SearchBrowseAboutContactDonate
Page Preview
Page 1273
Loading...
Download File
Download File
Page Text
________________ चेइय १२५६-अभिधानराजेन्द्रः-भाग 3 चेइय होज ण उ उभयरूवो, कम्मं पितओ तयणुरूवं''।।१६३५॥ मिथ्यात्वविरतिप्रमादकषाययोगा बन्धहेतव इति पर्यन्ते योगाभिधात् सर्वत्र कर्मबन्धहेतुत्वस्य योगाविनाभावात्, योगानामेव बन्धहेतुत्वमिति कर्मयोगनिमित्तमित्युच्यते। सच मनोवाक्कायात्मको योग एकस्मिन्समये शुभोऽशुभो वा भवेत्, न तूभयरूपोऽतः कारणानुरूपत्वात् कार्यस्य कर्माऽपि तदनुरूपं शुभं पुण्यरूप, अशुभं वा पापरूपं बध्यते, न तु संकीर्णस्वभावमुभयरूपमेकदैव बध्यत इति।।१६३५।। प्रेरकः प्राह"नणु मणवइकाउग्गा, सुभसुभा वि समयम्मि दीसंति। दव्वम्मि मीसभावो, हवेजण उ भावकरणम्मि" // 1636|| ननुमनोवाक्काययोगाः शुभा अशुभाश्च, मिश्रा इत्यर्थः / एकस्मिन्समये दृश्यन्ते, तत्कथमुच्यते-'"सुहो असुहो वा स एगसमयम्मि त्ति'?। तथाहि -किञ्चिदविधिना दानादिकं वितरणं चिन्तयतः शुभाशुभो मनोयोगः, तथा किमप्यविधिनैव दानादिधर्ममुपदिशतः शुभाशुभो वागयोगः, तथाकिमप्यविधिनैव जिनपूजावन्दनादिकायचेष्टा कुर्वतः शुभाशुभः काययोग इति / तदेतदयुक्तम् / कृत इत्याह-"दव्वम्मि" इत्यादि / इदमुक्तं भवति-इह द्विविधो योगोद्रव्यतो भावतश्च / तत्र मनोवाक्काययोगप्रर्वतकानि द्रव्याणि, मनोबाकायपरिस्पन्दात्मको योगश्च द्रव्ययोगः, यस्त्वेतदुभयरूपयोगहेतुरध्यवसायः स भावयोगः, तत्र शुभाशुभरूपाणां यथोक्तचिन्तादेशनाकायचेष्टानां प्रवर्त्तके द्रव्ययोगे द्विविधेऽपि व्यवहार--नयदर्शनविवक्षामात्रेण भवेदपि शुभाशुभत्वलक्षणो मिश्रभावः, न तु मनोवाकाययोगनिबन्धनाध्यवसायरूपेभावकरणे भावात्मके योगे, अयमभिप्रायःद्रव्ययोगो व्यवहारनयदर्शनेन शुभाशुभरूपोऽपि इष्यते, निश्चयनयेन तु सोऽपि शुभोऽशुभो वा केवलः समस्ति, यथोक्तचिन्तादेशनादिप्रवर्तकद्रव्ययोगानामपि शुभाशुभरूपमिश्राणां तन्मतेनाभावात्, मनोवाकाययोगनिबन्धनाध्यवसायरूपे तु भावकरणे भावयोगे, शुभाशुभरूपो मिश्रभावो नास्ति, निश्चयनयदर्शनस्यैवागमेड विवक्षितत्वात् / न हि शुभान्यशुभानि वाऽध्यवसायस्थनानि मुक्त्वा शुभाशुभाध्यवसायस्थानरूपस्तृतीयो राशिरागमे कचिदपीष्यते, येनाध्यवसायरूपेषु भावयोगेषु शुभाशुभत्वं स्यादिति भावः / तस्मादावयोगे एकस्मिन्समये शुभोऽशुभो वा भवति, नतु मिश्रः। ततः कर्मापितत्प्रत्ययं पृथक् पुण्यरूपंपापरूपं वा बध्यते ,नतु मिश्ररूपमिति स्थितम्।।१६३६॥ एतदेव समर्थयन्नाह"झाणं सुभमसुभं वा, न उ मीसं जं च झाणविरमम्मि। लेसा सुहाऽसुहा वा, सुहमसुहं वा तओ कम्म // 1637 // ध्यानं यस्मादागमे एकदा धर्मशुक्लध्यानात्मकं शुभम्, आर्त्तरौद्रात्मकमशुभं वा निर्दिष्टं, न तु शुभाशुभात्मकं, यस्माच्च ध्यानोपरमेऽपि लेश्या तैजसीप्रमुखा शुभा, कापोतीप्रमुख। च अशुभा एकदा प्रोक्ता, न तु शुभाशुभरूपाः ध्यानलेश्यात्मकाश्च भावयोगाः, ततस्तेऽप्येकदा शुभा अशुभा वा भवन्ति, नतु मिश्राः। ततो भावयोगनिमित्तं कर्माऽप्ये-- कदा पुण्यात्मकं शुभं बध्यते, पापात्मकमशुभं वा बध्यते, न तु मिश्रमपि।।१६३७॥ अपिच "पुव्वगहियं च कम्मं, परिणामवसेण मीसयं नेजा। इयरेयरभावं वा, सम्मामिच्छाइँ न उ गहणे|१६३६॥ वेति अथवा, एतदद्यापि संभाव्यते, यत्पूर्व गृहीतं पूर्व बद्धं मिथ्यात्वलक्षणं कर्म परिणामवशात् पञ्जत्रयं कुर्वन्मिश्रतां सम्यग्मिथ्यात्वपुखरूपतां नयेत्प्रापयेदिति, इतरेतरभावं वा नयेत सम्यक्त्वं मिथ्यात्वं वेति / इदमुक्तं भवतिपूर्वबद्धान् मिथ्यात्वपुद्गलान् विशुद्धपरिणामः संशोधयित्वा सम्यक्त्वरूपतां नयेल, अविशुद्धपरिणामस्तु रसमत्कर्ष नीत्वा सम्यक्त्वपुद्गलान्मिथ्यात्वपुजे संक्रमय्य मिथ्यात्वरूपतां नयेदिति पूर्वगृहीतस्य सत्तापर्तिनः कर्मण इदं कुर्यात्। ग्रहणकाले पुनर्न मिश्रं पुण्यपापरूपतया संकीर्णस्वभावं कर्मबन्धाति, नापीतरदितररूपता नयतीति।।१६३८|| सम्यक्त्वं मिथ्यात्वे संक्रमय्य मिथ्यात्वरूपतां नद्यतीत्यु क्तम्, ततः संक्रमविधिमेव संक्षेपतो दर्शयति"मोतूण श्राउयं खलु, दंसणमोहं चरित्तमोहं च। सेसाणं पयडीणं, उत्तरविहिसंकमो भजो"||१६३६।। इह ज्ञानावरणादिमूलप्रकृतीनामन्योन्यं संक्रमः कदापि न भवत्येव, उत्तरप्रकृतीनां तु निजनिजमूलप्रकृत्यभिन्नानां परस्परं संक्रमो भवति। तत्र चायं विधिः-"मोत्तूणं आउयं' इत्यादि / "आउयं 'इति जातिप्रधानो निर्देश इति बहुवचनमत्र द्रष्टव्यम्, चत्वार्यायूंषि मुक्त्वेति। एकस्या आयुर्लक्षणाया निजमूलप्रकृतेरभिन्नानामपि चतुर्णामायुषा-- मन्योऽन्यं संक्रमोन भवतीति तदर्जनम्। तथा दर्शनमोहं चारित्रमोहं च मुक्त्वा, एकस्या मोहनीयलक्षणायाः स्वमूलप्रकृतेरभिन्नयोरपि दर्शनमोहचारिमोहयोरन्योऽन्यं संक्रमो न भवतीत्यर्थः / उक्तशेषाणं तु प्रकृतीनां, कथम्भूतानामित्याह-''उत्तरविहि त्ति'' | विधयो भेदाः, उत्तरे च ते विधयश्चोत्तरविधय उत्तरभेदाः, तद्भूतानाम् उत्तरप्रकृतिरूपाणामिति तात्पर्यम् / किमित्याह-संक्रमो भाज्यो भजनीयः / भजना चैवं द्रष्टव्यायाः किल ज्ञानावरणपञ्चकदर्शनावरणनवककषायषोडशकमिथ्यात्वभयजुगुप्सातैजसकार्मणवर्णादिचतुष्कागुरूलधूपघातनिर्माणान्तरायपञ्चकलक्षणाः सप्तचत्वारिंशत् ध्रुवबन्धिन्य उत्तरप्रकृतयः, तासां निजैकम्लप्रकृत्यभिन्नानामन्योन्य संक्रमः सदैव भवति। तद्यथा-ज्ञानावरणपञ्चकान्तर्वर्तिनि मतिज्ञानावरणे श्रुतज्ञानावरणादीनि, तेष्वपि मतिज्ञानावरणं संक्रामतीत्यादि। यास्तु शेषा अध्रुवबन्धिन्यस्तासां निजैकमूलप्रकृत्यभेदवर्तिनीनामपि वध्यमामायामबध्यमानाः संक्रामन्ति, नत्वबध्यमानायां बध्यमानायथा साते बध्यमानेऽसातमबध्यमानं संक्रामति, न तु बध्ययानमबध्यमाने, इत्यादि वाच्यमित्येष प्रकृतिसंक्रमे विधिः, शेषस्तु प्रदेशादिसंक्रमविधिः "मूलप्रकृत्यभिन्नासु, वेद्यमानासु संक्रमः / भवति' इत्यादिना स्थानान्तरादवसेयमित्यलं प्रसङ्गेनेति।।१६३६॥ ननु मिश्रयोगाध्यवसायाभावाद्मा भून्मिथप्रकृतिबन्धापत्तिः, तथाऽपि द्रव्याश्रवादन्ततो ध्रुवबन्धि पापमपि फलमवर्जनीयमिति चेत् ।न / ध्रुवबन्धित्वादेव तस्यातत्प्रत्ययत्वात्। अन्यथाऽतिप्रसङ्गाद्ग्रहणसमय एव गुणाश्रयाभ्यां कर्मणि शुभत्वस्याशुभत्वस्य रसाद्यपेक्षया जननात्। तदाह"अविसिट्ठ चिय तं सो, परिणामासयसभावओ खिप्पं / कुरुते सुभमसुभं वा, गहणे जीवो जहाहारं' / / 1643 / / परिणामो जीवस्याध्यवसायस्तद्धशाजीवो ग्रहणसमये कर्मणः
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy