________________ चेइय १२५३-अभिधानराजेन्द्रः-भाग 3 चे इय समितिगुप्तिसंपन्नो घोरपरीषहोपसर्गसहनदृढशक्तिमान संन्यस्तसरिम्भपरिग्रहः सदानिरवद्योपदेशदाता वाङ्मात्रेणाऽपि सावद्यतन्मिश्राननुमोदकः परडगभीरचेताः संप्राप्तभवपार इति। एतद्हताशस्य डतम् / संमूर्छिताऽन्येक्षितघातयतोः सर्वविरताविरतयोरत्यन्तभेदाभावाद् बालत्वव्यपदेशनिबन्धनाविरतेरुभयत्राऽविशेषात् पापस्थानत्वविभाजकोपाधिव्याप्यविषयताका विरतिः सर्वतोऽप्यविरतत्वे द्रव्यतो हिंसादिव्यावृत्तमिथ्यादृष्टिष्ववव्याप्तेः, सम्यक्त्वाभावस्यैव सर्वतोऽविरतत्वपरिभाषणे च सम्यग्दृष्टिव्यावृत्तावप्येक भेदानुगुण्याभावात्फलासिद्धेः / किं चैवं सम्यग्दृष्टिरपि मिथ्यादर्शनविरत्यविरतिभ्यां मिश्रपक्षपातः / इष्टापत्तिरत्र- 'एगच्चाओ मिच्छादसणसल्लाओ पडिविरयाए० जाव अप्पडिविरयाए जाओ अप्पडिविरया" इति पाठस्वरसादिति चेत्। न / तस्याकारानाकारादिविषयत्वेन मूलगुणविरत्यभावापेक्षयैवाविरतेर्व्यवस्थापितत्वात्, सम्यक्त्वाभावेन विरतिरेवेतितु कृतमेव भाषितं, का तवाऽऽहोपुरुषिका? एतेन तृतीयभङ्गोऽपि विलूनशीर्षः, संपूर्णश्रद्धाने चाविरतेरेवैकस्याः साम्राज्यात्। यत्किञ्चिदर्थाश्रद्धाने तु "एकस्मिन्नप्यर्थे संदिग्धेऽर्हतितु निश्चयो नष्टः" इति न्यायात् संपूर्णश्रद्धानाभावान्मिथ्यात्वस्यैवावस्थितेः। चतुर्थे भङ्गे तु सैव मिथ्यादिसंक्षेपरुचिसम्यक्तवाभावाद्देशतो विरत्या देशविरतिःसंपन्नेति केयं वाचोयुक्तिर्यदुत सर्वतो विरताविरतिः? ननु देशविरतिविशेषपरिज्ञानाभावेऽपि तादृशसम्यक्त्वेन माषतुषादीनां सर्वविरतिरप्यखण्डा प्रसिद्धेति किमपराद्धं देशविरत्या? येनास्य तद्वता नभवेत्। एवं वदतश्च सिद्धान्तलेशमपि नाघ्रातवान हताशः। तथा चोक्त भगवत्याम-"से नूणं भंते! तमेव सव्वं णीसंकं , जं जिणेहिं पवेइअं?' हंता गोयमा! तमेव सव्वा से नूणं भंते! एवं भणे धारेमाणे एवं पकरेभाणे आणाए आराहए भवति?हंता गोयमा! तंचेव''त्तिा जीवविशेषपरिज्ञानाभावेन मूलतः सम्यक्त्वाभावोक्तौ षट्काय-परिज्ञानवतोऽपि स्याद्वादसाधनानभिज्ञस्य न सम्यक्त्वमित्युपरितनोद्दिष्ट तव सर्वमिन्द्रजालायते। तदुक्तं सम्मतौ-'छज्जीवनिकाए सद्दहमाणो न सद्दहइ भावा / इंदी अपज्जवेसुं, सद्दहणा होइ अविभत्ता''।१।प्रकरणोक्तिरियमिति चेत्, किमुत्तरादावपि नाराधितां स्पृशति। तदुक्तम्-'"दावाण सव्वभासा, सव्वयमाणेहि जस्स उवलद्धा। सव्वाहि णयविहीहि, विरतरुई यत्ति णायव्वो"||१|| त्तिविशेषाभावेऽपि सामान्याक्षतिश्चावयोस्तुल्या। एवं "ण इमं सक्कमागारमावसंतेहिं'' इत्यादिनाऽपि न व्यामोहः कार्यः। सूत्रस्य नयगम्भीरत्वान्नयगतेश्च विचित्रत्वात् / इह तु तव दुस्तरवारिबुडनभयं स्यात्।यदेतत् भक्तिरागेण देवपूजाप्रवृत्तावारम्भात् संयमक्षत्या कथं देशविशतित्वेन भक्तिरागेण संजमापरिगणनाद्विरत्या-विरतिरेव न देशविरतिरिति, तत्तु महामोहाभिनिवेशेनागणितपरलोक-भयस्य तवैव दुस्तरवारिकृताय, असदारम्भपिरत्यागेन सदारम्भप्रवृत्तौ शुभयोगः, संयमक्षतिभयाभावात्, भक्तिरागस्य प्रशस्तत्वे दोषाभावात्त-स्यैव च दोषत्वेन विदुषोऽपि बलात्प्रवृत्तिप्रसङ्गात्। न हि विद्वानपि रागौत्कट्यादसंयमेन प्रवर्त्तते, श्रमणोपसकानांदेशविरतानां पृथगगुणवर्णनाद्विरताविरतेभ्यस्तेऽतिरच्यन्ते इति चेत्, अहो बालिश! केनेदं शिक्षितम्? किं करुणया विप्रलब्धोऽसि, स्वकर्मणा वा? सूत्रे हि- "एगच्चाओ पाणाइवायाओ अपमिविरया जावाजीवाए" "एमचओ अप्पडिविरया''इत्यन्वयः। "से जहानामए समणोवासगा भवंति" श्रमणोपासकगुणवतो विरताविरतगुणवद्व्यापकत्वस्यैव लाभाद्वस्तुतः श्रमणोपासकपदेन विरताविरतपरिचरणाद् गुणस्थानविशेषावच्छिन्ने शक्तिग्रहतात्पर्य श्रमणोपासकपदाद् बुद्धिविशेषानुगतैर्गुणविशेषैरेव बोधे विरतप दादपि व्युत्पत्तिविशेत्तथैव बोधः समभिरूढनयाश्रयणेन विरताविरतश्रमणापासकपदार्थभेदस्त्वयाऽभ्युपगम्यते चेदेवं घटकुम्भादिपदार्थभेदोऽपि किं नाभ्युपगभ्यत एव, परविभाजकोपाधिभेदाप्रयुक्तत्वेन विभागाननुकूल इति चेत्, प्रकृतेऽपि दीयतां दृष्टिः, "अकसिणपवत्तगाणं" इत्यादिमहानिशीथप्रवचनाद् द्रव्यस्तंवाधिकारिणो विरताविरताः, न देशविरताः इति चेत् महानिशीथध्वान्तविलसितमेतद्देवानां प्रियस्या तत्र हि विशिष्य देशविरतकृत्यमेतद्दानादिचतुष्कं तुल्यफलं चेति व्यक्तमुपदर्शितमेवाधस्तात् / यत्तु कृत्स्नसंयमविदां पुष्पाद्यर्चने नाधिकारात् श्रमणोपासका अपिन तदधिकारिण इति तदधिकारित्वेनोक्ता विरताविरता एवेति चेत्, अहो भवान् पामरादपि पाभरोऽस्ति , यः कृत्स्नसंयमविद इत्यस्य वृत्तिकृदुक्तमर्थमपि न जानाति। कृत्स्नसंयमाश्च ते विदो विद्धांस इत्येव हि वृत्तिकृता विवृतमिति। यदि च श्रमणोपासकमहिमलब्धकृत्स्नसंयमपरिज्ञानेन देशविरताः पुष्पाद्यर्चनेनाधिकुर्युः, तदा देवा अपि कृतजिनादिसेवाः पुस्तकर-- नवाचनोपलब्धर्मव्यवसायाः सम्यक्त्वोपबृंहितनिर्मलावधिज्ञानेनागम्य व्यवहारप्रियाः कथं तन्नाऽपि कुर्युः? अतएवार्चितपुष्पा-दिभिरेव ते जिनपूजां कुर्वन्तीति चेत्, अहो लुम्पकमातृष्वसः! केनेदं तव कर्णे सूचतिं, यन्नदीपुष्करिणीकमलादीन्यचित्तान्येवेति सचित्तपुष्पादिना पूजाध्यवसाये द्रव्यतः पापाभ्युपगमेऽचित्तपुष्पादिना ततो भावतः पापस्य दुर्निवारत्वात् महिषव्यापादन इव शौकरिकस्य किमिति मुग्धबन्धनार्थ कृत्रिमपुष्पादिना पूजां व्यवस्थापयसि। एवं हि स्नानजलादिनैवाभिषेकोऽपि वाच्यः, मूलत एव निषेधे किं न भाषसे दुरन्तसंसारकारणं धर्मारम्भशङ्काम? तदाहुः श्रीहरिभद्रसूरयःअण्णत्थारंभवओ, धम्मेणारंभओ अणाभोगा। लोए पवयणवसा, अवो हिवीयं ति दोसाय।।१।।' इन्द्राभिषेके जलादिग्रहणं जिनपूजार्थं तु तत्रत्यस्यैवेत्यत्र तु कारणं मङ्गलार्थत्वनित्यभक्त्यर्थत्वादिनी, मा विप्रियं कुरु, अभिगमवचनं तु योग्यतया भोगाङ्ग सचित्तपरिहारविषयं, यथा घटमाहरेत्यत्र घाटपदं योग्यतया छिद्रेतरविषयम्। अन्यथा सबालकस्त्रियो मुनिवन्दने नाभिगच्छेयुः। चैत्यवन्दनभाष्यादौ चाभिगमेऽचितद्रब्योज्झनं श्राद्धानां पुष्पादिनापूजाविधानां चोक्तमिति किमुपजीव्य विरोधेनाभिगम इति खङ्गच्छत्रोपानत्प्रभृति चिहद्रव्यं ध्वजादिरपरित्याज्यं स्यात्, प्रवचनशोभानुगुणाचित्तद्रव्योपादानमेव द्वितीयार्थ इति चेत्, पूजाद्यवसारे तदनुपयोगिसचित्तद्रव्योज्झनमेव प्रथमार्थ इति किं न दीयते दृष्टिः, येन शाकिनीव वाक्बलमेधाममन्वेषयसि, पुष्पवद्दलविकुर्वणमपि विकरणमात्रसंपादनार्थम्, अधोवृत्तजलस्थलजपुष्पविकरणस्यैव पाठसिद्धत्वात्पूजाङ्गे सचित्तशङ्का तद् दृष्टान्तेनानेया। एते न यदुत्प्रेक्षितं जातिसङ्करवता पूजायामादौ पुष्पाद्युपमर्दादधर्म एव, तदनन्तरं शुभभावसंपत्त्या तुधर्म इति धर्माधर्मसंकर एवेति। तन्निरस्तम्। एवं हि यागे हिंसया प्रागधर्ममुत्तराङ्ग दानदक्षिणादिना त्वनन्तरं धर्म वदतः सब्रह्मचारिता