________________ चेइय १२५६-अभिधानराजेन्द्रः-भाग 3 चेइय किं व्रते न तदङ्गतां त्वधिकृतेऽप्यभ्रान्तमीक्षामहे ||4|| (पुण्यं कर्मेति) पुण्यं सरागकर्म, अन्यदरागकर्म, शास्त्रेषु धर्मायोदितं परिभाषितम्, इति शुद्धनयार्थं श्रुत्वा, न चात्र एवार्थो भिन्नक्रमश्च, नात्रैवेत्यर्थः / सुधियां पण्डितानाम्, एकान्तधीरेकान्ताभिनिवेशो युज्यते, एकनयाभिनिवेशस्य मिथ्यात्वरूपत्वादन्यनयविवारेण तस्य मूलोक्तवचनाच "धम्मकंखिए, पुण्णकंखिए'' इत्यादिधर्मः श्रुतचारित्रलक्षणः, पुण्यं तत्फलभूतं शुभं कर्मेति विवृण्वता वृत्तिकृता साधकफलेच्छाभेदेन भेदेऽपि श्रुतचारित्रभावान्यतरानुगतक्रियाणां धर्मत्वेनैव निश्चययोगव्यवहारनयेनाभ्युपगमत्वात्, गुडजिलिकया स्वर्गादीच्छाया अप्युपेयमोक्षेच्छाव्याघातकत्वेनाऽदोषत्वात् / प्रयाणभङ्गाभावेन शाश्वतसुखसमो हि सम्यग्दृशां स्वर्गलाभइति योगमर्मविदः। यद्चोक्तम्-- निश्चय एव रुचिः, साऽपि न युक्ता। हि यतः, तस्मादुक्तावान्तरनिश्चयात् (शुद्धतरमिति) शुद्धो नयो निश्चयः, चतुर्दशगुणस्थाने तचरमसमये इत्यर्थः। किंधर्म नब्रूते, तथा चैकान्ताभिनिवेशेततोऽर्वाग् सर्वत्राप्यधर्मः स्यात्। स चातिष्ठस्तत्राऽपीति भावः। शुभः निश्चयाऽभिमतधर्माङ्गभावेन प्रागपि धर्मव्यवहारनयेनाऽभ्युपगतो "उभयक्खयहेऊओ, सेलेसीचरमसमयभावी जो। सेसो पुण णिच्छ्य ओ, तस्सेव य साहगो भणिओ // 1|| इति धर्मसंग्रहणीप्रतीकपर्यालोचनादिति चेत्, तर्हि त्यक्तस्त्वया एकान्ताभिनिवेशः, आयातोऽसि मार्गेण, प्रत्यपद्यस्व द्रव्यस्तवेऽपि निश्चयधर्मप्रसाधकतया व्यवहारधर्मत्वं, माभूत्तव भ्रान्तिकृद्रूरासन्नत्वदिति भावः / प्रस्थकादिभावः प्रस्थकादिदृष्टान्तभावितविचित्रनैगमनयप्रवृत्तेश्चासद्धेतुत्वात् / तदाह-तदङ्गतां तु शुद्धनिश्चयांभिमतधर्माङ्गतां तु, अधिकृते द्रव्यस्तवेऽपि, अभ्रान्तं भ्रान्तिरहितमीक्षामहेऽतो विशेषदर्शितामस्माकं वचनेनैव त्वयैतत् तत्त्वं ध्येयमित्युपदेशे तात्पर्यम् / अयं च निश्चयनयः परिणतिरूपभावनाहककाष्ठाप्राप्तैवंभूतरूपः, येन शैलेशीचरमक्षणेशुद्धोधर्म उच्यते, अर्वाक् तु तदङ्ग तया व्यवहारान् कुर्वद्रूपत्वेन हेतुताऽभ्युपगमश्चास्यर्जुसूत्रतरुपप्रशाखारूपत्वात् / आह गन्धहस्ती 'मूलनिमेणं पज्जवणयस्स उज्जसुअवयणविच्छेदो। तस्स उ सद्दाईआ साहयसाहासुहमभेया' ||1|| उपयोगरूपं भावग्राहकनिश्चयनयस्तु द्रव्यस्तवकविशुद्धं धर्मस्वातन्त्र्येणैवाभ्युपैति, रागाद्यकलुषस्य वीतरागगुणलयात्मकस्य धर्मस्य तदाप्यानुभविकत्वात्, तन्मते हि शुद्धोधयोगो धर्मः, शुभाशुभी पुण्यपापात्मकाविति / यैरप्यात्मस्वभावो धर्म इत्युच्यते, तेषां यदि घटादिस्वभावो घटत्वादिधर्म इति मतं तदाऽनादित्वेनापुरूषार्थत्वापत्तिः। यदि तु स्वकीयो नागन्तुकोऽनुपाधिर्भावो धर्म इति, तदा वर्तमानः स्वकीयः शुभः परिणाम ऋजुसूत्रविषयः स जिनपूजायामप्यक्षत इति कथं न तत्र निश्चयशुद्धोधर्मः? शब्दनयेन सामायिकवद्देशविरतानां धर्मो नेष्यत इति चेत्, किं तावता समभिरूढ़े नषष्ठगुणस्थानेऽप्यनभ्युपगमावलिपरिणतोऽयःपिण्डो वह्निरितितद्भावपरिणत आत्मैव धर्मः, स्वभावपदप्रवृत्तिरपि तत्रैव स्वो भावः पदार्थ इति व्युत्पत्तेः / आह च"परिणमविनेण दव्वं, तक्कालं तम्मयं तिपण्णत्तं। तम्हा धम्मपरिणओ, अदो धम्मो मुणेअव्वो"।१ / इति / एतदप्यधिकृते संबन्धमेव इदं तु वितन्यते, आत्मनो धर्मिणो द्रव्यस्य निर्देशे धर्मद्वारा धर्मत्वम्, अन्यथाऽऽराध्यत्वमितिसंकरः कथं वारणीयः, प्रशान्तवाहिताख्यस्य / पर्यायप्रवचनस्यैव निवेशे तु प्रागुक्तो भेदधर्मः किं द्रव्यं पर्यायो वेति जिज्ञासायामित्थमुच्यते इति चेल्लक्षणाधिकारि नेदमुपयोगि, न चिन्ताधिकारी, नयद्वयनिर्देश एव युक्तेनैकनयनिर्देशः तूभयनिग्रहस्थानप्रसङ्गात् / यथोक्तं भगवता भद्रबाहुस्वामिना सामायिकमधिकृत्य"किं दारे जीवो गुणपडिवन्नो णयस्स दव्वट्ठियस्स / सामाइअ सो चेवं पज्जवणयडियस्स एस गुणो।"त्ति / एतदर्थप्रपञ्चोऽकृतानेकान्तव्यवस्थायाम्, एकनेयेनैव धर्मलक्षणे चाभिधातव्ये व्यवहारनयेन तत्प्रणयनमुचित, निश्चयनयाभ्यां प्रत्ययपरिणामैकान्तपरिणामकत्वेन दुष्टत्वात् / अत एव मूढ"तइअंकालियं' इत्याद्युक्तं, सर्वाशङ्कानिराकरणाय च नयद्वेन तत्प्रणयनं न्याय्यं, यथा प्रमादयोगात्प्राणव्यपरोपणं हिंसेति तन्वार्थशास्त्रे हिंसालक्षणमभिहितम्, इत्थं विचार्यमाणे च क्रियाहेतुः मुष्टिशुद्धिमचित्तं धर्म इति हरिभद्रोक्तं लक्षणमतिव्याप्त्यादिदोषाकलङ्कितं सर्वत्रानुगतं निरवंद्य संगच्छते, अधर्मश्चित्तप्रभव इत्यादि षोडशकं, तबत्तिश्चास्मत्प्रणीता योगदीपिकानाम्नी अनुसरणीया, यावानुपाधिविगमस्तावान् धर्म इत्यप्युभयोपाधिविगमो, नोभयनयानुगतं सर्वत्र सङ्गम्यमानं रमणीयमेव / "सेवंतो कोहं च माणं च मायां च लोभं च एस नासगस्स दसणं' इत्यादिसूत्रमप्यत्र प्रमाणमेव। "द्रव्यस्तवेतदिह भक्तिविधिप्रणीते, पुण्यं न धर्म इति दुर्मतिना कुबुद्धिः। तत्तद्नयैस्तु सुधियां विविधोपदेशः, संक्लेशभाग यदि जडस्य किमत्र चित्रम?||१|| अधर्मः पूजेति प्रलपति स लुम्पाकमुखरः, श्रयन्मिश्रं पक्ष तमनुहरते पाशकुमतिः / विधिभ्रान्तः पुराणं वदति तपगच्छोत्तमबुधः, सुधासारां वाणीमभिदधतिधर्मो ह्ययमिति।।२।।" ||4|| गम्भीरविचारे गुरुपारतन्त्र्येणैव फलवत्तां दर्शयन्नुपदेशसर्वस्वमाहइत्येवं नयमङ्ग हेतुगहने मार्गे मनीषोन्मिषेद, मुग्धानां करुणां विना न सुगुरोरुद्यच्छतां स्वेच्छया। तस्मात्सद्गुरुपादपद्मधुपःस्वं संविदानो बलं, सेवां तीर्थकृतां करोतु सुकृती द्रव्येण भावेन वा ||5|| इत्येवमभुना प्रकारेण, नया नैगमादयो, भङ्गाः संयोगाः, हेतवश्च उत्कृष्टाद्यपेक्षया दशपञ्चायेकावयववाक्यानि, तैर्गहने गम्भीरे, मार्गे स्वेच्छा स्वोत्प्रेक्षया, उद्यच्छतामुद्यमं कुर्वतां मुग्धानां, मनीषा बुद्धिः,सुगुरोः करुणां विना नोन्मिषेदत्र निराकाङ्क्षतया विश्रामे च तस्मात्सुद्गुरुपादपद्मे मधुपः सन, गुर्वाज्ञामात्रवर्ती सन्नित्यर्थः / स्वं बलंयोग्यतारूपं संविदानोजानन्। परस्मैपदिनः प्रत्ययस्य रूपमिदम्, पराभिसन्धिमसंविदानस्वत्येत्रेवेति बोध्यम्। द्रव्येण गृही भावेन सुकृती साधुस्तीर्थकृतां सेवा करोतु, यथाधिकारं भगवद्भक्तेरेव परधर्मत्वात्॥६५॥ एतत्सर्व प्रतिमाविषये भ्रान्तमिव दूषणं पुर इव परिस्फुरन्तहृदयमिवानुप्रविशन्तं सर्वाङ्गीणमिवालिङ्गन्तं समापत्यैकतामिवोपगत श्रीशङ्केश्वरपुराधिष्ठितं पार्श्वपरमेश्वरं संबोध्याभिमुखीकृत्यैव यत्रापि वादी संबोध्यस्तत्राप्यार्थिकी भगवतसंवुद्धिर्मयैवं तन्मतामृबाह्यो दूष्यत इति स्फुरितेयं पर्यवसन्नेति तत्रैव नयभेदमुदर्शयति