________________ चेश्य १२४७-अभिधानराजेन्द्रः-भाग 3 चेइय भावनीयम् / भावो धर्मगतः, क्रियेतरगताऽधर्मगता, इत्यपि द्वितीयः पुनर्भङ्गोऽल्पः, अक्षोदक्षम इत्यर्थः / कुतः?, शुभादावादेव, कियागतं यद्रजेहितुस्वरूपं अशुभभावद्वारकत्वं, तस्य क्षयात्। क्रिया हाशुभभावद्वाराऽधर्मस्य, शुभावद्वारा धर्मस्य कारणम, न च स्वरूपतः // 81|| ___द्वितीयपक्षाभ्युपगम एव वादिनामिष्टापत्तिमाहवाहिन्युत्तरणादिके परपदे चारित्रिणामन्यथा, स्वान्मिश्रत्वमपापभावमिलितां पापक्रियां तन्वताम्। किञ्चाऽऽकेवलिनं विचार्य समये द्रव्याश्रयं भाषितं, शुद्धं धर्ममपश्यतस्तनुधियः शोकः कथं गच्छति? ||2|| (वाहिनीत्यादि) अन्यथोक्तानभ्युपनमस्वरूपत एवाश्रवत्वाभिमतस्याधर्मे चोक्त्यैक्यादिति, उत्तरणादिके नद्युत्तारप्रमुखे, परपदेऽपवादमार्गे, चारित्रिणां भावसाधूनाम्, अपापो धर्मकस्वभावो यो भावः पुष्टालम्बनाध्यवसायः, तेन मिलितां पापक्रिया नद्युत्तारादिरूपा, तन्वतां, कुर्वतां, मिश्रत्वं मिश्रपक्षाश्रयणं, स्यात्,न चेष्टं परस्यापि, साधूनां धर्मकप्रक्षाभ्युपगतत्वात्, तस्माद् धर्मभावे स्वरूपतः सावधक्रियाया मिश्रणं द्रव्यस्तव इत्यर्थः / अभ्युचयमाह-किञ्च, आकेवलिनं केवलिपर्यन्तं, समये सिद्धान्ते, "जावं चणं एस जीवे एयइ वेयइताव च णं आरभइ इत्यादिना द्रव्याश्रयं भाषितं विचार्य, तदेव शुद्धं धर्मभपश्यतस्तदनुचिते ऐदम्पर्यानालोचने तनुबुद्धेः शोको धर्मपक्षस्थानोच्छेदजनितवैक्लव्यलक्षणः, कथं गच्छतु?, न कथञ्चित्। अत एव सुन्दरर्षिः-"अयोगिकेवलिन्येव, सर्वतः संवरो मतः।" इति। नदीतरणादौ वादिप्रसङ्ग समाधत्तेवाहिन्युत्तरणादिकेऽपि यतनाभागे विधिर्न क्रियाभागेऽप्राप्तविधेयता हि गदिता तन्त्रेऽखिलैस्तान्त्रिकैः। हिंसा न व्यवहारतश्च गृहिवत्साधोरितीष्टं तु नो, मिश्रत्वं ननु नो मते किमिह तद्दोषस्य संकीर्तनम्॥३॥ (वाहिन्युत्तरणादिकेऽपीति) वाहिन्युत्तरणादिके कर्मणि, यतनाभागे विधिः, अप्राप्तत्वात्, न तु क्रियाभागेऽपि, यतः, अखिलैस्ता- | न्त्रिकैरप्राप्तविधेयता गदिता, 'अप्राप्तप्रापणं विधिः', अनधिगतार्थाधिगन्तृ प्रमाणम्, इत्यनादिमीमांसाव्यवस्थितेः, अयं च न्यायोऽस्माभिराश्रीयते। अत्र हि यतनाभाग इतियतनानतेन मिश्रिता, अन्येनैव मिश्रणसंभवात्, तर्हि नधुत्तारादिक्रिययैव मिश्रता स्यात्, तत्राहगृहिवत् साधौर्व्यवहारतो व्यवहारतया नद्युत्तारादिक्रियायै हिंसा न, गृहिसाध्योर्यतनाऽयतनाभ्यामेव व्यवहारविशेषादिति, ततो हिंसा मिश्राऽभावा, नो तु नैव, मिश्रत्वम् इष्टम्, नन्वित्याक्षेपे, नोऽस्मक मते किमिह तद्दोषस्य कीर्तनं, भवतां द्रव्यस्तवे तु साधुयतनाऽभावादवर्जनीयैव हिंसेति मिश्रपक्षो दुष्परिहर इति भावः / / 83|| एतद्दूषयतिहिंसा सद्व्यवहारतो विधिकृतः श्राद्धस्य साधोश्च नो, सा लोकव्यवहारतस्तु विदिता बाधाकरी नोभयोः / इच्छाकल्पनयाऽभ्युपेत्य विहिते तथ्या तदुत्पादनोत्पत्तिभ्यां तु भिदा न कापि नियतव्यापारके कर्मणि ||4|| (हिंसेति) विधिकृतः श्राद्धस्य साधोश्च सह्यवहारतः सिद्धान्त-- | व्युत्पन्नजनव्यवहारेण, हिंसा नैव भवति, प्रमत्तयोगे प्राणव्यपरोपणस्यैव तन्मते हिंसात्वात्, स्वगुणस्थानोचितयतनया प्रमादपरिहारस्य चोभयोरविशेषादुपरितनेनाधःप्रमादपर्यवसायकतायाश्यातिप्रसङ्गत्वात् अधिकारिभेदेन न्यूनाधिकभावस्याप्यमुक्तिसंभवात् / अन्यथा संपूर्णाचारश्चतुर्दशोपकरणधरः स्थविरकल्पिको जिनकल्पिकमपेक्ष्य यतो न्यूनश्च स्यात्, न चैवमस्ति, रत्नाकरदृष्टान्तेन द्वयोस्तुल्यताप्रतिपादनात् / तस्मात्स्वविषये गृहिणः साधोश्च धर्मकर्मणि हिंसा नास्त्येवेति / लोकव्यवहारतस्तु बाह्यलोकव्यवहारापेक्षया, सा परप्राणव्यपरोपणरूपा हिंसा, उभयोहिसाध्वोर्बाधाकरी न, मिश्रपक्षप्रवेशकरान, व्यधिकरणतया मिश्रणासंभवात्। स्वानुकूलव्यापारसंबन्धे तस्याः सामानाधिकरणस्य च योगमादाय केवलिमतेऽप्रमत्तभावस्थले वक्तुमशक्यत्वात् सह्यव्यवहारपर्यवसानाच्चेति, न किञ्चिदेतत् / प्राण्युपमर्दनस्तावदर्मकर्मण्यपि हिंसैव, ग्रहीतुं तां करोति, साधोस्तु सा कथञ्चिद्भतीत्यस्ति विशेष इत्यत्राऽऽहइच्छाकल्पनया स्वरसपूर्वयेच्छयाऽभ्युपेत्थ विहिते नियतव्यापरके वर्जनयहिंसासंबन्धे कर्मणि तदुत्पादनोत्पत्तिभ्यां भिदा काऽपि तथ्या न, अपि तु स्वकल्पनया मुग्धमनोविनोदमात्रमिति भावः / तथाहि-हिंसाऽनुषक्तधर्मव्यापारे साध्यत्वाख्यविषयहिंसाऽनुकूलकृतिमत्त्वं गृहिणश्चेत्, साधौः न कथम्?,यतनया परिहारश्चेदुभयत्र समानाकृतौ हिंसात्वावच्छिन्नसाध्यत्वाख्यविषयताभावोऽप्युभयोस्तुल्यः, अशक्यपरिहारोऽपि प्रसक्ताकरणप्रत्यवायभिया द्धयोः शास्त्रीय इति सूक्ष्ममीक्षणीयम्॥४॥ अपवादप्राये कर्मणि न विधिः, किं तु यतनाभाग एव, स्वच्छन्दप्राप्तया तत्र मिश्रत्वं स्यादत्राऽऽहपूर्णेऽर्थेऽपि विधेयता वचनतः सिद्धा लिङांत्मिका, भागे बुद्धिकृता यतः प्रतिजनं चित्रा स्मृता साऽऽकरे। नो चेजैनवचः क्रियानयविधिः सर्वश्च मिश्रो भवेदित्थं भेदभयं न किं तव मतं मिश्राद्वयं लुम्पति? ||5|| (पूर्णे इति) पूर्णेऽर्थेऽपि विधीयमानेयतनाविशिष्ट कर्मणि लिडात्मिका लिडर्थस्वरूपा विधेयता, वचनतः श्रुतिमात्रेण सिद्धा, प्रवर्त्तनाया एव तदर्थत्वात्, तस्याश्च प्रवृत्तिहेतुधर्मात्मकत्वात्, "प्रवृत्तिहेतुं धर्मे तु, प्रवदन्ति प्रवर्त्तनाम्'इत्यभियुक्तोक्तेस्तस्य तत्त्वात् इष्टसाधनत्वरूपत्वात् / तथा च प्रवृत्तिहे त्विच्छाविषयतापर्याप्त्यधिकरणधर्मत्वं यद्धर्मावच्छिन्ने बोध्यते, तद्धविच्छिन्नस्य विधेयत्वमिति प्रकृते यतनाविशिष्टद्रव्यस्तवस्य विधेयत्वमवाधितमेव, ततो विनिगमनाविरहेणाऽपि तथासिद्धे लिडर्थत्रयस्यैव विनिगमकत्वम् / बुद्धिकृता विधेयता विषयताविशेषरूपा, सा भागे भवतु, न तावता क्षतिः। यतः सा प्रतिजनं प्रतिप्राणि चित्रा, आकारे स्याद्वादरत्नाकरे, स्थिता व्यवस्थिता, "स्वपरव्यवसायि ज्ञानं प्रमाणम्' इत्यत्र विशेषणविशेष्यान्यतराप्रसिद्धौ तदन्यभागस्य विधेयत्वाप्रसिद्धया उभयस्यैव विधेयत्वमिति तत्राक्तेः / रक्तं पटं वय, ब्राहाणं स्नातं भोजयेत्यादावेकविधे द्विविधे त्रिविधे च दर्शनात्। नो चेद्यतनाक्रियाभ्यामेव च मिश्रत्वे, तदा तत्प्रतिपादकं जैनवचः क्रियानय विधिश्च सर्वोऽपि मिश्रो भवेत्, इत्थं च धर्मपक्षोऽपि ताभ्यां भागाभ्यांमिश्रो भवे