________________ चेइय १२५७-अभिधानराजेन्द्रः-भाग 3 चेइय सेयं ते व्यवहारभक्तिरुचिता शङ्केश्वराधीश! यद, दुर्वादिव्रजदूषणेन पयसा शङ्कामलक्षालनम्।। स्वात्माऽऽरामसमाधिबाधिनभवै स्माभिरुन्नीयते, दुष्यं दूषकदूषणस्थितिरपि प्राप्तैर्नयं निश्चयम्।।६६|| हे श्रीशङ्ग्रे श्वराधीश! सेयं ते तव उचिता व्यवहारभक्तिः व्यवहारनयोचिता भक्तिः, कृता इत्यर्थः। विधेयप्राधान्यानुरोधात् स्त्रीत्वनिर्देशः। यदुर्वादिनां व्रजः समूहस्तदूषणरूपेण, पयसा नीरेण, शङ्कारूपमलस्य क्षालनं व्यवहरन्तीहशिष्टाः, परसमयदूषणपूर्वं स्वसमयस्थापनस्य भगवद्यथार्थवचनगुणस्तुत्यो वासनं च / तदाहुः श्रीहेमसूरयः- “अयं जनो नाथ! तव स्तवाय, गुणान्तरेभ्यः स्पृहयालुरेव / विगाहतां किन्तु यथार्थवादमेकं परिक्षाविधिदुर्विदग्धः"|सा उदयनोऽपि सर्वप्रसिद्धमीश्वरमुद्दिश्य उपासनात्वेनैव करणीयतामाह / तदुक्तं न्यायकुसुमाञ्जलौतदेवं जातिगोत्रप्रवरचरणकुलधर्मादिवदासंसारं प्रसिद्धानुभवे भगवति किं निरूपणीयम्? तथाऽपि "न्यायचर्चेयमीशस्य, मनन्वयपदेशभाक्। उपासनैव क्रियते, श्रवणानन्तरागता " // 3 // यदीय व्यवहारभक्तिस्तदा निश्चयभक्तिः का? उच्चताम्, इत्याकाङ्क्षायामाहस्वात्मेति। स्वात्मैवाऽऽरामोऽत्यन्तसुखहेतुत्वानन्दनवनसदृशः, स्वात्मानमारामयति समन्तात् क्रीडयति तादृशो वा यः समाधिः शुभोपयोगरूपः संप्रज्ञातः, अपश्चिमविकल्पनिर्वचनद्रव्यार्थिकोपयोगजनितलेशतो वा संप्रज्ञातो लयरूपः, तेन बाधितो बाधितानुवृत्त्या स्थापितः, संसारो यैः, कुतस्तत्रितयानुगतो वादग्रन्थ इति ध्यानदशायां निश्चयभक्तिस्थितानामस्माकं सर्वत्र समये च परिणामो, व्युत्थाने व्यवहारभक्तौ तु परपक्षदूषणमसंभावनाविपरीतभावनानिरासायैव, एतेन रागद्वेषकालुष्यमित्यु-चितत्वमात्रं वेदितं भवति / / 66|| अथ साक्षात् स्तुतिमेवाह कतिपयैःदर्श दर्शमवापमव्ययमुदं विद्योतमाना लसद्विश्वासं प्रतिमामकेन रहित! स्वान्ते सदानन्द! याम्। साधत्ते स्वरसप्रसृत्वरगुणस्थामो चितामानमद्विश्वा संप्रति मामके नरहित! स्वान्ते सदानंदयाम्॥९७|| (दर्श दर्शमिति) अकेन रहित सर्वदुःखविप्रमुक्त, अत एव सदानन्द! संप्रति योग्यानन्द,! तेतव प्रतिमां मूर्तिम्। कीदृशीम्, सद्भावस्थापनामित्यर्थः / यां दर्श दर्श दृष्ट्वा 2 प्रतिप्रवर्द्धमानशुभपरिणामोऽहम्, अव्ययमुदं विगलितवेद्यान्तरपरब्रह्माऽऽस्वादसोदरशीतरसास्वादमवाप प्रापम्, कुत्र? स्वान्ते हृदये, कथम्? लसद्विश्वासं लसन् विश्वासो यत्र यस्यां क्रियायाम, अविश्वस्तस्य रमणीयदर्शनेनापि सुखानवाप्तेधर्मेऽपि सविचिकित्सस्य समाध्यलाभात्। तथा परमार्षम्-“मिच्छासमावन्नेण अप्पाणेणं " न लभते समाधिरिति। हे नरहित ! मनुष्यहितकारिन्,! सा तव प्रतिमा, संप्रतिदर्शनजन्यभावनाप्रकर्षकाले, मयि सदानं दयां धते,अभयदानसहितं दयावृत्ति पोषयति, ज्ञानोत्कर्षस्य निश्चयचारित्रस्य परमेश्वरानुग्रहजनितस्य तदुभयस्वरूपात, ज्ञानोत्कर्षश्चातिशयिता भावेनैवेति / दयां कीदृशीम्? स्वरसप्रसृत्वरं मनुष्यादि प्रवर्त्तमानं, यद्गुणस्थानं, तदुचितां तदनुरूपाम्, अनुग्राह्यानुग्राहकयोग्ययोयोस्तुल्यवृत्तित्वात् / अत एव "अनियोगपरोऽप्या गमः" इति योगाचार्यः / यन्मतपक्षप्रवृत्तौ निश्चयतश्चारित्रवान्, तेन चारित्रं लभ्यते इत्यर्थः / सा किदृशी? आनमद्विश्वा नमन् विश्वो यस्यां सा तथा, अत एव विद्योतमाना विशेषेण भ्राजमाना / यमकालङ्कारः।।१७।। त्वबिम्बे विधृते हृदि स्फुरति न प्रागेव रूपान्तरं, त्वद्रूपे तु ततः स्मृते मुवि भवेन्नो रूपमात्रप्रथा। तस्मात् त्वन्मदभेदबुद्ध्युदयतो नो युष्मदस्मत्पदोल्लेखः किञ्चिदगोचरंतुलसति ज्योतिः परं चिन्मयम्।।६८|| त्वबिम्बे हृदि विशेषेण धृते सति, प्रागेव सुतरां रूपान्तरमाकारान्तरं, न स्फुरति न स्मृतिकोटिमाटीकते, सदृशदर्शनविधावस्मारके त्वद्विम्बे तदन्यस्य स्मृतिपथारोहायोगात्, त्वद्विम्बमेवचतादृशं प्रकृतिरमणीयं, येनान्यबिम्बमेव दृक्पथं नागन्तुं दीयते, कुतस्तरांतदाकारिणि देवत्वम्, उपनीतदोषेणापि भावात्। अवदानाष्टसहस्रीविवरणे"यदेवैतद्रूपं प्रथममिह सालम्बनतया, तदेवध्यानस्थंघटयति निरालम्बनसुखम्। रमागौरीगङ्गावलयशरकुन्तासिकसिकतं, कथं लीलारूपं स्फुटयतु निराकारपदवीम्।।१।। अता लीलाऽस्येत्यपि कपिकुलाधीतचपलस्वभावोद्भ्रान्तत्वं विदधति परीक्षां हि सुधियः / नयद्ध्यानस्याङ्गं तदिह भगवद्रूपमपि किं, जगल्लीलाहेतुर्बहुविधमदृष्ट जनयति ?||2 // '' इति ततस्त्वबिम्बालम्बनध्यानानन्तररूपे ध्याते सति भुवि रूपमात्रप्रधानं भवेत्, सर्वेषां रूपाणां ततो निकृष्टत्वात्, सर्वोत्कृष्टत्वेनैव भगवद्रूपस्य ध्येयवात्। तदाहुः"सर्वजगद्धितंमतिशय-संदोहसमृद्धिसंयुक्तम् / ध्येयं जिनेन्द्ररूपं, सदसि गदनतत्परं चैव।।१।। सिंहासने निविष्ट, छत्रत्रयकल्पपादपस्याधः / सत्त्वार्थसंप्रवृत्तं, देशनया कान्तमत्यर्थम्।।२।। आधीनां परमौषध-मव्याहतमखिलसंपदां बीजम् / चक्रादिलक्षणयुतं, सर्वोत्तमपुण्यनिर्माणम्॥३॥ निर्वाणसाधनं भुवि, भव्यानामतुलमाहात्म्यम् / सुरसिद्धयोगिवन्धं, वरेण्यशब्दाभिधेयं च" |4|| इति तस्मात् त्वद्रूपध्यानाद् यद् द्रव्यगुणपर्यायसादृश्यं तेन यतस्त्वन्मदभेदबुद्ध्युदयः स्यात् / तदुक्तम्-"जो जाणदि अरहते' इत्यादि। ततः, युष्मदस्मत्पदोल्लेखोन भवति, ध्यातृध्यानध्येयानांत्रयाणामेकत्वप्राप्तेः / ततः किञ्चिदगोचरं, चिन्मयं ज्योतिः, परमनुपम, लसति, तद्ध्याने च क्षीणकिल्विषत्वान्नैश्चयिकद्रव्यगुणपर्यायसाम्यपर्यालोचनायां त्वमहं च लिख्येते, ततश्च भिन्नत्वेन ज्ञातयोरभेदस्यायोग्यत्वाज्ञानयुष्मदस्मत्पदयोर्वेदान्तरीत्याऽखण्डब्रह्मणि जहदजहल्लक्षणायामतुलं यद् निर्विकल्पकसाक्षात्काररूपज्ञानमाविर्भवति, भेदतया, अर्थव्युत्क्रान्ताभेदग्राहिद्रव्यार्थोपयोगेन वा, सोऽयमनालम्बनयोगश्चरमावञ्चकयोगप्राप्तिहिम्नि यद्दर्शनातद् भवति, सा भगवत्प्रतिमा परमोपकारिणी, तद्गुणवर्णन योगीन्द्रा अपि न क्षमाः, इत्यावेदितं भवति / ननु कथमर्वाग्दृशां भगवत्प्रतिमादर्शनाज्जातप्रमोदानां प्राणिनां संभवति, इषु