________________ चेइय १२५२-अभिधानराजेन्द्रः-भाग 3 चेइय प्रणंसि वा अणुप्पण्णसि वा वहुई भत्ताइं अणसणाए पचरकाएंति, पञ्चरकाएंतित्ता बहुइं अणसणाइं छेदेति, छेदें तित्ता आलोइअपडिक्कता समाहिपत्ता कालमासे कालं किच्चा अण्णयरेसु देवलोएसु उववत्तारो भवंति / तं जहा-महड्डिएसुमहज्जुइएसु० जाव महासुखेसु सेसं तहेव० जावएसट्टाणे आयरिए०जाव एणतसम्म साहू तचस्स ठाणस्स मिस्सगस्स विभंगे एवमाहिए" ति / अथ स्थानत्रयमुपसंहारद्वारेण संक्षेपतो विभणिषुराह-"अविरइं पडुच वाले आहिलइ, विरइं पहुच पंडिए आहिजइ, विरताविरतिं पडुच्च वालपंडिए आहिज्जइ, तत्थ णं जा सा सव्वतो अविरतिए एसट्टाणे आरंभट्ठाणे अणारिए०जाव सव्वदुक्खप्पहीणमग्गे एगंतसम्म साहू, तत्थ णं जा सा सव्वतो विरताविरती एसट्ठाणे आरंभाणारंभट्ठा आरिए० जाव सव्वदुक्खप्पहीणमग्गे एगंतसम्मे साहू, एवामेव समणुगम्ममाणा इमेहि चेव दोहिं ठाणेहिं समो अवतरंति / तं जहा-धम्मैचव अधम्मे चेव उवसंते चेवअणुवसंतेचेव।" (सूत्र०२श्रु०२ अ०) आह च-मिश्रपक्षो मिथ्यादृशामधर्मपक्ष एव, सम्यग्दृशां श्राद्धानामपि स धर्मपक्ष एवेति व्यक्तं फलत: प्रतीयते, साधुश्राद्धमार्गयोः सर्वदुःखप्रक्षीणमार्गत्वात् / यथा च मिथ्यादृष्टेः द्रव्यतो विरतिरपि सम्यक्त्वाभावादविरतिरेव बालशब्दव्यपदेशनिबन्धनं स्यात्, तथा सम्यग्दृष्टः धर्मकर्मणि द्रव्यतोऽविरतिरपि विरतिकार्यांशिकपाण्डित्यव्यपदेशप्रतिबन्धिका न स्यात्, द्रव्यतयैव निष्फलत्वादिति सूक्ष्ममीक्षणीयम् / अविरतिविषयाणामष्टादशानामपि स्थनानामेकतरांशस्य सत्त्वेऽपि तत्प्रतिपक्षस्य धर्माशस्योत्कटत्वेधर्मपक्ष एव विजयते; अन्यथाऽविरतिसम्यग्दृष्टिकस्याऽपि पक्षस्य स्थानं न स्यात् / ततश्च यन्निष्कृष्योक्तम्-"तत्थ णं जे से पढमस्स ठाणस्स अहम्मपक्खस्स विभंगे एवमाहिजइ तस्सणं इमाइं तिन्नितेवट्ठाईपावाओ असयाई भवंति त्ति अक्खाइयं / जहाकिरियावाईणं, आणाणियवाईणं, वेणइअवाईणं ति' तद्विमर्श परस्य गगनमालोकनीयं स्यात् / न हि तीर्थकृद्दृष्टानुगत आचारो धर्मः स्वसमयानुगतश्च धर्मः प्रतीयते इति||६|| एतत्सर्वमभिप्रेत्य भक्तिरागप्रतिवन्द्या द्रव्यस्तवेधर्मप क्षबलात्परमङ्गीकारयन्नाहहिंसांशो यदि दोषकृत्तव जड! द्रव्यस्तवे केन तन्मित्वं यदि दर्शनेन किमु तोगादिकालेऽपि न / भक्त्या चेत् न तु साऽपि का यदि मतो रागो भवाङ्गं तदाहिंसायामपि शस्तता तु सदृशीत्यत्रोत्तरं मृग्यते ||11|| (हिंसांश इति) हे जड! यदि द्रव्यस्तवे हिंसांशो दोषकृन्मिश्रत्वकृत, तदा केन तन्मिश्रत्वं कृतं स्यात्? चेत् यदिभक्त्या मिश्रत्वं त्वयोच्यते तर्हि साऽपि भक्तिरपि रागोमतस्तदा भवाङ्गम्, रागद्वेषयोरेव संसारमूलत्वात्तदाऽऽभ्यां संसारान्तर्गताभ्यां धर्मपक्षश्चोत्कटः स्यादिति को मिश्रावकाशः?प्रशस्तरागत्वाद्भक्तिर्भवाङ्गमिति चेत्, तर्हि द्रव्यस्तवानुगतहिंसायामपि शस्तता सदृशी; अत्र तव किमुत्तरमिति मृग्यते? अत्र च सम्यगुत्तरं वर्षसहस्रेणापि न परेण दातुं शक्यमिति मोक्षार्थिभिरस्मदुक्त एव पन्थाः श्रद्धेयः / एतेन षट्पुरुषीप्रदर्शनेन श्रमणोपासकानां न द्रव्यस्तवाधिकार इति का पुरुषस्य पार्श्वस्थस्य मतं निरस्तम् / एवं हि तत्-सर्वतो विरतः१, अविरतः,२,विरताविरतः 3. सर्वतो विरताविरतः 4, श्रमणोपासको देशविरतः 5, सर्वविरतश्च 6 इति तावत् षट् पुरुषा भवन्ति / तत्र सर्वतो विरतः स उच्यते, यः कुगुरुकुदेवकुधर्मश्रद्धावान् सम्यक्त्वलेशेनाऽप्युत्सृष्टमनाः, यमुद्दिश्य-"इह खलु पाइणं वा०४ संतेगइआ मणुआ भवति / तं जहा महिच्छा महारंभा'' इत्यादि सूत्रं वृत्तम्।१। अविरतस्तु स उच्यते, यः सम्यक्त्वालङ्कृतोऽपि मूलोत्तरभेदभिन्नो विरतिं पालयितुमसमर्थो जिनप्रतिमामुनिवैयावृत्त्यकरणाशातनापरिहारादिना भूयः प्रकटितभक्तिरागः 12 / विरताविरतश्च स उचते, यः पूर्णसम्यक्त्वाभाववानपि स्वोपचितान् सर्वव्रतनियमान् विभर्ति / 3 / सर्वतो विरताविरतश्च स उच्यते, यस्य मनसि "तमेव निस्संतु णीसंके, जंजिणेहिं पवेइअं।" इति परिणामः स्थिरो भवति, परं मनसः प्रमादपारतन्त्राद् भूम्ना साधुसङ्गमाभावात्परिपूर्णं जिनभाषितं न जानीते, कुलक्रमावतां च विरतिं पालयति, पूर्व संयमज्ञानाभावादारम्भेन जिनपूजां करोति भक्तिरागपारवश्यात्, तत एव संयमवानयमिति या यावता कृत्येन संयमः पालयितुं न शक्यते तावानेवाविरतिभागः श्रुते भणित इति। यमुद्दिश्येदं सूत्रम्-" इह खलु पाइणं वा संतेगइआ मणुआ भवंति / तं जहा–अप्पिच्छा अप्पारंभा'' इत्यादि। चतुर्थभङ्गस्त्वविरत्यपेक्षया स्तोकस्याविरत्या तृतीयो भङ्ग इति विवेकः।।४।। श्रमणोपाशको देशविरतश्च स उच्यते, यः श्रमणोपासनमहिम्ना प्रतिदिनप्रवर्द्धमानसंवेगो यावज्जीवं सूक्ष्मबादरादिभेदपरिज्ञानवान्तत एवास्थिमज्जप्रेमानुरागरक्तचित्तो देशविरतिं गृहीत्वा पालयति सम्यक्त्वसहितव्रतग्रहोत्तमभङ्गरङ्गश्चोभयकालआवश्यकं कुरुते, स एव संयम जानीते। उक्तं चानुयोगद्धारसूते-"समणेण सावएण य, अवस्स्कायव्वयं हवइ जम्हा। अंतो अहोणिसीए, तम्हा आवस्सयं नाम''||१|| दशवैकालिके च--"जो जीवे विवियाणेइ, अजीवे वि वियाणइ जीवाजीवे वियाणतो, सो हुणाहिइ संजमं / / "एनमेवोद्दिश्य-"से जहाणामए समणोवासगा भगवंता अभिगयजीवाजीया' इत्यादि सूत्रं प्रवर्तते। अयमेव शुद्धजिनप्रतिमानुचितं संयममाद्रियते, हिंसां परिहृत्य जिनविरहे जिनप्रतिमा पूजयति, संयमज्ञो ह्यसौ षट्कायहिंसां परिहरति / अत एवोक्तं महानिशीथे-'अकसिणपवत्तगाणं, विरया-विरयाण एस खलु जुत्तो / जे कसिणसंयमविऊ पुप्फाईअंन कप्पए तेसिं।।१।।'' आवश्यकनिर्युक्तावपि--"जे कसिणसंयमविऊ, पुप्फाईअंण इच्छंति / " इत्यत्र साधुश्रावकयोर्द्वयोरविशेषेण कृत्स्नसंयमज्ञत्वपुष्पादिपरिहारेण पूजाधिकारे तादवस्थ्यमुक्तम्, तत्रैकतरपक्षपातो न श्रेयान्, किं चात्र कारणमिति विचारणीयम्। यदीन्द्राभिषेककरणे सुपर्वाणोऽहमहमिकमौदारिकजलपुष्पसिद्धार्थादीनि गृह्णन्ति, जिनपूजां तु तेनोपचारेण कुर्वन्तीति सुरपुष्पेष्वत्र संभवोऽम्लानत्वं च हेतुश्चेद, हिंसापरिहार एवायं धर्माभ्युदयाय प्रगल्भा, समवसरणे च वैक्रियाण्येव पुष्पाणि देवाः प्रभोरगे देशनावसरे व्याकिरन्ति, मण्यादिरचनाप्यचित्तै वोक्तं राजप्रश्नीयोपाङ्गे-'पुप्फबद्दलयं विउव्वं ति" इत्यादि नवकमलरचनाप्यचित्तैव ज्ञेया तथामाना, वन्दनाद्यधिकारे पञ्चविधाभिगमविधी सचित्त द्रव्योज्झनमुक्तमस्ति, जिनभवनप्रवेशेऽपि चैत्यवन्दनभाष्यादावयं विधिरुक्तोऽस्तीति, ततो निरवद्यपूजैव देशविरतस्य संभवतीति श्रद्धेयम्। सर्वविरतश्च स उच्यते-योगृहीतपञ्चमहाव्रतः