________________ चेइय १२५५-अभिधानराजेन्द्रः-भाग 3 चेइय यस्य हंसशिशुकाकशङ्किता, तं धिगस्तुजननीं च तस्य धिका७|| अस्तु वस्तुनयतो यथा तथा, पण्डिताय जिनवाग्विदे नमः। शासनं सकलपापनाशनं, यद्वशंजयति पारमेश्वरम्" |8|1|| (23) प्रतिमायाः प्रामाण्यनिरूपणम्। अत्रातिदेशेन कुमतशेष निराकुर्वन्नाहएतेनेदमपि व्यपास्तमपरे यत्प्राहुरज्ञाः परे, पुण्यं कर्म जिनार्चनादि न पुनश्चारित्रवद् धर्मकृत् / तद्वत्तस्य सरागतां कलयतःपुण्यार्जनद्वारतो, धर्मत्वं व्यवहारतो हि जननान्मोक्षस्य नो हीयते // 62|| एतेन शुद्धजिनपूजायाधर्मत्वव्यवस्थापनेन, इदमपिव्यपास्त निराकृतं, यत्परे अशा अनधिगतसूत्रतात्पर्याः प्राहुः किं प्राहुः? जिनार्चनादि पुण्यं कर्म न पुनश्चारित्रवधर्मकृत् धर्मकारणम्, व्यापासनहेतुगतिदेशप्राप्त स्फुटयतिहि यतः, तस्य जिनार्चनादिकर्मणः,तद्वत् चारित्रवत्, सरागता रागवत्तांकलयतोरागसहितस्य पुण्यार्जनद्वारतः शुभाश्रवव्यापारकत्वेन मोक्षस्य जननाद्व्यवहारतोधर्मत्वं न हीयते। अयं भावः-जिनार्चनादिकं पुण्यं कर्म स्वर्गादिकामनवा करणादिति साधनं न युक्तम्, भ्रान्तकरणे व्यभिचारात्। अभ्रान्तेरिति विशेषणे च विशेष्यासिद्धिः, न हि तादृशा जिनार्चनादिकं स्वर्गाय कुर्वन्ति, किंतु मोक्षायैवेति। अयं च मोक्षायैवतु घटते विशिष्टमतिरुत्तमः पुरुष इति स्वर्गार्थितया विहितत्वादिति हेतुरितिन्नाधिकारिणो विवेकिनः, सर्वत्र मोक्षार्थिन एवार्थसिद्धः, क्वचित्साधारण्येनैव फलोपदेशाच, आह वाचकः- "जिनभवनं जिनबिम्बं, जिनपूजां जिनमतं च यः कुर्यात्। तस्य नरामरशिवसुखफलानि करपल्लवस्थानि / / 1 / / " इति / एतेषामभ्युदयैकफलकत्वं हेतुरप्यस्ति असिद्धेः रागानुप्रवेशेन तत्त्वस्य च चारित्रेऽपि सत्त्यात्, स्वरूपतस्तत्त्वस्य चोभयत्रासिद्धः, निरवच्छिन्नयद्धविच्छेदेनाभ्युदयजनकता तद्धर्मावच्छेदे त्वर्थचारित्रस्य सरागत्वेनाभ्युदयजनकता, न स्वरूप इतिन दोष इति चेत्। ना द्रव्यस्तवत्वेनापि चारित्रजनकताघटितरूपेणाभ्युदयजनकत्वात्; विजातीययोगत्वेनैव द्रव्यस्तवस्य स्वर्गजनकतेति चारित्रस्याऽपि तथैव तत्वमिति तत्तुल्यतया पुण्यत्वे काङ्क्षति। अथ शिवहेतवो न भवहेतवो हेतुसङ्करप्रसङ्गादिति निश्चयनयपर्यालोचनायां सरागचारित्रकालीना योगा एव स्वर्गहतवः, तचारित्रं घृतस्य दाहकत्वं तद्व्यहारनयेनैव चारित्रस्वर्गजनकत्वोक्तरित्यस्ति विशेष इति चेत्। ना द्रव्यस्तवस्थतोऽपि निश्चयतो योगानामेव स्वर्गहेतुत्वं, न मोक्षहेतोद्रय॑स्तवस्येति वक्तुं शक्यत्वाद्दानादिक्रियास्वपि सम्यक्त्वानुगमजिनातिशयेन मुक्तिहेतुत्वात्। तदुक्तं विंशतिकायाम्-''दाणाइआउ एभम्मि चेव सुद्धा न हुंति किरिया उा एयाओ विहु जम्हा, मोक्खफलाओ पराओ य॥१॥ अन्यथा च तत्रापि योगानामेव निश्चयतः स्वर्गहेतुत्वमवशिष्यत इति चारित्रं शुद्धोपयोगरूपं योगेभ्यो भिन्नमित्यनुक्तनिश्चयविवेकोपपत्तिः, पूजादानादिकं तुन योगभिन्नमिति तदनुपपत्तिरिति चेत्। ना भावयया पूजादानादेरपीच्छाधुपयोगरूपत्वात्। अत एव पूजादा- | नादिकं मानसप्रत्यक्षगम्यो जातिविशेष इति परेऽपि सङ्गिरन्ते। वस्तुतो योगस्थैर्यरूपं चारित्रं महाभाष्यस्वरससिद्धमिति महता प्रबन्धेनोपपादिपातमध्यात्ममतपरीक्षायामस्माभिः। तथा च स्थिरयोगरूपस्य चारित्रस्य मोक्षहेतुत्वं, तदवान्तरजातीयस्य च स्वर्गहतुत्वं वैजात्यद्वारा कल्पनीयं तत्पूजादावपि तुल्यमिति // 62 आचार्य अप्येनां शंसति। लोकोत्तरलौकिकत्वाभ्यां धर्मपुण्यरूपत्वं तु पूजायामिष्यते इत्याहया ज्ञानाद्युपकारिका विधियुता शुद्धोपयोगोज्ज्वला, सा पूजा खलु धर्म एव गदिता लोकोत्तरत्वं श्रिता। श्राद्धस्याऽपि सुपात्रदानवदितस्त्वन्यादृशीं लौककीमाचार्या अपि दानभेदवदिमां जल्पन्ति पुण्याय नः ||3|| या ज्ञानादेः, आदिना सम्यक्त्वादिग्रहः; उपकारिका पुष्टिकारिणी, विधियुता विधिसहिता, तथा शुद्धोपयोगेन 'इमां भवतरणे नाविकरूपां भगवत्पूजां दृष्ट्वा बहवः प्रतिबुद्ध्यन्ता,षट्कायरक्षकाश्च भवन्त्वित्याद्याकारणोज्ज्वला, सा पूजा खलु भावपूर्विका असंमोहपूर्विका चेति धर्म एव गदिता, यतः लोकोत्तरत्वं श्रिता, एतादृशगुणप्रणिधानात् पूजाया आगमै कविहितत्वात्, कस्याऽपि?, श्राद्धस्याऽपि, किंवत्?, सुपात्रदानवत्। इतस्त्वन्यादृशीं लौकिकी सामान्यधर्मवचनप्राप्तां, नः अस्माकं, दानभेदवद्यानविशेषवत्, पुण्या जल्पन्ति, इच्छन्ति। तदुक्तं बिम्बसाधनमाश्रित्य षोडशप्रकरणे"एवंविधन यद्विम्ब कारणं तद्वदन्ति समयविदः। लोकोत्तरमन्यदतो, लौकिकमभ्युदयसारं च // 14 // लोकोत्तरं तु निर्वा-गसाधकं परमफलमिहाश्रित्य। अभ्युदयोऽपि हि परमो, भवति त्वत्रात्रानुषङ्गेण // 15 // कृषिकरण इव पलालं, नियमादत्रानुषङ्गिकोऽभ्युदयः। फलमिह धान्यावाप्तिः, परमं निर्वाणमिव बिम्बात् / / 16 / / " (षो०७विव०) एतचावाधकं, क्षमाऽऽदिभेदानामप्यलौकिकानामेवोत्तमक्षमणादेवेति सूत्रेण धर्ममध्ये ग्रहणादन्येषामर्थतः पुण्यत्वसिद्धेःलौकिकत्वाभिधानादेवेत्थभुपपन्नमा आह-"उवगारवगारिविवागवयणधम्मुत्तरा भवे खंती। साविक्खं अइरेगं, लोगिगमिहरं दुगं जइणो ||1 // " दानविशेषस्य पुण्यात्वं चानुकम्पादानादौ अल्पतरपापबहुतरनिर्जराकारणत्वेन सूत्रोपदिष्टस्य वादादिपुण्यमध्ये प्रोक्तं धर्ममध्येऽपि, तद्वत्पूजाऽपि स्यादिति परमार्थः // 63|| ननु पूजादानप्रवचनवात्सल्यदिकं सरागकृत्यं, तपश्चारित्रादिकं तु वीतरागकृत्यमिति विविक्तविभागः, तत्राद्यं पुण्यम्, अन्त्यं धर्मः स्यात्, अत एव धर्मपदार्थो द्विविधः, एकः सं ज्ञानयोगलक्षणो, अन्यः पुण्यलक्षण इति शास्त्रवार्तासमु चये हरिभद्रसूरिभिरुक्तं, ततो वाग्भौमिकस्य देवपूजादिकर्मणः कथं धर्मत्वं रोचयामः? तत्राह पुण्यं कर्म-सरागमन्यदुदितं धर्माय शास्त्रेष्विति, श्रुत्वा शुद्धनयं न चात्र सुधियामेकान्तधीयुज्यते। तस्माच्छुद्धतरं चतुर्दशगुणस्थाने हि धर्म नयः,