ययुक्तः। धृतिबलविहीनो हि द्रव्यव्यये पश्चात्तापान्न पुण्यभाजनं भवति। सोऽपि मतिमान् बुद्धियुक्तः, मतिविहीनो ह्यनुपायप्रवृत्तेर्न दृष्टादृष्टफलभाक् भवति / तथेति समुश्चये। सोऽपि धर्मरागी श्रुतचारित्रलक्षणधर्मानुरक्तः, धर्माननुरागी हयुक्तगुणकलापोपेतो न जिनभवनविधाने प्रवर्तते, प्रवृत्तावपि नाभिप्रेतफलसिद्धिभागिति नासावधिकारी। चशब्दः समुच्चयार्थ एवेति // तथा गुरवः पूज्याः, लौकिका लोकोत्तराश्च / लौकिकाः पित्रोदयो वयोवृद्धाश्च, लोकोत्तरास्तु धर्माचार्यादयः। तेषां पूजाक रणे यथोचितविनयाद्यर्चाविधौ, रतिरासक्तिर्यस्य स तथा, गुरुपूजाकरणरतो वा, एवंविधो हि जनप्रियत्वेन ससहायतया समारब्धसाधनसमर्थो भवति। तथा शुश्रूषादिगुणसङ्गत एव च, शुश्रूषा श्रोतुमिच्छा, तदादयोऽष्टौ गुणाः। तद्यथा-" शुश्रूषा श्रवण चैव, ग्रहणं धारणं तथा। ऊहापोहोऽर्थविज्ञानं, तत्त्वज्ञानं तु धीगुणाः ॥१॥'तैः समन्वितएव च। चैवशब्दो समुचयावधारणार्थी नियोजितावेव। एवंविधो हि शास्वसंस्कृतबृद्धित्वेनोपायज्ञतयेप्सितार्थसाधको भवति / अस्यैव विशेषमाहज्ञाता विद्वान्, कस्येत्याह-अधिकृतविधानस्य जिनभवनकारणविधेः; एवंविधन हि क्रियमाणं तद्विवक्षितार्थसाधकं भवति। तथा धनिकमत्यर्थम्, आज्ञाप्रधानश्चागमपरतन्त्रश्च; एतेन हि तत्कारितं लोकोत्तरक्रियत्वेन निर्वाणानं भवति। चशब्दः समुच्चयार्थः। इति गाथाद्वयार्थः // 5 // अथ कस्मादस्यैव गुणगणो मृग्यत इत्याहएसो गुणद्धिजोगा, अणेगसत्ताण तीऍ विणिओगा। गुणरयणवियरणेणं, तं कारिंतो हियं कुणइ // 6 // एषोऽनन्तरोक्तो जिनभवनविधानाधिकारी, गुणद्धियोगादनन्तरोक्तगुणश्रीयुक्तत्वात्, अत एव तस्या गुणद्धेर्विनियोगात्स्वकीये स्वकीये कार्ये व्यापारणाद्, अत एव गुणरत्नवितरणेन सम्यक्त्वबीजसम्यग्दर्शनादिलक्षणगुणमाणिक्यविश्राणनेन अनेकसत्त्वानामिति संबन्धनीयम्। तज्जिनभवनं, कारयन् विधापयन, हितं श्रेयः, करोति विदधाति, अनेकसत्त्वानामात्मनो वेति / अतो हितहेतुत्वाद् गुणगणोऽन्विष्यते। इति गाथार्थः // 6 // ___ गुणरत्नवितरणेनेत्युक्तं तत्पुरनरस्य यथा स्यात्तथा दर्शयन्नाहतं तह पवत्तमाणं, दर्दू केइ गुणरागिणो मर्ग / अण्णे उ तस्स बीयं, सुहभावाओ पवज्जत्ति // 7 // तं जिनभवनकारणाधिकारिणम्, तथा तेन प्रकारेणोक्तगुणानुरूपलक्षणेन, प्रवर्त्तमानं जिनभवनविधौ घटमानम्, दृष्ट्वा उपलभ्य, केचिदेकतमे जीवाः। किं विधाः? गुणरागिणो गुणपक्षपातिनः, तदन्येषां मार्गादिप्रतिपत्तेरसंभवात्मार्ग सम्यग्दर्शनादिकं मोक्षपथम्, प्रतिपद्यन्त इति योगः। अन्ये तु मार्गप्रतिपत्तृभ्योऽपरे पुनः, तस्य मार्गस्य, बीजं 'हेतुप्रवचनप्रशंसादिकम् / कुत इत्याह-शुभभावात् शोभनपरिणामाद् गुणानुरागरूपात, प्रतिपद्यन्ते समाश्रयन्ति, इति गाथार्थः // 7 // शुभभावाद् बीजं प्रतिपद्यन्त इति यदुक्तं तत्समर्थनार्थमाहजो चिय सुहभावो खलु, सय्वन्नुमयम्मि होइ परिसुद्धो। सो चिय जाइय बीयं, वोहीए तेणणाएणं ||6|| य एव जघन्यादिरूपतयाऽसामान्या, शुभभावः प्रशस्तपरि