________________ चेइय १२५०–अभिधानराजेन्द्रः-भाग 3 चेइय शुभत्वमशुभत्वं वा जनयति, आश्रवः कर्मणो जीवः, तस्य स कोऽपि स्वभावो येन शुभान्यतः परत्वेन परिणमयन्नेव कर्म गृह्णाति, तथा शुभाशुभत्वयोः कर्म, तस्यापि स कोऽपि स्वभावः येन शुभाशुभपरिणामान्वितेन जीवेन गृह्यमाणमेव तद्रूपतया परिणमयति / उपलक्षणमेतत्-प्रदेशाल्पबहुभागवैचित्र्यादेः। उक्तं च कर्मप्रकृतिसंग्रहिण्याम्"गहणसमयम्मिजीवो, उप्पाएई गुणे सपच्चयओ। सव्वजिआनंतगुणे, कम्मपएसेसु सव्वेसु"। आउयभागो थोवो'" इत्यादि / / 1643|| "परिणामासयवसओ, धेणए जह पओ विसमहिस्स। तुल्लो वि तदाहारो, तह पुण्णपुण्णपरिणामो।। 1644 / / जह वेगसरीरम्भि वि, सारासारपरिणामयामेति। अविसिट्ठो आहारो, तह कम्मसुहासुहविवागो ||1645 / / ननु न्यायस्तावमुग्धानां कूटपाशप्राय इत्यभिन्नसूत्रादेशेन श्राद्धानां मिश्रपक्षोऽस्त्येवेति पश्यतस्तदधिकृतद्रव्यस्तवस्य मिश्रत्वं रोचयाम इति चेत्, अहो दुराशयसिद्धान्ततात्पर्थपरिज्ञानमनुपासितगुरूकुलस्य तव कथंकारं संभवति? तथाहि- व्यवहारनयादेशेन बन्धानौपयिक पक्षत्रयोपवर्णनं कृतं, संग्रहनयादेशेन तु फलापेक्षया द्वैविध्यमेवेति पूजापोषधयोः को वा विशेष:?||६|| श्राद्धानां मिश्रपक्षस्य भेदोऽस्त्येतदभिप्रायवानाहसिद्धान्ते परिभाषितो हि गृहिणो मिश्रत्वपक्षस्ततो, बन्धानौपयिको विरत्यविरतिस्थानात्तदुत्प्रेक्षया, अन्तर्भावित एव सोऽपि पुरतो धर्मे फलापेक्षया, पूजापोषधतुल्यताऽस्य किमु न व्यक्ता विशेषेक्षिणाम्? 60 | (सिद्धान्त इति) सिद्धान्ते सूत्रकृताख्ये, हि निश्चितं, ततो मिश्रत्वपक्षो बन्धनौपयिकः बन्धाननुगुणः विरत्यविरतिस्थानात् योऽनुगमस्तदुत्प्रेक्षया, स्वरूपमात्रेणेति यावत् / परिभाषितः संकेतितः, सोऽपि परिभाषितमिश्रपक्षोऽपि, पुरतोऽग्रे फलापेक्षया धर्मेऽन्तर्भावितः, ततोऽस्य गृहिणः, विशेषेक्षिणां विशेषदर्शिनां, पूजापोषधयोस्तुल्यता, किमुनव्यक्ता?, अपितुव्यक्ता। वाग्व्यवहारतो मिश्रपक्षस्य, निश्चयतश्च धर्मत्वस्य, सूत्रकृते हि पक्षत्रयव्याख्यानावसरे-"अदुत्तरं च णं पुरिसविजयं विभगमाइक्खिस्सामि, इह खलु नाणापन्नाणं नाणाछंदाणं नाणासीलाणं नाणादिट्ठीणं नाणारुईणं णाणारंभाणं नाणाावसायसंजुत्ताणं नाणाविहपावसुअज्झयणं एवं भवति। तं जहा-भोमं उप्पायं। "इत्यादिना पापश्रुताध्ययनाद्यर्थं तत्प्रयोगेण सुरकिल्विषादिभावनया तल्लोकोत्पादितश्रुतस्येडमूकादिभावोत्पादेन गृहिणां चात्मस्वजनाद्यर्थचतुर्दशभिरसदनुष्ठानैः; तथाहि-कश्चिदकार्याध्यक्सायेनानुगच्छतीत्यनुगामिको भवति, तं गच्छन्तमनुगच्छतीत्यर्थः / अथवातस्यापकारावसरापेक्ष्युपचारको भवति, अथवा तस्य प्रतिपथिको भवति, प्रतिपंथं संमुखनमागच्छतीति। अथवा स्वजनाद्यर्थं संधिच्छेदको भवति, खात्रखननादिकर्ता भवतीत्यर्थः / अथवा घुघुरादिना ग्रन्थिच्छेदकभावं प्रतिपद्यते, अथ सौरभ्रे मैषैश्चरतीति / सौरभ्रिकः, अथवा शौकारिको भवति, अथवा शकुनिभिश्चरति शाकुनिकः अथवा वागुरया मृगादिबन्धनरज्या चरति वागुरिकः, अथवा मत्स्यैश्चरति मात्स्यिकः, अथवा गोपालकभावं प्रतिपद्यते, अथवा गरघातकः स्यात्, अथवा श्वभिश्चरति, सोऽवनिशुनां परिपालको भवतीत्यर्थः / अथवा 'सोवणिअंतए' श्वभिः पापर्द्धि कुर्वन्मृगादीनामन्तं करोतीत्यर्थः / इति अन्यहननतया सापराधगृहपतिदानादिना तत्संबन्ध्युष्ट्रजवाच्छेदादिना तच्छा--लादाहादिनात्रत्संबन्धिकुण्डलाद्यपहारेण वा पाषण्डिकोपरि क्रोधेन तदुपकरणापहारतदाहारदाननिषेधादिना निर्मितमेव गृहपतिक्षेत्रं . दानादिनाऽभिग्रहिकमिथ्यादृष्टितयाऽपशकुनधिया श्रमणानां दशनोपघातापसरणेन तदृष्टावसरास्फालनेन च, स्फटिकादानेनेत्यर्थः / परुषवचनप्रहारैः परेषां शोकाद्युपादनादिना महारम्भादिना भोगभवाश्लाघया चैश्वर्यात, अत्र भावे महातृष्णावतामधर्मपक्ष उक्तः / उपसंहृतश्च-"एसट्ठाणे अणारिए अकेवले अपडिपुन्ने असंसुद्धे अणेयाए असल्लगत्तणे असिद्धिमग्गे अमुत्तिममो अणिव्वाणमग्गे अणिज्झाणमग्गे असव्वदुरकप्पहीणमग्गे एगतमिच्छे असाहू एस खलु पढमरस ठाणस्स अहम्मपक्खस्स विभंगे एवमाहिए त्ति"।। अदः स्थानमनार्यमनाचीर्णत्वात्, नास्ति केवलं यत्रेत्यकेवलमशुद्धमित्यर्थः / अपरिपूर्ण सद्गुणविरहात्, इत्थमनैयायिकमसन्न्यायवृत्तिकम-सल्लगत्वमिन्द्रियासंवरणरूपम्, 'रगि लगि संवरणे ' इति घातोः शोभनो लगः सल्लगस्तद्भावस्तत्त्वं, नास्ति स यत्रेतिव्युत्पत्तेः / यद्वा शल्यं गायति कथयतीति शल्यगः, तद्भावस्तत्त्वं, नास्ति तद् यत्र तदशल्यगत्वम्, सिद्धिः स्थानविशेषो, मुक्तिरशेषकर्मक्षयः, निर्वाणं निःशेषतया भवपरित्यागेन यानं, निर्ध्यानमात्मस्थानापत्तिः, सर्वदुःखस्य प्रक्षीणं प्रत्यक्षः, तन्मार्गाभावादसिद्धिमार्गादिपदानि व्याख्येयानि / कृत एवमित्यत्र"आहरणं च'' इत्यादि एकान्तेनैव तत्स्थान, यतो मिथ्याभूतं मिथ्यात्वोपहतबुद्धिस्वामिकत्वात् अन्तरसाध्वसवृत्तित्वात् / तदयं प्रथमस्य स्थानस्याधर्मपाक्षिकस्य पापोपादानभूतस्य विभङ्गो विशेषः, स्वरूपमिति यावत्, एवमाहृत एवमुपदर्शितः / धर्मपक्षस्त्वेवमतिदिष्टः "अहावरे दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिज्जइइह खलु पाईणं वा पडीणं वा० संतेगइआ मणुस्सा भवंति। तं जहाआरिआ वेगे अणारिया वेगे उच्चागोआ वेगे, नीआगोआ वेगे, कायमंता वेगे, हस्समंता वेगे, सुवण्णा वेगे, दुवण्णा वेगे, सुरुवा वेगे, दुरूवा वेगे। तेसिंच खेत्तवत्थूणि परिगहिआइ भवंति / एसो आलावगो जहा पुंडरीए तहा णेथव्बो, तेणेव अभिलावेण जाव सव्वोवसंता सव्वत्ताए परिनिव्वुम त्ति वेमि। एसट्टाणे आरिए केवले जाव सव्वदुक्खपहीणभग्गे एगतसम्मेसाहू दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिए त्ति / " तृतीय स्थानमधिकृत्य एवं सूत्रं प्रवृत्तम्-"अहावरे तचस्स ट्ठाणस्स मीसगस्स विभंगे एवमाहिजइ, जे इमे भवंति आरन्निया आवसहिया गामणिअंतिया कण्हुई हस्सियाजाव ते तओ विप्पमुचमाणा भुजोएलमुयत्ताए पञ्चायति, एस हाणे अणारिए अकेवले जाव असव्वदुक्खप्पहीणमग्गेअसाहूएस खलु तचस्स ठाणस्स मीसगस्स विभंगे एवमाहिए त्ति।" साम्प्रत्तं धर्माधर्मयुक्तं तृतीयस्थान-माश्रित्याह"अहावरे'' इत्यादि। अथाऽपरस्तृतीयस्थानस्य मिश्रकाख्यस्य विभङ्गो विभागः स्वरूपमाख्यायते / अत्र चाधर्मपक्षण युक्तो धर्मपक्षो मिश्र इत्युच्यते, तत्राधर्मस्येह भूयस्त्वादधर्मपक्ष एवायं द्रष्टव्यः / एतदुक्तं भवति यद्यपि मिथ्यादृष्टयः काञ्चित्तथाप्रकारां प्राणातिपातादिनिवृत्ति विदधति, तथाऽप्याशयाशुद्धत्वादभिनवेऽपितदन्ये सति शर्करामिश्रक्षी