________________ चेइय १२४५-अमिधानराजेन्द्रः-भाग 3 चेइय (चैत्यानां न हिति) गच्छान्तरस्य चैत्यानां नतिर्नो चिता, केषामिव?, लिङ्गि नामिव, गच्छान्तरस्येति संबध्यते / अवयवद्वप्रदर्शनादत्र पञ्चावयवप्रयोग एवं कर्त्तव्यःगच्छान्तरीया प्रतिमा न वन्दनीया, गच्छान्तरपरिगृहीतत्वात्, यो यो गच्छान्तरपरिगृहीतः सस अवन्दनीयः, यथा अन्यगच्छसाधुरिति / एतद्वचसैव यः मृग्धान् जनान् मोहयति विपर्यासयतिप्रमाणपाठिभिरस्मद्गुरूभिर्यदुक्तं तत् सत्यमिति / यः किदृशः?, आग्रही अभिनिवेशमिथ्यात्ववान,तेन किमावश्यकनियुक्त्याख्यशास्त्रमेव न ददृशे न दृष्टम् कीदृशं तत्?, लिड्ने च दोषगुणयोः सत्त्वात् तथा प्रतिमासुतयोरसत्त्वाद्वैषम्यनिश्चायकं वैसदृश्यनिर्णयकारि, लिङ्ग इत्यत्र व्यञ्जकत्वाख्यविषयत्वे सप्तमी। अत्राह-मोक्षोपसमाधानग्रन्थ आवश्यके एवमुपपद्यते, तद्विहारिंगते विधौ प्रतिपादिते सत्याह चोदकः-किमनने पर्यायान्वेषणेन, सर्वथा भावशुद्ध्या कर्मापनयनाय जिनप्रणीतलिङ्गमेव युक्तं, तद्गतगुणविचारस्य निष्फलत्वात् / न हि तद्गतगुणप्रभावान्नमस्कर्तुर्निर्जरा, अपि त्वात्मीयाध्यात्मशुद्धिप्रभवा। प्रति०। (तथाहि "तित्थयरगुणा पडिमा'(५८) आव० 3 अ० / इत्यादि 'किइकम्म'शब्देऽत्रैव भागे 516 पृष्ठे व्याख्यातम् ) उक्तमेव विवेचयन् वादिनो मुग्धतां दर्शयतिलिङ्गे स्वप्रतिबद्धबुद्धिकलनाद्भाव्या भवेद्वन्द्यता, सैकान्तात प्रतिमासु भावभगवद्वयोगुणोद्बोधनात। तुल्ये वस्तुनि पापकर्मरहिते भावोऽपि चारोप्यते, कूटद्रव्यतया धृतेऽत्र न पुनर्मोहस्ततः कः सताम् ? // 73 / / (लिङ्ग इति) लिङ्गे स्वप्रतिबद्धः स्वसंबन्धी यो धर्मः तबुद्धिकलनात् तद्धीस्मरणात् 'एकसंबन्धिज्ञानेऽपरसंबन्धिज्ञानस्य स्मारकत्वादिति सद्धर्मोपस्थितौ तदालम्बनतया विन्द्यतेत्यर्थः, तथाऽसद्धर्मोपस्थितौ च तदालम्बनतया निन्द्यतेत्यर्थः / प्रतिमासु सा सावद्यता एकान्तात्, कस्मात् ?, भावभगवत्संबन्धिनो ये भूयांसो गुणास्तेषामुद्धोधनात्, एकेन्द्रियदलनिष्पन्नत्वादेश्च बन्धगतस्य भगवत्कायगतौदारिकवर्गणनिष्पन्नत्वादेरिवानुद्भूतदोषस्याप्रयोजकत्वाद्गच्छान्तरीयसाधुवत्तादृशप्रतिमाया अवन्द्यत्वमित्यप्ययुक्तम्, तदध्यारोपविषयसद्भावात् / तदाह-तुल्ये वस्तुन्युभयाभावे नाकारसाम्यवति, पापकर्मरहिते सावद्यचेष्टारहिते, भावोऽपि गुणोऽप्यवाप्यते। अत्र वस्तुनि कूटद्रव्यतया धृते चारोप्यतेऽङ्गारमर्दक इव भावचार्यगुणः, तत्र कः सतां शिष्टानां मोहो, यदुत स्वगच्छीयैव प्रतिमा वन्द्येति, नान्या, अन्यसाधुवदिति / द्रव्ये हि कतिपयगुणवत्यपि संपूर्णगुणवदध्यारोपो युक्तः, प्रतिमायां त्वाकारसाम्येनेत्यागोपालाङ्गनाप्रतितत्वात् // 73|| एवं सति प्रतिष्ठावैयर्थ्यमित्याशङ्कय समाधत्तेनन्वेवं प्रतिमैकतां प्रवदतामिष्टा प्रतिष्ठाऽपिका, सत्यं साऽऽत्मगतैव देवविषयोद्देशेन मुख्योदिता। यस्याः सा वचनानलेन परमा स्थाप्ये समापत्तितो, दग्धे कर्ममले भवेत्कनकता जीवायसः सिध्दता ||7|| (नन्वेवमित्यादि) ननु एवमाकारमात्रेण प्रतिमाया एकतां वन्द्यताप्रयोजिकां प्रवदतां युष्माकं प्रतिष्ठाऽपि का इष्टा?, न काचिदिति, तद्विधिवैयर्थ्य स्यादिति। अत्रोत्तरम्-सत्यं, सा प्रतिष्ठा, देवविषयोद्देशेन | आत्मगतैवाऽऽत्मनिष्ठेव, मुख्या उदिता प्रतिपादिता, विधिना जनितस्यात्मगतातिशयस्यादृष्टांशस्य पूजाफलप्रयोजकत्यात, प्रतिष्ठाध्वंसेनैव तदन्यथासिद्धौ संस्कारध्वंसेनानुभवस्य दानादिध्वं सः। न चादृष्टस्य तदापत्तेर्देवतासान्निध्यमपि न फलम्, अहङ्कारममकारान्यतररूपस्य सान्निध्यस्य वीतरागदेवतानयेऽसंभवात्।नच चाण्डालादिस्पर्शनाश्या प्रतिष्ठाजनिता प्रतिमागता शक्तिरेव कल्पनीयेति, आत्मनिष्ठफलोद्देशेन क्रियमाणस्यात्मगतकिञ्चिदतिशयजनकत्वकल्पनाया एवौचित्यात्। अत एवाऽऽत्मगतातिशयस्य समानाधिकरणपापान्तिकमुक्तिफलकत्वमप्युपपते / तदा यस्याः प्रतिष्ठाया सकाशात्परमा सा प्रतिष्ठा, भवेत्स्यात्, किंस्वरूपा?, जीवायसो जीवरूपलोहस्य, सिद्धतारूपा कनकता, कस्याः?,स्थाप्ये परमात्मनि समापत्तितः समापत्तिमासाद्य, कस्मिन् सति?, कर्ममले दग्धे सति, केन?वचनानलेन नियोगवाक्यहुताशनेन // 7 // नन्येवमात्मनः प्रतिष्ठितत्वेऽपि प्रतिमाया अप्रतिष्ठितत्वं स्यात, प्रतिष्ठाकर्तृगतादृष्टक्षये प्रतिमायाः पूज्यताऽनापत्तिश्चेत्यत आहबिम्बेऽसावुपचारतो निजहृदो भावस्य संकीर्त्यते, पूजा स्यादिहिता विशिष्टफलदा द्राक् प्रत्यभिज्ञाय या। तेनास्यामधिकारिता गुणवतां शुद्धाऽऽशयस्फूर्तये, वैगुण्ये तु ततः स्वतोऽप्युपनतादिष्टं प्रतिष्ठाफलम् / / 7 / / बिम्बेऽसौ प्रतिष्ठा, निजहृदो निजहृदयसंबन्धिनो, भावस्याध्यवसायस्य, उपचारात्संकीर्त्यते प्रतिष्ठाजनिताऽऽत्मगता समापत्तिरेव स्वनिरूपकस्थाप्यालम्बनाध्यवसायसंबन्धेन प्रतिष्ठितत्वव्यवहारजननीत्यर्थः / या द्राक् शीघ्रं प्रत्यभिज्ञाय पूजा विहिता विशिष्टफलदा स्यात्, विशिष्ट फलामाकारमात्रालम्बनाध्यवसाफलातिशायि तथा, च प्रतिष्ठितविषयकं यथार्थ प्रत्यभिज्ञानमेव पूजाफलप्रयोजकमिति / तेनास्यां प्रतिष्ठायां, गुणवतां प्रशस्तगुणबतामधिकारिता, शुद्धस्य विशिष्टस्याशयस्य स्फूर्तये उपस्थितये, विशिष्टगुणवत्प्रतिष्ठितेयमिति प्रत्यभिज्ञाने विशिष्टाध्यवसायस्य प्रत्यक्षसिद्धत्वात् / वैगुण्ये तु प्रतिष्ठाविधिसामग्यसंपत्तौ तु, प्रत्यभिज्ञनात् स्वतोऽपि उपनताद् बाह्यसामग्री विना मनसोऽप्युपस्थितात् प्रतिष्ठाफलम् इष्टम् / तदुक्तं विशिकायाम्"थंमिल्ले विहुएसा, मणवयणाए पसंसिया चेव। आगासगोमयाइहि, पत्थवणाईहि सामग्गी"॥ स्थापना मनसि स्थापनं, यदुक्तं न्यायसमये-"यत् तु सम्यसिद्धानुस्मरणपूर्वकमसङ्गम्। उक्तं तत्रस्थापनमिव, कर्तव्य स्थापनमनसि || इति, इत्थं च बाह्यकरणानुपपत्तौ, प्रतिष्ठाकर्तुर्गुणानां प्रायो दुर्लभत्वे वा, कटुकदिगम्बरप्रतिष्ठितद्रव्यालिङ्गद्रव्यनिष्पन्नव्यतिरिक्ताः सर्वा अपि प्रतिमा वन्दनीया इति वचनकलापस्य हेतुत्वान्न्यायविदस्त्रयानादरोऽपि कर्तृगतोत्कटदोषशब्दाशयापरिस्कृतेः / अत एव साधुवासक्षेपादयन्दनीयास्तिस्त्रोऽपि वन्दनीयता नातिक्रामन्तीति सूरिचक्रवर्तिनां श्रीहरिनामधेयानामाज्ञातः शुद्धाशयस्फूर्तेरप्रतिहतत्वादिति दिग् / / 75 / / एतनैव शङ्काशेषोऽपि निरस्त एवेत्याहचैत्येऽनायतनत्वमुक्तमथ यत्तीर्थान्तरीयग्रहात्,