________________ चेइय १२५८-अभिधानराजेन्द्रः-भाग 3 चेइय पातज्ञानेन केवलज्ञानादर्वाग् तदभिधानात्। उक्तं च-''द्रागस्मात्तदर्शनमिषुपातमात्रतो ज्ञेयम् / एतद्धि केवलं तद्, ज्ञानं यत्तत्परं ज्योतिः / / 1 / / इति। सत्यम् / तत्त्वतस्तदानीमेव संभवेऽपि योग्यतया प्रागप्युक्तौ बाधकाभावात् / शुक्लध्यानवत्, योगानुभवश्चात्र साक्षीति | किं वृथाऽऽडम्बरेण 1168||| उक्तमेव भावयन्नभिष्टौतिकिं बलैकमयी किमुत्सवमयी श्रेयोमयी किं किमु, ज्ञानानन्दमयी किमुन्नतिमयी किं सर्वशोभामयी। इत्थं किं किमिति प्रकल्पनपरैस्त्वन्मूर्तिरुद्रीक्षिता, किं सर्वातिगमेव दर्शयति सद्ध्यानप्रसादान्महः IIEI किं ब्रोकमयी ब्रह्मैव एकं प्रचुर स्यां सा, ब्रह्मणैकमयी ब्रह्मैकमयी, स्वरूपोत्प्रेक्षेयम् / एवमग्रऽपि किमुत्सवमयीत्यादौ उत्सवादयोऽपि ब्रह्मविवर्ता एव उत्प्रेक्षिताः, तेन नाक्रभदोषः, उत्प्रेक्षिते क्रमस्यातन्त्रत्वात्। यथा मनोराज्यमेव तत्र क्रमप्रवृत्तेः, 'ब्रह्मादयस्यान्वभवत्प्रमोदम्' इत्यादाविति बोध्यम्। इत्थममुना प्रकारेण, किं किमिति / प्रकल्पनपरैः कविभिः, त्वन्मूर्तिरुद्वीक्षिता सती, ज्ञानानिवर्तकस्य रूपस्य कुत्राप्यलाभात्, सद्ध्यानप्रसादान्निर्विकल्पकलयाऽधिगमात् किंशब्दमवगच्छति यत्तादृशं महः स्वप्रकाशज्ञानं दर्शयति / उक्तं च सिद्धस्वरूपं परमाणे-''सव्ये सरा णियहृति तक्का जत्थ णावि एज एयइ तत्थ एगाहिआओ एअप्पइट्टाणस्स से यन्नेसेण सद्धेण रुवेण'' इत्यादि स्वतःसिद्धता, तत्र च जिज्ञासेति सकलप्रयोजनमौलिभूतपरब्रह्मास्वादप्रदत्वाद्भगवन्मूर्तिदर्शनं भव्यानां परमहितमिति द्योत्यते / / 66 // प्रागर्थगर्भा स्तुतिमाहत्वद्रूपं परिवर्तता हृदि मम ज्योतिःस्वरूपं प्रभो!, तावद्यावदरूपमुत्तमपदं निष्पापमाविर्भवेत्। यत्रानन्दघने सुरासुरसुखं संपिण्डितं सर्वतो, भागेऽनन्ततमेऽपि नैति घटनां कालत्रयीसंभवि।।१०।। स्वान्तं शुष्यति दह्यन्ते च नयनं अस्मीभवत्याननं, दृष्ट्वा त्वत्प्रतिमामपीह कुधिया मित्याप्तलुप्तात्मनाम्। अस्माकं त्वनिमेषविस्मितदृशां रागादिषां पश्यतां, सान्द्रानन्दसुधानिमज्जनसुखं व्यक्तीभवत्यन्वहम्॥१०१|| मन्दारदुमचारुपुष्पपिकरैर्वृन्दारकैरर्चितां, सद्वृन्दाभिनतस्य निर्वृतिलताकन्दायमानस्य ते। निस्यन्दात् स्नपनामृतस्य जगतीं पान्तीममन्दायावस्कन्दात्प्रतिमां जिनेन्द्र! परमानन्दाय वन्दामहे / / 102 // (त्वद्रूपमिति) हे प्रभो! मम हृदि त्वद्रूपं तव रूपं परिवर्ततामनेकधा येन केन प्रकारेण परिणमतु, किंवत्? यावद् क्षीणकिल्विषमरूपं रूपरहितं, उत्तमपदं फलीभूतं साधनीभूतमप्रतिपाति, ध्याने नाविर्भवेत्तावत्, उत्तमपदमभिष्टौतियत्र यस्मिन्नानग्दघने आनन्दैकरसे, कालत्रयीसं भवि सर्वतः संपिण्डितमे कराशीकृतं सुरासुरसुखमनन्ततमेऽपि भागे घटनां नैति, अनन्तानन्तमित्यर्थः। यदार्षम्"सुरासुरसुहसमत्तं, सव्वद्धा पिंडियं अनंतगुणं। ण वि पावे मुत्तिसुहं-- ऽणंतेहि विवेगवग्गेहिं " // 1 // तथा-"सिद्धस्स सुहोरासी, सव्वद्धापिंडिओ जह हविजाः सोऽणंतवग्गभइओ , सव्वागासेण माइजा'। अत्र सर्वाद्धासंपिण्डनमनन्तवर्गभजनं, सर्वाऽऽकाशमानं चानन्तानन्तरूपप्रदर्शनार्थ , व्यावाधाक्षयसंजातसुखलवानामत्र मेलनाभावाद्वास्तवस्य निरतिशयसिद्धसुखस्य कालेन भेदस्य कर्तुमशक्यत्वात्, न हिन्यासीकृतधनकोटिसत्ता धनिनः कालभेदेन भिद्यते। तदाहुयौगिकाः"वावाहक्खयसंजायसुहलवभावमेल्लिज्जा। तत्तो अणंतरुत्तर-खयभावो वा तहाणयो।।१।। ण उतह भिन्नाणं चिय, सुखलवाणं तु एस समुदाओ। तेतह भिन्ना संभा-व खउवसम जाव जंहुति।।२।। णय तस्स इमो भावो,ण हुसुखं पिहुपरंतहा होइ। बहुविसलवसंजुत्तो, अमयं पि न केवलं अमयं / / 3 / / सव्वद्धासंपिंडण-मणंतवग्गभयणंजइत्थ सव्वग्गो। सव्वागासेण माणं, अणंतगुणदंसणत्थं तु॥४॥ तिन्नि चिय एस रासी,एगाणंतु ठाविया हुंति। हंदि विसेसेण तहा, अणतयाऽणतया सम्म॥५॥ तुल्लंच सव्वहेयं, सवेसिंहोइ कालभेएण। जहतंकोडीसतं,तहतंणाइसइसुहमाणं॥६॥ सव्वं पि कोडिकप्पिय मसभट्ठवणाइजं भवेठवियें। तत्तो तस्सुहसामी-ण होइ इह भेअओ कालो।।७।। जइ तत्तो अहिगं खलु, होइ सरूवेण किं वितो भेओ। ण हु अज्ज वासकोडी, समयाण पि सो होइ" ||8|| फलस्यानन्दघनत्वेन साधनस्यापि तथात्वं बोध्यम्, इत्थं चारूपध्यानरूपनिरालम्बनयोगायैव रूपस्तुतिरित्यावोदितं भवति। तथा च"प्रतिमा स्वल्पबुद्धीनाम्' इत्यादिदर्शनेनाऽपि न व्यामोहः कार्यः, निरालम्बनयोगादर्वाक् स्वल्पबुद्धीनामित्यादि तदधिकारसिद्धः, सालम्बनयोगसंपादकत्वेनैव तस्याश्चारितार्थत्वात् / अन्यथा केवलज्ञानकालाननुवर्ति श्रुतज्ञानमप्यनुपजीव्यं स्याद् देवानां प्रिंयस्येति न किञ्चिदेतदित्यर्थः।।१०२।। प्रति०॥ इति दर्शितं जिनप्रतिमाया आगमोपपतिभ्यां युक्तत्वम्। (24) तत्र जिनभवनकारणविधिःनमिऊण वद्धमाणं, वोच्छं जिणभवणकारणविहाणं / संखेवओ महत्थं, गुरूवएसाणुसारेणं // 1 // नत्वा प्रणम्य, वर्द्धमान महावीरम्, वक्ष्ये भणिष्यामि, जिनभवनकारणविधानमर्हदायतनविधापनविधिम्, संक्षेपतः समासेन, न पुनर्विस्तरतः पूर्वसूरिवत्, महार्थं बृहदभिधेयं, न तु संक्षिप्तत्वेनाल्पसूत्रतयाऽल्पार्थम्, गुरूपदेशानुसारेण आचार्यशिक्षाऽऽनुरूप्येण, न तु स्वोत्प्रेक्षिततया, व्यभिचारित्वाशङ्कया तस्यानादेयताप्रसंगादिति गाथार्थः।।१।। "जिनभवनकारणविधानं वक्ष्ये ' इत्युक्तं, जिनभवनं च येन कारयितव्यं, तमादौ तावन्निरूपयन्नाहअहिगारिणा इमं खलु, कारेयव्वं विवजए दोसो। आणाभंगाउ चिय,धम्मो आणाऍ पडिबद्धो / / 2 / / अधिकारिणा तत्कारणयोग्यतावतैव, इदं जिनभवनम्, खलुरवधारणे। तस्य च प्रयोगः प्रागुपदर्शित एव / कारयितव्यं विधापयितव्यम् / अथ कि मित्यधिकारिणैवेत्युच्यते? इत्याह