________________ चेइय १२५४-अभिधानराजेन्द्रः-भाग 3 चेइय पातात्, यत्तत्कात्कालीनासंयमोज्झनं शुभभावेनोक्तं तद्विधिभक्त्यन्तरवैगुण्य एव। अन्यथा स्वरूपासंयमस्य द्रव्यस्तवाप्तिरेकेणोज्झितुमशक्यत्वादनुबन्धिसंयमस्य चानुद्भवोपहतत्वाद्, द्रव्यस्तवस्याप्रधानत्वमपि स्वरूपत एव विधिभक्तिवसाद्, गुणोपबृंहितभावप्रवृत्तौ भावस्तवस्यैव साम्राज्यात्। इत्थमेव महाबुद्धिशालिना हरिभद्राचार्येणाऽभिहितं, तथाऽपि यस्य स्थूलबुद्धेर्मनसि नायाति तद नुकम्पार्थं तड्ग्रन्थपङ्क्तिरत्र लिख्यते-- "दव्वथओ भावथओ, दव्वथओ बहुगुणो त्ति वुद्धि सिया। अनिउणमइवयणमिणं,छज्जीवहिअंजिणा विति।।१।। द्रव्यस्तवो भावस्तव इत्यत्र द्रव्यस्तवो बहुगुणः प्रभूततरगुण इति एवं बुद्धिः स्यात्, एवं चेन्मन्यसे इत्यर्थः। तथाहि-किलास्मिन् क्रियमाणे वित्तपरित्यागात् शुभ एवाध्यवसायः, तीर्थस्योन्नतिकरणं दृष्ट्वा तं च क्रियमाणमन्येऽपि प्रतिबुध्यन्ते इति स्वपरानुग्रहः, सर्वमिदं सप्रतिपक्षमिति चेतसि निधाय द्रव्यस्तवो बहुगुण इत्यस्यासारताख्यापनायाह-अनिपुणमतिवचनमिदमिति / अनिपुणमतेर्वचनमनिपुणमतिबचनम्, इदमिति द्रव्यस्तवो बहुगुणमिति गम्यते। किं च-- षड्जीवहितमित्यत आह-षड्जीवहितं जिना बुवते षण्णां पृथिवीकायादीनां जीवानं हितं, जिनास्तीर्थकरा ब्रुवते / प्रधान मोक्षसाधनमिति गम्यते। किं च षड्जीवहितमित्यत आह"छज्जीवकायसंजमें, दत्थएँ सो विरुज्झए कसिणो। तो कसिणसंजमविऊ, पुप्फाईआ ण इच्छंति"||१|| षड्जीवकायसंयम इति, षण्णां जीवनिकायानां पृथिव्यादिलक्षणानां, संयमः संहननादिपरित्यागः षड्जीवकायसंयमः। असौ हि यदि नामैवं ततः किमित्यत आह-द्रव्यस्तवे पुष्पादिसमभ्यर्चनलक्षणे, षड्जीवकायसंयमः, किम्? विरुध्यते न सम्यक्संपद्यते, कृत्स्नः संपूर्ण इति, पुष्पादिसंलुञ्चनसंघटनादिना कृत्स्नसंयमानुपपत्तेः / ततश्चैवं न स्यात्, कृत्स्नसंयमविद्वांस इति, कृत्स्नसंयमप्रधाना विद्वांसस्ततः साधव उच्यन्ते। कृत्स्नसंयमग्रहणमकृत्स्नसंयमविदुषां श्रावकाणां व्यपोहार्थम् / ते किम्? अत आह-पुष्पादिकं द्रव्यस्तवं नेच्छन्ति, यदुक्तं द्रव्यस्तवे क्रियमाणे सचितपरित्यागात् शुभ एवाध्यवसाय इत्यादि, तदपि यत्किञ्चिद्यभिचारात् कस्यचिन्दसत्त्वस्याविवेकिनो वा शुभाध्यवसायानुपपत्तेः। दृश्यते च कीाद्यर्थमपि सत्त्वानां द्रव्यस्तवे प्रवृत्तिरिति शुभाध्यवसायभावेऽपि तस्यैव भावस्तवत्वादितरस्य च तत्कारणत्वेनाप्रधानत्वमेव, "फलप्रधानाः समारम्भाः" इति न्यायात्। भावस्तवत एव तस्य सम्यक्त्वादिति पूज्यत्वात्तमेव दृष्ट्वा क्रियमाणमन्येऽपि सुतरां प्रतिबुद्ध्यन्ते शैक्षा इति स्वपरानुग्रहोऽपीहैवेति गाथार्थः / आह-यद्येवं किप्रयं द्रव्यस्तव एकान्तत एव हेयो वर्तते, अहोस्विदुपादेयोऽपि। उच्यते-साधुना हेय एव. श्रा वकेणोपादेयोऽपि तथा चाह भाष्यकार:"अकसिणपवत्तगाणं, विरयाविरयाण एस खलु जुत्तो। संसारपयणुकरणो, दव्वत्थएँ कूवदिट्ठतो''||४२।। अकृत्स्नं प्रवर्तयन्तीति, संयममिति सामर्थ्याद् गम्यते, अकृत्स्न- | प्रवर्तकाः, तेषां विरताविरतानामिति श्रावकाणामेष खलु युक्तः, एष द्रव्यस्तवः, खलुशब्दस्यावधारणार्थत्वात् युक्त एव। किंभूतोऽयमित्यत आह-संसारप्रतनुकरणः, संसारक्षयकारक इत्यर्थः। द्रव्यस्तवा हेयः प्रकृत्यैवासुन्दरः, स कंथं श्रावकाणामपि युक्त इत्यत्र कूपदृष्टान्त इति। "जहा णवणगराइसन्निवेसे केइ पभूयजलाभावतो तण्हाविपरिगता तदपनोदार्थं कूपं खणं ति, तेसिं जइ वि तण्हादिया वड्डति, मट्टिकाकद्दमाईहिं अमलिणइज्जति, तहा वितदुढभवेणं चेवपाणिएणं तेसिं तण्हादीनां सो अमलो पुव्वगो य फिट्टइ त्ति, सेसकालं च ते तदण्णे य लोगा सुहभागिणो भवंति, एवं दव्वत्थए जइ वि असंजमो तहा वितओ चेव सा परिणामसुद्धी भवति। जा तं असंजमोवञ्जियं अण्णं च णिरवसेसं खवेति त्ति, तम्हा विरताविरतेहिं एस दव्वत्थओ कायव्वो सुभाणुबंधी पभूतणिजराफलो अतिका-ऊणम्" इति गाथार्थः। अत्र हि द्रव्यस्तभावस्तवक्रिययोः स्वजन्यपरिणामशुद्धिद्वारा तुल्यवन्मोक्षकारणत्वमास्तां ततफलकालव्यवधानाभ्यां तु विशेषः क्रियायाः सत्त्वशुद्धिकारणतावच्छेदकोटौ च प्रणिधानादिना तत्पूर्वकत्वं निवेश्यते "भावोऽयमनेन विना, चेष्टा द्रव्यक्रिया तुच्छा' इति वचनात्। ऋजुसूत्रादेशेनापि क्रियायामतिशयाधानभावेनेवेति या द्रव्यक्रिया तुच्छेति शुभानुबन्धे प्रभूतनिर्जरां जनयेत् सा कथमसंयममिति विचारणीयमान चैकत्वात् प्रदीपरूपप्रकाशकार्यद्ववदुत्पत्तिकारणान्तराननुप्रवेशात्न हि पापपुण्योपादानकारणशुभाशुभाध्यवसायस्थानयोगपचं संभवति, तस्मात्कथञ्चित्पदद्योत्ययतनासमावेशादेव तत्रासंयमोपपत्तिस्तच्छोधनमदि परिणामशुद्ध्या भवतीति सम्यग्मनस्यनियतं, यथा द्रव्यस्तवस्य गृहाश्रमरूपधर्माधिकारितावच्छेदकासदारम्भकर्मापनयनसदारम्भक्रियाव्यक्तिरिति कूपदृष्टान्तोपादानमत्र, नापवादपदादौ मुनयः, प्रधानाधिकारिण एवाङ्गेऽधिकारादिति तत्त्वम्। "अयमिति विशदो विचारमार्गः, स्फुरति हृदि प्रतिभावतां मुनीनाम्। जड मतिवचनैस्तु विप्रलब्धाः, कति न जडास्तदहो कलिर्बलीयान्।।१।। निजमतिरुचितप्रकल्पितेऽर्थे, विबुधजनोक्तितिरस्क्रियापराणाम् / श्रुतलवमतिदृप्तपामराणा, स्फुरितमतं समुदीक्ष्य विस्मिताः स्मः।।२।। विधिवदनुपदं विवृण्वते ज्ञो, नयगमभङ्गगभीरमाप्तवाक्यम् / कथमिव मलिनाद्विनिश्चितार्थं, तदिदमहो न पुनर्जनहीतम्?||३|| शिष्ये मूढे गुरौ मूढे, श्रुतं मूढमिवाखिलम्। इति शङ्कापिशाचिन्यः, सुखं खेलन्तु बालिशैः।।४।। स्फुटोदर्के तर्के स्फुटमभिनवे स्फूर्जति सतामियं प्राचां वाचां न गतिरिति मूढः प्रलपति। न जानीते चित्रां नयपरिणतिं नापि रचनां, वृथागर्वग्रस्तश्छलमखिलमन्वेति विदुषाम्॥५॥ शोभते न विदुषां प्रगल्भता, पल्लवज्ञजडसंज्ञिपर्षदि पञ्जरे बहुलकाकसंकुले, संगता न हि मराललाना / / 6 / / कृष्णतासिततयोः स्फुटेऽन्तरे, गीभीरिमगुणे च भेदिनि।