________________ चेइय १२४४-अभिधानराजेन्द्रः-भाग 3 चेइय धन्नाणं विहिजोगो, विहिपक्खाराहगा सया धन्ना / विहिबहुमाणी धन्ना,विहिपक्खअदूसगा धन्ना / / 2 / / भवसिद्धिआण विहिणा, परिणामो होइ समकालं। विहिवाओऽविहिभत्ती, अभव्वजियदूरभव्याणं // 3 // सर्वत्र सम्यग्विधिज्ञेयः कार्यश्च सर्वशक्त्या पूजादिपुण्यक्रियायां, प्रान्ते च सर्वत्राविध्याशातनानिमित्तं मिथ्यादुष्कृतं दातव्यमिति श्राद्धविधौ विधिभक्त्युपयोगादिसाचिव्ये, देवपूजादिकममृतानुष्ठानमेव, ततो विध्यद्रेषस्यापि सत्त्वे प्रथमयोगाङ्गसंपत्त्यनुबन्धतो विधिरागसाम्राज्ये-- "एतद्रागादिदं हेतुश्रेष्ठ योगविदो विदुः" इति च तद्वदनुष्ठानरूपं, तत् द्वयमपि चादेयं भवति, विषगरानुष्ठानानामेव हेयत्यादित्यध्यात्मचिन्तात्मकाः / अत एव भोगानाभोगाभ्यां द्रव्यस्तवस्य यद्वैविध्यमुक्त तान्त्रिकैस्तदुपपद्यते। यदाहुः"देवगुणपरिण्णाणा, तब्भावाणुगयमुत्तमं विहिणा। आयरसाइंजिणपू-अणेण आभोगदव्वथओ।।१।। एत्तो चरित्तलाभो, होइलहू सयलकम्मणिद्दलणो। ता एत्थ सम्ममेव हि, पयट्टिअव्वं सुदिट्ठीहिं / / 2 / / पूआविहिविरहाओ, अपरिन्नाणाउजिणगयगुणाणं। सुहपरिणामकयत्ता, एसोऽणाभोगदव्वथओ।।३।। गुणठाणठाणगता, एसो एवं पि गुणकरो चेव। सुहसुहयरभावाओ, विसुद्धिहेऊ उवोहीओ॥४॥ असुहचएणधणियं, धन्नाणं आगमे सि भद्दाणं। असुणिय गुणे वि तूणं, विसएऽपीई समुच्छलइ।।५।। यथा शुकमिथुनाहविम्बे। होइ पओसो विसएऽगुरूकम्माणं भवातिणीदाणं / पत्थम्मि आउराणव, उवष्ठिए निच्छिए मरणे॥६॥ एत्तो चिय धम्मन्नू, जिणबिंबे जिणवरिंदधम्मेवा। असुहज्झासभयाओ, पओसलेसं पिवजंति" // 7 // परजिनद्वेषे शकुन्तलाज्ञातम् / अभ्युदयमाह- किं च गुरुकारितादिविषयम् आग्रहं त्यक्त्वा भक्तितो भक्तिमात्रेण, सर्वत्राऽपि चैत्येऽविशेषतो विशेषौदासीन्येन कृतवरैर्मुख्यपण्डितैः पूज्याकृतेः भगवत्प्रतिमायाः, पूज्यतोक्ता, कालाद्यालम्बनेनेत्थमेव बोधिसौ-लभ्योपपत्तेः / तथा च श्राद्धविधिपाठे प्रतिमाश्च विविधाः, तत्पूजाविधौ सम्यक्त्वप्रकरणे इत्युक्तम् "गुरुकारियाएँ केई, अन्ने सयकारियाऍतं विति। विहिकारियाएँ अन्ने, पडिमाए पूअणविहाणं ||1|| व्याख्या गुरवो मातृपितृपितामहार्हदादयस्तैः कारितायाः केचित, अन्ये स्वयं कारितायाः, विधिकारितायास्त्वन्ये प्रतिमायाः, तत्पूर्वाभिहितं पूजाविधानं त्रुवन्ति / कर्त्तव्यमिति शेषः / अथवाऽवस्थितपक्षस्तु-गुर्वादिकृतस्यानुपयो गित्वाग्रहरहितेन सर्वप्रतिमा अविशेषेण पूजनीयाः, सर्वत्र तीर्थकृताकारोपलम्भनबुद्धे रुपजायमानत्वात् / अन्यथा हि स्वाग्र हवशादर्हबिम्बेऽप्यवज्ञामाचरतो दुरन्तसंसारपरिभ्रमणलक्षणो बलाद् दण्डः समाढौकते / न चैवम्, अवधिकृतामपि पूजयतस्तदनुमतिद्वारेणाज्ञाभङ्ग लक्षणदोषोपपत्तिः, आगमप्रामाण्यात् / तथाहि श्रीकल्पभाष्ये-- "निस्सकडमनिम्सकडे,अचेइए सव्वहिं थुई तिन्नि। वेलंच चेइआइँ य, गाउं इक्किकया वावि // 1 // " निश्राकृते गच्छप्रतिबद्धे, अनिश्राकृते च तद्विपरीते चैत्ये, सर्वत्र तिस्त्रः स्तुतयो दीयन्ते / तत्र प्रतिचैत्यं स्तुतित्रये दीयमाने वेलाया अतिक्रमो भवति, भूयांसि वा तत्र चैत्यानि, ततो वेलां चैत्यानि वा ज्ञात्वा प्रतिचैत्यमेकैकाऽपि स्तुतितव्येति। अत्रावस्थितपक्षो यद्यप्युत्सर्गतो विधिकारितत्वमेव, गुरुकारितस्वयंकारितयोद्धयोरपि तद्विशेषरूपयोरेवोपभ्यासात् / अत एव विषयविशेषे पक्षपातोल्लसद्वीर्यवुद्धिहेतुभूततया तदन्यथात्वे त्रयाणामपि पक्षाणां भजनीयत्वमुक्तं विंशतिकाप्रकरणे हरिभद्रसूरिभिः / तथाहि- "रंगाइ सोवओआ, साहरणाण च इट्ठफला। किंचि विसेसेणित्ते, सव्वे चिय ते विभइयव्या" // 1 // त्ति। विधिकारितसंपन्नापवादस्त्वाकारसौष्ठवमवलम्ब्य मनःप्रसत्तिरापादनीया,न चैवमविध्यनुमतिःअपवादालम्बनेन तन्निरासात्,क्रमदेशनायां स्थावरहिंसाननुमतिवत् भक्तिव्यापारप्रदर्शने दोषोपस्थितिप्रतिरोधादा काव्यव्यक्तिप्रदर्शनेन शास्त्रस्थितिः / अत एवोक्तं व्यवहारभाष्ये-"लक्खणजुत्ता पडिमा, पासाइठिआ सरस्सतंकारा / पल्हायइ जह य मणं, तह णिज्जरमो विआणाहि॥१॥"त्ति // 70|| चैत्यानां पूजासत्कारादिस्तुतयःइज्यादेन च तस्या-उपकारः कश्चिदत्र मुख्य इति। तदतत्त्वकल्पनैषा, बालक्रीडासमा भवति / / 7 / / इज्या पूजा, तदादेः सत्काराभरणस्नात्रादेः,नच नैव, तस्या देवतायाः प्रस्तुतायाः, उपकारः सुखानुभवसंपादनलक्षणः, कश्चिदत्र मुख्य इति। न कश्चिन्निरुपचरितो मुख्यदेवताया उपकारः संभवति / तत्तस्मादतत्त्वकल्पनैषाऽपरमार्थकल्पनैषा मुक्तिगतदेवतोपकारविषया, वालक्रीडासमा भवति बालक्रीडया तुल्येयं वर्तते / यथा बालो नानाविधैरुपायैः क्रीडासुखमनुभवति तथा तदुपकारार्थमिष्यमाणैः पूजासत्कारादिभिर्देवताविशेषोऽपि परितोषमनु-भवतीति / बालक्रीडातुल्यत्वमुपकारपक्षे दोषः, ये त्वात्मश्रेयोऽर्थ कुर्वते पूजासत्कारादि, न तेषामयं दोषो भवतीति भावः / / 7 / / षो० 8 विव० / एतत्सर्वमनसिकृत्याहचैत्यानां खलु निश्रितेतरया भेदोऽपि तन्वे स्मृतः, प्रत्येकं लघुवृद्धवन्दनविधिः साम्ये तु यत्सांप्रतम्। इच्छांकल्पितदूषणेन भजनासकोचनं सर्वतः, स्वाऽभीष्टस्य च वन्दनं तदपि किं शास्त्रार्थबोधोचितम् // 71 / / (चैत्यानामिति) खल्विति निश्चये, चैत्यानां निश्रितेतरतया निश्रितानिश्रितवान् भेदोऽपि तन्त्रे शास्त्रे प्रत्येकं लघुवृद्धवन्दनविधिः स्मृतः, साम्ये तु प्रायस्तुल्यत्वे यत् सांप्रतं विषमदुःषमाकाले, इच्छाकल्पितं यद् दूषणमन्यगच्छीयत्वादिकं, तेन भजनायाः सेवायाः,संकोचनं संक्षेपणं, बहुभिरंशैलुंम्पकसमाने, नापर्यवसायि, स्वाभीष्टस्य स्वेच्छामात्रविषयस्य च, वन्दनम्, तदपि किं शास्त्रार्थबोधस्योचितम्?, नैवोचितम्, कतिपयमुग्धवणिग्धनमात्रफलत्वादिति भावः // 71 // उक्तार्थ काकुव्यङ्गमेव कण्ठेन स्पष्टीकर्तुमाहचैत्यानां न हि लिङ्गिनामिव नतिर्गच्छान्तरस्योचितेत्येतावदचसैव मोहयति यो मुग्धान् जनानाग्रही। तेनावश्यकमेव किं न ददृशे वैषम्यनिर्णायकं, लिङ्गे च प्रतिमासु दोषगुणयोः सत्त्वादसत्वात्तथा // 72||