SearchBrowseAboutContactDonate
Page Preview
Page 1260
Loading...
Download File
Download File
Page Text
________________ चेझ्य 1236- अभिधानराजेन्द्रः-भाग 3 चेइय त्ति काऊण" इति गाथार्थः / / 42 / / अथ कीाद्यर्थमपि द्रव्यस्तवे प्रवृत्त्या शुभाध्यवसायव्यभिचारश्चारित्रक्रियायामपितुल्यः, शुभाध्यवसायस्यैव तथात्वान्न कारणत्वेन पुष्पाद्यभ्यर्चने त्वेवं चारित्रभावेन तक्रियायास्तयात्वापत्तिभावान्नैकान्तम्। नित्यस्मृत्यादिना भावनयोत्पादाप्रतिपादगुणवृद्ध्यादिकमपिव्रतग्रहणादिक्रियया तुल्यम्, "एसा छिई उ इत्थं, ण उ गहणादेव जायई णियमा / गहणोवाय पि जायइ, जाओ वि अ वेइकम्मुदया।। तम्हा णिस्संचइए, " इत्यादिवचनात्। उपरितनानुपादेयत्वमपि तथैव, प्रमत्तस्थविरकल्पिकादेः क्रियाया अप्रमत्तजिनकल्पिकादिनाऽनुपादेयत्वात्, द्रव्यस्तवजनितपरिमाणशुद्धया द्रव्यस्तवस्थलीयासंयमोपार्जितस्यान्यस्य च निरवशेषस्य कर्मणः क्षपणभिधानमपि चारित्रक्रियाजनितपरिमाणशुद्धया तदितिचारजनितान्यनिरवेशषकर्मक्षपणाभिधानतुल्यं, सर्वस्या अपि प्रव्रज्याया भवद्वयकृतकर्भप्रायश्चितरूपतायास्तत्र तत्र व्यवस्थितत्वात्, जिनशासविहितेत्यत्रापि शुभयोगे तदतिदेशात् "जोगे जोगे जिणसासणाम्मि दुक्खक्खया पउंजंता / इक्कक्कम्मि अणंता, वटुंता केवली जाया / '' इत्युक्तवचनात् द्रव्यस्तवे क्रियमाण एव च भावशुद्धया नागकेतृप्रभृतीनां कैवल्योत्पादश्रवणात् शुभानुबन्धिप्रभूततरनिर्जराफलत्वोपदर्शनमेव द्रव्यस्तवेऽल्पस्यापि पापस्थानं न सहन्त इति शुद्धाभावस्य निर्विषयः कूपदृपष्टान्तः / तत्र पुष्पाद्यभ्यर्चनवेलायां शुभभावसंभवेन निश्चयनयेन तस्य व्यवहारनयेन च तदन्विक्रियावा विशिष्टफलहेतुत्वेऽपि ततः पूर्वं तद्विषयसंभव इति वाच्यम्, प्रस्थकन्यायेन पूर्वपूर्वतरक्रियायामपि शुभभावानवयतत्फलोपपत्तेः / नैगमनयाभिप्रायेणात एव पूजार्थ स्नानादिक्रियायामपि यतनया अधिकारसंपत्त्या शुभभावान्वय उपदर्शिश्चतुर्थपञ्चाशके। तथाऽऽह"ण्हाणाइ वि जयणाए, आरंभवओ गुणाय णियमेणं / सुहभावहेउओ खलु, विण्णेयं कूवनाएणं" ||१०||त्ति। स्नानाद्यपि देहशौचप्रभृतिकमपि, आस्तांतद्वर्जनं, पूजा वा। आदिशब्दाद्विलेपनादिग्रहः / गुणायेतियोगः / यतनया रक्षयितुं शक्यजीवरक्षण - रूपतया, तत्किं साधोरपीत्याशङ् क्याहआरम्भवतः स्वजनधनगेहादिनिमित्तं कृष्यादिकर्मभिः पृथिव्यदिजीवोपमर्दनयुक्तस्य, गृहिण इत्यर्थः / न पुनः साधो, तस्य सर्वसावद्ययोगविरतत्वाद्धावस्तवारूढत्वात् / भावस्तवारूढस्य हि स्नानादिपूर्वकद्रव्यस्तवोऽनादेय एव, भावस्तवार्थमेव तस्याश्रयणीयत्वात्, तस्य च स्वत एव सिद्धत्वात् / इमं चार्थ प्रकरणान्तरे स्वयमेव वक्ष्यतीति / गुणाय पुण्यबन्धलक्षणोपकाराय, नियमेनावश्यंभावेन / अथ कथं स्वरूपेण सदोषमप्यारम्भिणो गुणायेत्याह--(सुभभाव-हेउओ त्ति) लुप्तभावप्रत्ययत्वेन निर्देशस्य शुभभावहेतुत्वात्प्रशस्तभावनिबन्धनत्वाजिनपूजार्थस्नानादेरनुभवन्ति च केचित् स्नानपूर्वक जिनार्चन विदधानाः शुभभावमिति। खलु क्यालङ्कारे! विज्ञेयं ज्ञातव्यम्। अथ गुणकरत्वमस्य शुभभावहेतुत्वात्कथमिव ज्ञेयमित्याह-कूपज्ञातेनावटोदाहरणेन। इह चैवं साधनप्रयोगःगुणकरमधिकारिणः किञ्चित्सदोषमपि स्नानादि, विशिष्टशुभभावहेतुत्वात्, विशिष्टशुभभावहेतुभूतं यत्तद्गुणकरं दृष्टम् / यथा कूपखननम् / विशिष्टशुभभावहेतुश्च यतनया स्नानादि, ततो गुणकरमिति। कूपखननपक्षे शुभभावः तुष्ण्णादिव्युदासेनानन्दाद्यवाप्तिरिति। इदमुक्तं भवति यथा कूपखननं श्रमतृष्णाकर्दमोपलेपादिदोषदुष्टमपि जालत्पत्तावनन्तरोक्तदोषानपोद्य स्वोपकाराय परोपकाराय किल भवतीत्येवं स्नानादिकम प्यारम्भदोषमपोद्य शुभाध्यवसायस्योत्पादनेन विशिष्टाशुभकर्मनिर्जरणपुण्यबन्धकारणं भवतीति / इह केचिन्मन्यन्तेपूजार्थ स्नानादिकरणकालेऽपि निर्मलजलकल्पशुभाध्यवसायस्य विद्यमानत्वेन कर्दमलेपादिकल्पपापाभावाद्विषममिदमित्थमुदाहरणम् / तत्किलेदमित्थं योजनीयम् यथा कूपखननं स्वपरोपकाराय भवत्येवं स्नानपूजादिकं करणानुमोदनद्वारेण स्वपरयोः पुण्यकारणं स्यादिति / न चैतदागमानुपाति। यतो धर्मार्थप्रवृत्तावप्यरम्भजनितस्याल्पस्य पापस्येष्टत्वात्, कथमन्यथा भगवत्यामुक्तम्-"तहारुवं समणं वा माहणं वा पडिहयपचक्खायपावकम्मं अफासुएणं अणेसणिजेणं असणं पाणं खाइमं साइमं पमिलाभेमाणे भंते! किं कजइ? गोयमा! अप्पे पावे कम्मे वहुतरिआ से णिज्जरा कज्जइ।' तथा ग्लानप्रतिचाराणानन्तरं पञ्चकल्याणकप्रायश्चित्तप्रतिपत्तिरपि कथं स्यादित्यलं प्रसङ्गे नेति समासार्थः / / 10 / / यतनया विहितस्य स्नानादेः शुभभवाहेतुत्वं प्रागुक्तम् / अथ यतनां स्नानगतांशुभभावहेतुतां च यतनाकृतां स्नानस्य दर्शयन्नाह-- "भूमीपेहणजलछा-गणाइ जयणा उ होइ एहाणओ। एत्तो विसुद्धभावो, अणुहवसिद्धे चिय बुहाणं / / 11 / / " भूमेः प्रेक्षणं च स्नानभुवः प्राणिरक्षार्थ चक्षुषा निरीक्षणं, जलच्छाणणं च पूतरकपरिहारार्थं नीरगालनम्, आदिःप्रमुखं यस्य व्यापारवृन्दस्य तद्भूमिप्रेक्षणजलच्छाणणादि। आदिशब्दात् मक्षिकारक्षणादिग्रहः / तत्किमित्याह-यतना प्रयत्नविशेषः। तुशब्दः पुनरर्थः। तद्भावना चैवम्--- स्नानादि यतनया गुणकरं भवति / यतना पुनर्भूमिप्रेक्षणजलछणणादि; भवति वर्तते, क्वेत्याह-स्नानादावधि कृते देहशौचविलेपनजिनार्चनप्रभृतिनचि, इह प्राकृते औकारश्रुतेरभावात् "एहाणाओ' इत्येवं पठ्यते इति। (एत्तोत्ति) इतः पुनर्यतनाविहितस्नानादेर्विशुद्धभावः शुभाध्यवसायोऽनुभवसिद्ध एव स्वसंवेदनप्रतिष्ठित एव, बुधानां बुद्धिमतामनेन च शुभभावहेतुत्वादित्यस्य पूर्वोक्तहेतोरसिद्धताऽऽशड्का परिहृतेति गाथार्थः // 11 / / अत्राभयदेवसूरिव्याख्याने धर्मार्थप्रवृत्तावप्यारम्भजनितदोषस्याल्पस्य यदिष्टत्वमुक्तम्, तदू ग्रन्थकर्तुः क्व सरससिद्ध ? षोडशके–'यतनातो न च हिंसा" इत्याद्यभिधानात् यतनया भावशुद्धिमतः पूजायां कायवधासंभवस्यैव दर्शितत्वात्, पूजापञ्चाशकेऽपि कायबधात्कथं पूजा परिशुद्धति प्रश्नोत्तरे-'भण्णइ जिणपूयाए, कायवहो जइ वि होइ उ कहिं वि। तह वि तई परिसुद्धा, गिहीण कूवाहरणजोगा / / 4 / / '' इत्यत्र कथञ्चित् के नाचित् प्रकारेण यत--नाविशेषण प्रवर्तमानस्य सर्वथा न भक्तीति प्रदर्शनार्थं कथञ्चिद् ग्रहणमिति तपस्विनां स्वयमेव व्याख्यानात, "देहादिणिमितं पिहु,जे कायवहंसि तह पयट्टति। जिणपूआकायवहम्मितेसिमपवत्तणं मोहो।।४५ / / " इति ग्रन्थनाग्रे ग्रन्थाकृतैवाधिकारिणो जिनपूजा कायवधम् उपेत्य प्रवृत्तेर्दर्शितेन हिंसास्वरूपस्य च यतनयैव त्याजनाभिप्रायात् समाधियोगेनेत्यादिलक्षणासिद्धेः / न च पुण्यजनकाध्यवसायेन योगने चाल्पस्याषि पापस्य बन्धसंभवः, अध्ययवसायानां योगानां वा शुभाशुभैकरूपाणामेवोक्तत्वात्, तृतीयराशेरायमे प्रसिद्धरेतदुपपादयिष्यत उपरिष्टात् भाष्यसंमत्या, भगवत्यां सुपात्रे शुद्धदानेऽल्पपापबहुतरनिर्जराभिधानं च निर्जराभिधानं च निर्जरा विशेषमुपलक्षयति / स च शुद्धदानफलावधिकापकर्षात्मकः, प्रकृते च चारित्रफलावधिकापकर्षात्मको दानादिचतुष्कफलासमशीलः सोऽधिक्रियत
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy