________________ चेइय १२४८-अभिधानराजेन्द्रः-भाग 3 चेइय दिति मिश्राद्वयं स्यात्, इतरद्वयलोपेन एकशेषात् तन्मिश्राद्वयं तव मतं भेदमयं पक्षत्रयप्रतिपादकं कथं न लुम्पति?, "स्वशस्त्र सोपघाताय' इति न्यायस्तवापन्न इति भावः / / 8 / / तृतीयपक्षमधिकृत्याह-नदीतरणादौ वादिप्रसङ्गं समाधत्तेभावो धर्मगतः क्रियेतरगतेत्यत्रापि भने कथं, मिश्रत्वं तमधर्ममेव मुनयो भावानुरोधाद्रिदुः। भक्त्याऽर्हत्प्रतिमाऽर्चनं कृतवतां न स्पृशमानः पुनविश्चित्तमिवाग्रहाविलधियां पापेन संलक्ष्यते॥८६|| भावो धर्मगलः क्रियेतरगता इत्यत्रापि तृतीयाख्ये भङ्गे मिश्रत्वं कथम्?, यतः-भावानुरोधात्तमधर्ममेव मुनयो विदुः / दुष्टभावपूर्विकाया विहितक्रियाया अपि प्रत्यवायबहुलत्वेनाधर्मत्वात्, अतएव निवादीनां निर्ग्रन्थरूपस्य दुरन्तसंसारहेतुत्वेनाधर्मत्वम् / "इच्चेया-दिडिओ, जाइजरामरणगब्भवसहीणं / मूलं संसारस्स उ, वहति निग्गंथरूपेण' ||1|| इत्यादिनाऽव्यवस्थापितदृष्टीनां नियतोत्सूत्रप्ररूपकाणामेव तत्फलं, निर्ग्रन्थरूपेण इत्यत्रोपलक्षणे तृतीयेति नाशङ्कनीयम्, चरमग्रैवेयकपर्यन्तफलहेतोर्निवश्रद्धामुपगताचारस्यैवात्र दृष्टिपदार्थत्वात्, निर्ग्रन्थरूपेणेत्यत्र धान्येन धनमितिवदभेदार्थाश्रयणात् विषगराद्यनुष्ठानानाधर्मत्वेनैव बहुशो निषेधादिति दिक्ानच मिश्रणीयो धर्मगतो भावः प्रकृतस्थले संभवतीत्यत्राह-भक्त्येति / भक्त्या, उपलक्षणाद्विधिना च, अर्हत्प्रतिमार्चनं कृतवता भावः, पापेन स्पृश्यमानः संलक्ष्यते / व्यतिरेकदृष्टान्तमाह-किमिव?,आग्रहाविलधियाम् अभिनिवेशमलीमसबुद्धीनां चित्तमिव; तद्यथा पापेन स्पृश्यमान संलक्ष्यते, तथा न भक्तिकृतां भाव इति योजना। अथ पुष्पायुमर्दयामि ततः प्रतिमा पूजयामि इति भावः पापस्पृष्टो लक्ष्यत एवेति चेत्तहिं, नदीजलजीवाद्युपमर्दयामि ततो नद्यामुत्तीर्य विहारं कुर्वे, इति साधोरपि दुष्टः स्यात् / कृताऽनुषङ्गिकेनोद्देश्यत्वाख्यविषयतासाध्यत्वाख्यविषयता यतमानस्य न निषिद्धरूपाऽवस्थितेति चेत्, तुल्यमेतदुभयोरपीति किमामेडितेन? // 86 / / तुरीय विकल्पमपाकुर्वन्नाहधर्माधर्मगते क्रिये च युगपध्दत्तो विरोधं मिथो, नाऽप्येते प्रकृतस्थले क्वचिदतस्तुर्योऽपि भङ्गगो वृथा। शुद्धाशुद्ध उदाहृतो ह्यविधिना योगोऽर्चनाद्याश्रयः, सोऽप्येको व्यवहारदर्शनमतो नैव द्वयोर्मिश्रणात् / / 87|| (धर्माधर्मगते इति) धर्माधर्मगते च क्रिये युगपद्धिरोधतः भिन्नविषयक्रियाद्वस्यैककालावच्छेदेनैकत्रानवस्थाननियमात् / "भिन्नविसयं निसिद्धं, किरियादुगमेगसंठाणे' इति वचनात्। प्रकृतेऽसिद्धिश्चेदित्यत्राह-नाप्येते धर्माधर्मगते क्रिये, प्रकृतस्थले द्रव्यस्तवस्थाने, क्वचिदतः कारणात् तुर्योऽपि भङ्गो वृथा मिश्रपक्षसमर्थनाय मृषोपन्यासः। शुद्धाशुद्धो योगः शास्त्रोक्त एवेति, तत्र तुर्यभङ्गावकाशः किं न स्यादित्यत्राहशुद्धाशुद्ध इति / अविधिना जिनार्चनाद्याश्रयः, हि निश्चितं, शुद्धोशुद्धो योग उदाहृतः, सोऽपि व्यवहारदर्शनमतः, एकः, अंशे भ्रमप्रमादरूपे एकज्ञानवदंशे शुद्धाशुद्धविषयमनुबद्धयोःशद्धाशुद्धयोर्योगयोर्मिश्रणात्तयोर्विरोधादेवेति दत्तो मिश्रपक्षस्य जलाञ्जलिः, शुद्धाशुद्धविषयत्वं च योगाभिव्यापारानुबन्धिविषयतानयेन, स्वतो योगस्य निर्विषयत्वादिति स्मर्त्तव्यम् / / 87|| निश्चयतस्तुशुद्धाशुद्धयोगो नाऽस्त्येवेत्याह भावद्रव्यतया द्विधा परिणतिप्रस्पन्दरूपा स्मृताः, योगास्तत्र तृतीयराश्यकथनादाद्येषु नो मिश्रता। नैवान्त्येष्वपि निश्चयादिति विषोद्वारः कथं ते भ्रमो, निष्पीता किमुन क्षमाश्रमणगीः सदाष्यसिन्धोः सुधा? ||8|| (भावेत्यादि) परिणतिप्रस्पन्दलक्षणां योगम भावद्रव्यतया द्विधा स्मृताः, तत्रायेषु भावयोगेषु, नो नैव, मिश्रता भवति, कस्मात्?, तृतीयराशेरकथनात्, शुभान्यशुभानीति द्विविधान्ये वाध्यवसायस्थाना न्युक्तानि, न तु तृतीयोऽपि राशिरिति अन्त्येषु द्रव्ययोगेष्वपि निश्चयात् नैव मिश्रता, तन्मते द्रव्ययोगे मिश्राणामभावात् / तदंशप्राधान्ये शुभाशुभान्यतरस्यैव पर्यवसानाभिश्च योगटयवहारेणापि तथ व्यवहरणात् / अत एवाशोकप्रधानं वनमशोकवनमिति विवक्षया मिश्रभाषापत्तिः / कथं तर्हि श्रुतभावभाषायां तृतीयभेदस्यापरिगणनं, द्रव्यभावनाभाषायां तु नेति चेत्, एकत्र निश्चयनयेन धर्मिणोऽर्पणादन्यत्र व्यवहारनयेनेति गृहाण / सर्वत्र निश्चयनयेन धर्म्यपणे तु भाषायां द्वावेव भेदौ० न चत्वारः / इदमेव भाषारहस्ये-"सा चउविह त्ति ववहारनयाउ सुअम्मि पत्ताणं। सच्चामुस त्ति भासा, दुविह चिय हंदि निच्छयओ' ||1 / / त्ति। एवं विशदीकृतेऽर्थे भ्रान्तोक्त्या कथं व्यामोहः कार्य इत्याहइत्येवं, तेतव, कथं भ्रमो भ्रान्तप्रयोगो विषोद्गारः, किंतु सद्भाष्यं यद्विशेषावश्यकं, तदेव सिन्धुः समुद्रस्तस्य सुधाऽमृतं क्षमाश्रमणगी:--जिनभद्रगणिश्रमणवाणी, न निष्पीता?, अन्यथा भ्रमो विषोद्गारो न स्यादेव, असदृशत्वादुगारस्य, किं तु कुमतिपरिगृहीतश्रुताऽऽभासविषयः, तस्यैवेदं विलसितमिति संभावयामः // 18 // किं च संकीर्णकर्मरूपफलाभावादपि संकीर्णयोगो नास्तीति द्रव्यस्तवे मिश्रपक्षोक्तिप्रौढिः खलताविस्तार इत्याह-- मिश्रत्वे खलु योगभावविधया कुत्रापि कृत्ये भवेन्मिभं कर्म न बध्यते च शबलं तत्संक्रमात्स्यात्परम् / तत् द्रव्यस्तवमिश्रतां प्रवदता किं तस्य वाच्यं फलं, स्वव्युद्ग्राहितमूढपर्षदि मदान्मूर्धानमाधुन्वता ||6|| (मिश्रत्वे इति) खल्विति निश्चये, कुत्रापि कृत्ये योगभावविधया मिश्रत्वेऽङ्गीक्रियमाणे, फलत्वेनाङ्गी क्रियमाणं मिश्रं कर्म भवेत् तत्तु बन्धतो नास्ति इत्याह-न बध्यते च शबलमिति, शबलं मिश्र कर्मन बध्यते। कथं तर्हि मिश्रमोहनीयं प्रसिद्धं, तत्राह-परं केवलं,तत् मिश्र, संक्रमात्स्यात्, तस्माद् तत् द्रव्यस्तवमिश्रतां प्रवदता तस्य द्रवयस्तवस्य फलं बंध्यमानं कर्म शुभं भाववन्न भवति, अननुरूपत्वात्, मिश्रं च बध्यमानमभ्युपगच्छता कृतान्तः कुप्येदित्यत्र तूष्णीमेव स्थेयं त्वया, कीदृशेन?, स्वेन व्यद्ग्राहिता ये मूढाः, तेषां पर्षदि मदाद् बृद्धिगौरवान्मूर्धानं शिरसमाधुन्वता कम्पयता, अनुभावो मदस्य व्याधेरेव पर्यवसान इति जानीहि। अत्रेयमुक्तभाष्यवाणी, कुमतपाशकृपाणी प्रगल्भते"न य साहारणरूवं, कम्मंतकारणाभावा।" न च साधारणरूपं संकीर्णस्वभावं पुण्यपापात्मकमेकं कर्मास्ति, तस्यैवंभूतस्य कर्मणः कारणाभात् / अत्र प्रयोगःनास्ति संकीर्णोभयरूपं कर्म, असंभाव्यमानैवंविधिकारणत्वात्, बन्ध्यासुतवदिति। हेतोरसिद्धतां परिहरनाह"कम्मं जोग णिमित्तं, सुभोऽसुभो वा स एगसमयम्मि।"