________________ चेइय 1235- अभिधानराजेन्द्रः-भाग 3 चेइय दिविनिर्मितं विभूषितं मणिमतं, जिनगृहैरहदायतनैर्महीबलय समस्तधरणीतलं, यः कश्चिदतिशयमाहपुण्यप्राग्भारश्चकवादिः, कारयेंत्समग्रंपरिपूर्ण, ततोऽपि तस्मादपि, सर्वोत्तमद्रवयं यावदपीत्यर्थः / चरणं चारित्रं सर्वविरतिस्वभावं, महर्द्धिक विशिष्टतरतमं,यतस्तैऽपि तादृग्विधसर्वोत्तमद्रव्यस्तवविधायिनोऽपि सर्वसम्बरवन्त एव शिवसुखसाधका भवन्तीति गाथार्थः।।१८ || दर्श०३ तत्त्व। (15) सिंहावलोकितेन हिंसाऽस्तीति तामेव द्रव्यस्तवे निरस्यतिधर्मार्थ सृजतां क्रियां बहुविधां हिंसा न धर्मार्थिका, हिंसांशे न यतः सदाशयभृतां वाञ्छा क्रियांशे परम् / न द्रवयाश्रवतश्च बाधनमपि स्वाध्यात्मभावोन्नतेरारम्भादिकमिष्यते हि समये योगस्थितिव्यापकम् // 56 // (धमार्थमिति) धर्मार्थं बहुविधां बहुप्रकारां, क्रियां पूजादिरूपां, सृजता तदर्थका धर्मार्था हिंसा न, यतः सदाशयभृतां शुभभावाना, हिंसाशे वाञ्छा न, परं केवलं क्रियांशे वाञ्छा, तथा चानुबन्धहिंसानिरासः, सदाशयश्च यतनोबृहितो ग्राह्य इति हेतुहिंसाऽपि निरस्तैव, तथा च स्वरूपहिंसैवास्ति। तत्राहद्रव्याश्रवतश्च स्वय योऽध्यात्मभावस्तदुन्नतेः बाधनमपि "अब्भत्थे चेव बंधप्पमोक्खे' इत्याचारवचनात् / इदमेव कथमात्राह-हि यतः, समये सिद्धान्ते , योगस्थितिव्यापकं, यावत् योगास्तिष्ठन्ति तावदित्यर्थः / इष्यते मन्यते, "जावं च णं एयइ वेयइ, तावं च णं आरंभइ संरंभइ समारंभइ'' इत्यादिवचनात् आरम्भाद्यन्यतरत्वेन योगव्यापकतालाभात्। यदि च द्रव्याश्रवमात्राद् बन्धः स्यात्तदा त्रयोदशगुणस्थानेऽपि स्यात्, न चैवमस्ति, समितगुप्तस्य द्रव्याश्रवसत्त्वेधुपादानकारणानुसारितथैव बन्धवैचित्र्यस्याचारवृत्तिचूादौ व्यवस्थितत्वात् / न च द्रव्यतया परिणतिरपि सूक्षमैकेन्द्रियादेरिव बन्धजननीति धर्मार्णवमतमन्द्रि युक्तम् / एकेपिद्रयादीनामपि सूक्ष्मबन्क्षस्योपादानसूक्ष्मताऽपेक्षित्वादप्रमत्तसाधोद्रव्याश्रवसंपन्नस्य तन्निमित्तस्य परमाणुमात्रस्यापि बन्धनिषेधात् 'ण हुतस्स तणिणमित्तो, बंधो सुहमो विदेसिओ समए।'' इत्यागमात्, प्रपञ्चितं चेदं धर्मपरीक्षायां महता ग्रन्थेन // 56 / / एवं व्यवस्थिते कूपनिदर्शनचिन्त्यतामाविर्भावयतिपूजायां खलु भावकारणतया हिंसा न बन्धावहा, गौणीत्थं व्यवहारपद्धतिरियं हिंसा वृथा निश्चये। भावः केवलमेक एव फलदो बन्धो विरत्यंशजस्त्वन्यः कूपनिदर्शनं तत इहाशङ्कापदं कसयचित् // 60 / / अत्रास्माकमिदं हृदि स्फुरति यद् द्रव्यस्तवे दूषणं, वैगुण्येन विधेस्तदप्युपहतं भक्त्येति हि ज्ञापनम् / कूपज्ञातफलं यतो विधियुताऽप्युक्तक्रिया मोक्षदा, भक्त्यैव व्यवधानतः श्रुतधराः शिष्टाः प्रमाणं पुनः।।६१।। (पूजायमिति) पूजायां, खल्विति निश्चये, भावस्य द्रव्यस्तवकारणाध्यवसायरूपस्य, कारणतया हिंसा बन्धावहा न भवति / एषा स्थापयति हि स्नानादिसामग्री द्रव्यस्तवेऽधिकारिणम्, न च सा हिंसा कर्मणा बध्यते, दुर्गतनार्या देवलोकगमनानुपपत्तेः / बन्धावहा चेत्पुण्यबन्धावहे चोक्तभावेन प्रशस्तीकरणात् प्रशस्तरागवत् पुष्पादिसंघट्टनादिरूपोऽसंयमस्तत्र हेतुरुक्त इति चेत्, सोऽपि पर्युदासेन संयमयोगविरुद्धयोगरूप एव स्यात्। तस्यापि च भावेन प्रशस्तीरणे किं हीयते?, उत्तरकालिक एव भावः प्रशस्तीकर्तु समर्थः न पौर्वकालिक इति चेत् / न / दुर्गतनारीद्दष्टान्तेन विहितोत्तरत्वात्। कश्चायं मन्त्रो यः पूर्वापरभावेन न्यूनाधिकभावं नियमयतीति सूक्ष्मेक्षिकायां प्रशस्तहिंसा पुण्यावहाऽपि न स्यादिति चेत्। इदमित्थम्, इयं व्यवहारपद्धतिर्व्यवहारनयसरणिगौणी, प्रशस्तपुण्यबन्धहेतुत्वस्याऽपि "घृतं दहतीति' न्यायेनेष्ट वात, निश्चये निश्चयनये तु विचार्यमाणे, हिंसा वृथैव, अन्यतरबन्धस्याप्यहेतुत्वात्। केवलम् एक एव भावः फलदः, प्रशस्तोऽप्रशस्तो वा, प्रशस्तमप्रशस्तं वा फलं जनयितुं समर्थइत्यर्थः / अत एव कामभोगानाश्रित्योत्तराध्ययनेषूक्तम्-"न कामभोगा समयं उवेंति, ण यावि भोगा विगई उति। जो तप्पओसीय परिग्गही य, समोय जो तेसु स वीअरागो ।।१०१॥"त्ति / उत्त० 3200 / अत एव च विषयेष्वपि सतत्वचिन्तयाऽभिसमन्वागमबन्धकारणमुक्तमाचारे। एवं विधः समाधिः पूर्वभूमिकायां न भवत्येवेति चेत्। ना सर्वथाऽभावस्य वक्तुमशक्यत्वात्। सम्यग्दर्शसिद्धियोगकाल एव प्रशमलक्षणलिङ्गसिद्धरनुकम्पादीनामिच्छाद्यनुभवत्वात्। तदुक्तं विंशिकायाम्"अणुकंपा णिव्वेओ, संवेगो तह य होइ पसुमुत्ती। एएसिं अणुभावा, इच्छाईणं जहासंखं // 1 // " इति। अणुभावाः कार्याणि, इच्छादीनां इच्छाप्रवृत्तिस्थिरसिद्धियोगानां, समाधिजनितश्च भावोऽभ्युत्थानकालेऽपि संस्कारशेषतया मैत्र्याधुपबृहितोऽनुवर्तत एव, अन्यथा क्रियासाफल्यासिद्धेः, "भावाऽयमनेने विना, चेष्टा द्रव्यक्रिया तुच्छा' इति वचनात् / एवं विविक्तविवेके विरतसम्यग्दष्टे रपि पूजायां न बन्धः, विरत्यंशजस्तु बन्धोऽन्यः पूजायोगाप्रयुक्तः, अन्यथा जिनवन्दनादवपि तदापत्तिः / तत इह कू पनिदर्शनं कू पज्ञातं कस्यचित् यथा श्रुतज्ञस्याऽऽशङ्कापदं आशङ्कास्थानम् / एवं हि तदावश्यके द्रव्यस्तवीयप्रसङ्ग समाधानस्थले व्यवस्थितम्। प्रति०। षो०। आव०। 'अकसिणपवत्तयाणं, विरयाविरयाण एस खलु जुत्तो। संसारपयणुकरणे, दव्वत्थ, कूवदितॄतो // 42 // " अकृत्स्न प्रवर्त्तयन्तीति, संयममिति सामर्थ्याद् गम्यते, अकृत्स्नप्रवर्तकाः, तेषा, विरताविरतानामिति श्रावकारणाम्, एष खलु युक्तःएष द्रव्यस्तवः, खलुशब्दस्यावधारणार्थत्वात् युक्त एव / किंभूतोऽयमित्यत आह-संसारप्रतनुकरणः संसारक्षयकारक इत्यर्थः / द्रव्यस्तवः हेयः प्रकृत्यैवासुन्दरः, स कथं श्रावकाणामपि युक्त इत्यत्र कूपद्दष्टान्त इति। "जहा नवनवनगरादिसनिवेसे केइ पभूअजलाभावतो तणहाविपरिगता तदपनोदार्थ कूवं खणप्ति, तेसिं च जइ वि तणहादिया फिहति, मट्टिआ कद्दमाइ भिजति, तहा वि तदुभवेणं चेव पाणिएणं ति सिंचते, एहाइआ सायमलो पुव्वगो य फिट्टति,सेसकालं चतदन्ने यलोगा सुभयाइणो भवंति, एवं दव्वत्थए जइ विसंजमो तहा वि तओ चेव सो परिणामसुद्धी भवति, जातं असंजमोपजियं अन्नंच निरवसेसंखवेति त्ति, तमाह-विरयाविरएहिं एस दव्वत्थवो कायव्वो सहाणुवंधी य पभूतणिज्जराफलो य