________________ चेइय 1237- अभिधानराजेन्द्रः-भाग 3 चेइय इति कथङ्कारमशुद्धदानेन शुद्धपूजायां तुल्यत्वमुपनीयमानं विपश्चितश्चमत्कारसारं चेतो रमयितुं प्रत्यलम्? अशुद्धदानं हि अतिथिसंविभागव्रतस्याऽतिचारभूतं, शुद्धपूजा च समग्रश्राद्धधर्मस्य तिलकीभूतोत्तरगुणरूपेति च। आह वाचकचक्रवर्ती- 'चैत्याय-तनप्रस्था--पनानि कृत्वा च शक्तितः प्रयतः। पूजाश्चगन्धमाल्याधिवासधूपप्रदीपाद्याः'' || इत्यादि / अथ शुद्धदानविधिरुत्सर्गः, अशुद्धदानविधिश्चापवादः, उत्सर्गापवादौ चस्वस्थानेद्वावपि बलवन्तावित्यपवादविधिविषयीभूताशुद्धदानतुल्यत्वं देवपूजायामुच्यमानं न दोषायेत्यभिप्रायः, त शुद्धपददानं कस्य विभीषकायै स्वरूपतोऽशुद्धतायाः स्वरूपत आरम्भवत्तायाश्चानतिदोषत्वात्। वस्तुतोऽप्रासुकदानद्दष्टान्तो लुब्धकदृष्टान्तभावितदानापेक्षयैव भावितो भगवतीवृत्ताविति, परव्युत्पन्नकृतजिनपूजायां विपरीतव्युत्पन्नकृतदानतुल्यत्वमभिधीयमानं कथं घटेत? ग्लानप्रतिचारणानन्तरं पञ्चकल्याणकप्रायश्चित्तप्रतिपत्तिरपि गीतार्था द्यन्यतरपद वैकल्या एवेति / सर्वपदसाकल्ये प्रायश्चित्तकरणं कल्पमात्रस्वरूपतः सदोषतयैतददुष्टम्, तावद्दम्भेन जिनपूजां कृत्वाऽपि प्रायश्चितं कर्त्तव्यं स्यात्, तच नैर्यापथिकीमात्रमप्युक्तम्, अशुद्धदानेऽपि श्राद्धजीतकल्पादावुक्तमिति वृथा वल्गनमेतदभिन्नसूत्राभिमानिनामतिचारजनकक्लिष्टभावशोधनमपि तुल्याधिकशुद्धाध्यवसायेनैव, अन्यथा ब्राम्यायादीनां स्वल्पमायया अशुभविपाके प्रमत्तसाधूनामिदानीं चारित्रं कथं निर्वहेदित्यर्थः। पदभावेन प्रपञ्चितं पञ्चवस्तुक एवेति यतनाभावशुद्धस्याधिकारिणः क इवात्तोपलेप इति केषाञ्चिन्मतं नानागामिकमाभाति, पूजेतिकर्तव्यतासंपत्तिरेव च तन्मते कूपोत्पत्तिः तत्प्राक्कालीन एवारम्भः / प्रतिपन्नगृहस्थधर्मप्राणपदद्रव्यस्तवस्य कूपखननस्थानीयः, तत्कालार्जितद्रव्येणैव द्रव्यस्तवसंभवास्त्रिवर्ग-विरोधिनस्ततः प्रथमवर्गस्याऽपि सिद्धे सदारम्भार्जितकर्मनिर्जरणमेव च द्रवयस्तवसंभाविनी भावेनेति, अन्योक्तपूर्वपक्षे "अस्माकमिदं यदि स्फुरति यत् द्रव्यस्तवे दूषणं' तद्धिधिवैगुणयेन भक्तिमात्रैकतानतासंभविविधिवैकल्येन प्राकालसंभवव्याप्यारम्भदोषस्य फलेन समारोपेण तच्छोधने तत्राऽपि कूपदृष्टान्ताभिधानापत्तिरिति प्राचीनपक्षे स्वरसः स्नानादावारम्भश्चित्ते लगतीत्याभिमानिक आरम्भदोषस्त्वनधिकारिणो न संगतः / अभिधानस्य भावदोषत्वादल्पदोषस्य च विरूपस्यैवेष्टत्वादभिधानस्य विपर्ययस्य विपर्ययरूपदोषस्याल्पस्य वक्तुमशक्यत्वादुपरितनानां तत्र दोषत्वाभिमानस्तु न विपर्ययाद, स्याद्वादमार्गे वस्तुन आपेक्षिकत्वात्। स्थविरकल्पकस्य यो मार्गः स जिनकल्पिकापेक्षया न मार्ग इति तदुपपत्तेः, तदपि विधिवैकल्यप्रयुक्तं , द्रव्यस्तवदूषणमपि भक्त्याऽधिकतरभक्तिभावेनोपहतं भवति, इति हि ज्ञानं कूपज्ञानस्य फलरुपज्ञानेनैतद् ज्ञाप्यते इत्यर्थः / पूजाविधिवैगुण्यस्थलीयेऽप्युपलेपे भक्तिप्राबल्यस्य प्रतिबन्धकत्वम्, कूपे खन्यमाने कदर्मोपलेपादाविव मन्त्रविशेषस्येति भावः / यतोऽवधियुताऽपि क्रिया व्यवधानेनातिपारम्पर्येण भक्त्यैव कृत्वा मोक्षदोक्ता, शिष्टा पुनरत्रार्थे शिष्टैकवाक्यतयाऽभूदत्र स्वकपोलकल्पितत्वमात्रमिति भावः / इत्थं चाऽभयदेवसूरिवचनाना मुक्ताना शेषाणां च भक्तिमात्रप्रयुक्तपूजैव विषय इति सवौऽपि प्राचीननवीनपन्थास्तिरस्कृतो भवति। इत्थं विवेचका एव सुज्ञानाः सुप्ररूपकाः शङ्कितार्थे पुनः सूत्रे व्याख्याते भविकाः / उक्तं च सम्मतौ गन्धहस्तिना-''ण उ सासणभत्तीमित्तए सिद्धतजाणगो होइ। ण वि जाणगो वि समए, पन्नवणा णिच्छिओणेओ' 'त्तिन परीक्षां विनास्थेयं, प्राचीनप्रणयात्परमविमृश्यरुचिस्तत्र निरस्ता गन्धहस्तिना। तथाहि 'अयं जनोऽन्यस्य मृतः पुरातनः, पुरातनैरेव समो भविष्यति। पुरातनेष्वित्यनवस्थितेषु कः, पुरातनोक्तान्यविमृश्य रोचयेत् / / 1 / / " प्राचीनं त्वनवीनमप्यनेकान्तगर्भितं तत्तात्पनर्यभेदेन तन्त्रेनातिप्रसञ्जकं कूपद्दष्टान्तं विशदीकरणेऽधिकमादरात्, प्रपञ्चेनोक्तमस्माभिस्तदवधार्यताम् // 61 / / (16) पूजाया हिंसासंभवोक्तिविकल्पं दूषयन्नाहधर्मार्थः प्रतिमार्चनं यदि वधः स्यादर्थदण्डस्तदा, तत्किं सूत्रकृते न तत्र पठितो भूताहियक्षार्थवत्। या हिंसा खलु जैनमार्गविहिता सा स्यानिषेध्या स्फुट, नाधाकर्मिकवन्निहन्तुमिह किं दोषं प्रसङ् गोद्भवम्? // 6 // (धर्मार्थमिति) यदि पूजायां हिंसा कुमतिना वाच्या, तदा किमनर्थदण्डरूपा वा स्यादर्थदण्डरूपावा? नाद्यः पक्षः क्षोदक्षेमः, प्रयोजनराहित्यासिद्धेः। अन्त्ये त्वाह-यदि प्रतिमार्चनं धर्माथो वधः स्यात्तदाऽर्थदण्डः स्यादर्थदण्डत्वेन व्यवहार्यः स्यात्। इष्टापत्ता वाह-तदर्थदण्डश्चेत्तदा सूत्रकृतेऽर्थदण्डाधिकारे किं न पठितः। किंवत् ? भूताहियक्षार्थो यथा दण्डः पछितस्तद्वत् / इदं हि तत्सूत्रम्-'पढमे दंडसमादाणे अट्ठादंडवत्तिए त्ति आहिजइ, से जहा नामए केइ पुरिस आयहेंउं वा आगारहेउं मित्तहेउ वा णागहेउवा भूयहेउंवा जक्खहेउं वा दंडतसथावरेहि सयमेव णिस्सरइ, अण्णेहि वा णिसिरावेइ, अन्नं वा णिसिरंत समणुजाणइ, एवं खलु तस्स तप्पत्तिअंसावक्क ति आहिजइत्ति' / यदि हि जिनप्रतिमापूजार्थोऽपि वधोऽत्राकृतःस्यात्तदा-"जिणपडिमाहेतुं जिणहेतुं च'' इत्यप्यभणिष्यत् सूत्रकारः / न च सर्वोऽपि दण्डो गृहस्थानामगारार्थ इत्यगारविषयकेच्छाप्रयोज्येच्छाया हेतोरुक्तशेषे संभवान्न न्यूनत्वमिति रामदासादिपामरोक्तं श्रद्धेयम् / एवं सति"परिवारहेउ'' इत्यादेराधिक्यापत्तेः, परिवाराद्यर्थस्यापि तत्त्वतो गृहार्थत्वादिति यत्किञ्चिदेतत् / अथ विवक्षात एव तत्पाठ इत्यत आहया खलु जैनमार्गविहिता हिंसा सा किं प्रसङ्गोद्भवं दोषं निहन्तुं वारयितुं स्फुटं नामग्राह निषेध्या न स्यात्? , अपि तु स्यादेव / ननु प्रतिलोममेतत्, एवं सत्यर्थदण्काधिकारे पूजार्थवधस्याधार्मिकस्येव पाठोपत्तेरिति चेत् / सत्यम, तर्हि भगवत्यादावाधाकर्मिकस्येव तस्य स्फुट निषेधौचित्यमन्यत्र प्रपञ्चितनिरूपितस्यैवात्रोपलक्षणसंभवादित्यत्र तात्पर्थात्, तत्त्वे तदशिक्षितोपालम्भमात्रम्।" तत्थ खलु भगवया परिण्णा पवेइयाइमस्स चेव जीवियस्स परिवंदणमाणणापूअणाए दुक्खपडिघातहेतु" इत्याचारे प्रथमाध्ययने जातिमरणमोचनर्थ प्राणातिपातस्य दर्शितत्वात्, तस्य च कटुविपाकोदर्शनाजिनपूजादेरपि भगवदभ्युपगमेन मुक्त्यर्थ प्रसिद्धरर्थदण्डतया साक्षान्निषेधादिति चेत्। न / एतदूव्याख्यानपर्यालोचनायां त्वन्मनोरथस्य लेशेनाप्यसिद्धेः / तथाहि-तत्र कर्मणि भगवता परिज्ञानं परिज्ञा प्रत्याख्यानं च प्रवेदिता, अथ किमर्थमसौ कटुक विपाकेषु कर्माश्रवभूतेषु क्रियाविशेषेषु प्रवर्त्तनेत्याह-"इमस्सेत्यादि /