SearchBrowseAboutContactDonate
Page Preview
Page 1257
Loading...
Download File
Download File
Page Text
________________ चेइय १२३३-अभिधानराजेन्द्रः-भाग 3 चेइय त्यतो विचित्रयतियोगतुल्यत्वाभावेन न द्रव्यस्तवो भावस्तव एवेति स्थितम्। इति गाथार्थः / / 20 / / अथ द्दष्टान्तेन द्रव्यस्तवभावस्तवयोर्विशेषमाहअसुहत्तरंमुत्तरण-प्पाओ दव्वत्थओऽसमत्तो य। णदिमादिसु इयरो पुण, समत्तवाहुत्तरणकप्पो // 21 // अशुभमशोभनं, कण्टकादियोगादसुखं वा, तत एव दुःखहेतुत्वात्। तच तत्तरण्डं च काष्ठादि, तेन यदुत्तरणं पारगमनं, तत्प्रायस्तत्कल्पो, यःस तथा, मनागवद्यसंकीर्णत्वात्। कोऽसावित्याहद्रव्यस्तवः प्रतीतः / तथा असमाप्तःअपर्याप्तश्च, तत् एव सिध्दयसिद्धः। केषु यत्तरण्डोत्तरणमित्याहनधादिषु नदीह्रदप्रभृतिषु तरणीयेषु, इतरोभावस्तवः पुनरिति विशेषद्योतनार्थः / समाप्तः पर्याप्तः स चासौ बाहूत्तरणकल्पश्च भुजपारगमनतुल्यः, समाप्तबाहूत्तरणकल्पः। तत्र समाप्तत्वं भावस्तवस्य द्रव्यस्तवानपेक्षस्याऽपि संसारसागरपारप्रापणप्रवणत्वात् बाहूत्तरणकल्पत्वं चात्मपरिणामरूपत्वेन बा-ह्यानपेक्षत्वात्। इति गाथार्थः // 21 // अत्रैव दृष्टान्तन्तरमाहकडुगोसहादिजोगा, मंथररोगसमसण्णिहो वा वि। पढमो विणासहेणं, तक्खयतुल्लो य वितिओ उ / / 22 / / कटुकौषधादियोगान्नागराद्यौषधसंबन्धात्, आदिशब्दात् क्षारशरीवेधादिग्रहः / मन्थरो विलम्बितो दीर्गकालभावी, यो रोगशमो व्याधिशमनमात्रं, न तु सर्वथा क्षयः, तत्संनिभस्तत्तुल्यो यः स तथा / वाऽपीति प्रागुक्तदृष्टान्तापेक्षया समुचयार्थः / कोऽसावेवंविध इत्याहप्रथमो द्रव्यस्तवः, प्रथमत्वं चाऽस्य सूत्रक्रमप्रामाण्याद्, आदितः प्रायःप्राप्तेर्वा, इह चावद्यलेशयुक्ततया कर्मरोगोपशमहेतुतया च यद्यपि द्रव्यस्तवः, कटुकौषधादितुल्यो मन्थररोगोपशमतुल्यः पुनर्दीर्घकालभाविद्रव्यस्तवजन्यः कर्मशमस्तथापि कर्मशमस्य द्रव्यस्तवव्यपदेशत कार्ये कारणोपचारान्मन्थररोगशमसन्निभो द्रव्यस्तव इत्युक्तम् / तथा विनौषधेन औषधं कटुकमधुरादिरूपं, तेन विनैव, तत्क्षयतुल्यश्च रोगात्यन्तिकनाशतुल्य एव, चशब्दोऽवधारणे, द्वितीयस्तु भावस्तवः पुनः / अयमभिप्रायःभावस्तव आत्मपरिणामरूप एव, न तु द्रव्यस्तववद् बाह्यद्रव्य-सव्यपेक्षः, तथा भावस्तवादेवात्यन्तिकः कर्मक्षयो भवतीति कृत्वा विनौषधेन तत्क्षयतुल्य इत्युक्तम्।तथा यद्यपीह कटुकौषधाभावकल्पो भावस्तवो, रोगक्षयतुल्यश्च भावस्तवसाध्यः कर्मक्षयः तथाऽपि कर्मक्षयस्य भावस्तवव्यपदेशतः 'कार्ये कारणोपचारात्' क्षयतुल्यो भावस्तव इत्युक्तम् / इति गाथार्थः / / 22 / / अथैतयोरेव हेतुफलभावतो भेदमाहपढमाओं कुसलबंधो, तस्स विवागेण सुगइमादीया। तत्तो परंपराए, वितिओ वि हु होइ कालेणं // 23 // प्रथमादिति द्रव्यस्तवात्, कुशलबन्धः पुण्यानुबन्धिपुण्यकर्मबन्धन भवति। तस्य कुशलस्य कर्मणः, विपाकेनोदयेन, सुगत्यादयः सुदेवत्वसुमानुषत्वलक्षणसगतिप्रभृतयो भवन्ति। आदिशब्दात् शुभसत्वसंहननौदार्यसंपदादिग्रहः / ततः सुगत्याद्यनन्तरम्, परम्परया विच्छिन्नसंतानया सुगत्यादीनामेव / द्वितीयो भावस्तवोऽपि, न केवलं सुगत्यादय एव / हुशब्दोऽलङ्कारे। भवति जायते, कालेन समयेन, कियताऽप्यतिक्रान्तेन, कालस्य तथा भव्यत्वपरिपाकहेतुत्वादेवमभिधानम् / इति गाथार्थः / / 23 // द्वितीयोऽपि भवति कालनेत्युक्तमथ तस्यैव द्वितीयस्य स्वरूपप्रतिपादनायाऽऽहचरणपडिवत्तिरूवो, थोयव्वोचियपवित्तिओ गुरुओ। संपुण्णाऽऽणाकरणं, कयकिच्चे हंदि उचियं तु / 2 / / चरणप्रतिपत्तिरूपः चारित्राभ्युपगमस्वभावः, भावस्तव इति प्रकृतम्। स्तोतव्ये पूजनीये भगवति वीतरागे विषयभूते या उचिता सङ्गता प्रवृत्तिः, प्रवर्त्तनसा स्तोतव्योचितप्रवृत्तिः, तस्याः स्तोतव्योचितप्रवृत्तेर्हेतोः, गुरुको गरीयान्, द्रव्यस्तवापेक्षया / अथोचितप्रवृत्तितो द्रव्यस्तवोऽपि गुरुकोऽस्तु। नैवम्। यतः-संपूर्ण सर्वविरतिप्रतिपत्तितोऽखण्डं यदाज्ञाकरणमाप्तवचनानुपालनं, तत्संपूर्णाज्ञाकरणं, तदेवं / कृतकृत्ये विहितनिखिलकर्त्तव्ये सिद्धप्रयोजने भगवति वीतरागे, हन्दीत्युपप्रदर्शने। उचित संगतम्, पुष्पादीनां तु द्रव्यस्तवाङ्गानां कृतकृत्यत्वेन तस्यानुपयोगित्वात्। तुशब्दोऽवधारणार्थो योजितश्च / इति गाथार्थः // 24 // ___सम्पूर्णाज्ञाकरणं च साधोरेव भवति, नेतरस्येति दर्शयन्नाहणेयं च भावसाह, विहाय अण्णो चएइ काउंजे। सम्मं तग्गणणाणा-भावा तह कम्मदोसा य // 25 // न नैव, इदं संपूर्णाज्ञाकरणम्, चशब्दः पुनरर्थः / भावसाधु पारमार्थिकयति, विहाय विमुच्य, अन्योऽपरः, (चएइ त्ति) शक्रोति, कर्तुं विधातुम् / 'जे'२ इति पादपूरणे निपातः। कुत एतदेवमित्याह-सम्यक् यथावत्, तद्गुणज्ञानाभावात् आज्ञाकरणगुणोपलम्भावात् / न हि यथा भावयतिराज्ञाकरणगुणान् वेत्ति, तथाऽन्यः, तस्यैव तत्र विशेषाधिकारित्वात् / तथा कर्मदोषाच कथञ्चिदाज्ञाकरणगुणपरिज्ञानेऽपि चारित्रमोहनीयकर्मविपाकाचेति, अतो भावसाधोरेव कर्तुं शक्यत्वेन संपूर्णाज्ञाकरणरूपो भावस्तवो गुरुकः। इति गाथार्थः / / 25|| भावस्तवस्याचार्यान्तरैरपि गुरुत्वमिष्टामित्यावेदयन्नाहएतो चिय फुल्लामिस-थूइपडिवत्तिपूयमब्झम्मि। चरिमा गरुई इट्टा, अण्णेहि वि णिच्चभावाओ // 26|| इत एव संपूर्णाज्ञाकरणस्य भावसाधुसाध्यत्वादेव। (फुल्लामि सथूइपडिवत्तिपूयमज्झम्मि त्ति)पुष्पाणि जात्यादिकुसुमानि, उपलक्षणत्वाद्वस्वरत्नादीनामिहैवान्तर्भावो वेदितवयः। आमिषमाहारः, इहाऽपि तथैव फलादिसकलनैवेद्यपरिग्रहो दृश्यः। स्तुतिर्गुणोत्कीर्तनम्, प्रतिपत्तिश्चरणाभ्युपगमः, एता एव पूजाः, तासांमध्यमबहिर्भावः, पुष्पामिषस्तुतिप्रतिपत्तिपूजामध्यं, तत्र / चरमा प्रतिपत्तिपूजा, गुवी ज्येष्ठा, इष्टा मता, अन्यैरपि ग्रन्थकारैः / इहार्थे साधनमाह-नित्यभावात्सर्वदा सद्भावात्तस्याः, साहियावजीविकी, शेषास्तु कदाचिक्तयः। इति गाथार्थ / / 26|| एवं भिन्नावपि परस्परानुगतरूपावेताविति दर्शयन्नाहदव्वत्थयभावत्थय-रुवं एयमिह होति दट्ठव्वं / अण्णोण्णसमणुबद्धं, णिच्छयतो भणियविसयं तु // 27 / / द्रव्यस्तवभावस्तवयोः रूपं स्वभावो द्रव्यस्तवभावस्तवरूपम्.
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy