________________ चेइय १२३१-अभिधानराजेन्द्रः-भाग 3 चेइय तिपातफलंदुस्तरं प्राप्नवन्तीति मन्दबुद्धित्वमुद्देश्यतावच्छेदके प्रवेश्ये प्रयोगो युक्त इति विवेके न चाशङ्का, न चोत्तरमिति श्रद्धेयम्॥५३।। एतदेव षोडशके हरिभद्रसूरिः। स्नानादिषु जीवकायवधमाङ्क्याहस्नानादौ कायवधो, न चोपकारे जिनस्य कश्चिदपि। कृतकृतश्च स भगवान्, व्यर्था पूजेति मुग्धमतिः // 13 // (स्नानादावित्यादि) स्नानादौ स्नानविलेपनसुगन्धिपुष्पादौ पू-वक्तेि, कायवधो जलवनस्पत्यादिवधः परिदृष्टरूप एव, न चोपकारः सुखानुभवरूपस्तपदनुभोगेन, जिनस्य वीतरागस्य मुक्तिव्यवस्थितस्य, कश्चिदपि कोऽपि, कृतकृत्यश्च निष्ठितार्थश्च, स भगवान्, न किञ्चित् तस्य करणीयमस्त्यपरैरेवं व्यर्था पूजा निरर्थिका पूजेत्येवं मुग्धमतिरव्युत्पन्नमतिर्मूढमतिर्वा पर्यनुयुङ्क्ते / / 13 / / षो०६ विवि० / पञ्चवस्तु के चैत्यहिंसाया अदूष्यत्वं वैदिकाहिंसाया दुष्यत्वं विस्तरतोऽप्युक्तमरम्यत्वादत्रोपेक्षितम्। प्रति०। पं०व०। यागधर्माङ्गतयेत्याधुक्तमेवोपपादयतियागीयो वध एव धर्मजनकः प्रोक्तः परैः स्वागमै, नास्मिन्नोधनिषेधदर्शितफलं कार्यान्तरार्थाश्रिते? दाह क्वापि यथा सुवैद्यकबुधैरुत्सर्गतो वारिते, धर्मत्वेन धृतोऽप्यधर्मफलको धर्मार्थकोऽयं बधः // 54 // "यागीय इत्यादि / यागीयो यागस्थलीयो वध एव हि, परैर्वैदिकैः स्वागमे धर्मजनकः प्रोक्तः, 'मूतिकामः पशुमालभेत्' इत्यादिवचनात् / अस्मिन् ओघनिषेधेन सामान्यनिषेधेन, दर्शितफलं निषेध्यप्रयोजनं दुर्गतिगमनलक्षणम् / न इति न, कीदशेऽस्मिन्कार्यान्तरम् ओघानियुक्तमुक्तरूपफलभिन्न, कार्य च न प्राप्तिलक्षणं, तदर्थमाश्रिते / तदाह-उत्सर्गनिषेधानुगुणं दुःखरूप फलं न भवतीति न। अयं धर्मार्थको वधः धर्मत्वेन धृतोऽपि भ्रान्तिविषयीकृतोऽपि, अधर्मफलकोऽधर्महेतुः / आह च–'मिथ्याद्दष्टिभिराम्नातो, हिंसा-द्यैः कलुषीकृतः / स धर्म इतिचित्तोऽपि, भवभ्रमणकारणम्।।१।।'' इति। तस्मात् धर्मार्थ हिंसा यागादावेव, न तु जिनप्रातिमापूजायामिति श्रद्धेयम् / / 5 / / ननु भवतामपि सामान्यतो निषिद्धाया हिंसायः फलं ____ कथं न पूजास्थलीयहिंसायमित्याहअस्माकं त्वपवादनाकलयतां दोषोऽपि दोपान्तरोच्छेदी तुच्छफलेक्ष्छया विरहितश्चोत्सर्गरक्षाकृते / यागादावपि सत्वशुद्धिफलतो नेयं स्थितिदुर्टतः, श्येनादेरिव सत्वशुद्ध्यनुदयात्तत्संभवादन्यतः॥५५|| अस्माकं त्वपवादमाकलयताम्, उत्सर्गिकाधिकारिकमपवादं निम्नोन्नतन्यायेन तुल्यसंख्याकमभ्युपगच्छतामित्यर्थः / दोषोऽपि द्रव्यस्तवेऽधिकारिविशेषणीभूतोऽयमिति नारम्भस्तत्कालीनः सदारम्भो वा, दोषान्तरस्यानुवन्धाहिंसारूपस्योच्छेदी, तुच्छफलस्य भूत्यादिलक्षणस्येच्छया विरहितश्चोत्सर्गरक्षाकृत एवोत्सर्गरक्षार्थमेव प्रवर्तत इति विरोधः / परेषां तु सामान्यनिषेध उत्सर्गो मुमुक्षोरपवादश्च यागीयहिंसाविधिलक्षणो भूति कामस्येति भिन्नविषयत्वादुत्सर्गापवाद भावानुपपत्तिरेव / तदुक्तं हेमसूरिभिः-''नोत्सृष्टमन्यार्थमपोद्यते च" इति / ननुयागादौ प्रतिपदोक्तफलकामानया मा भूदेवमुत्सर्गापवादभावः, "तमेव वेदानुवचनेन ब्राह्मणा विविदिपन्ति यज्ञेन'' इत्यादिश्रुतेः प्रतिपदोक्तफलल्यागेन शतपथविहितकर्मवृन्दस्य विविदिपायां सत्वशुद्धिद्वारा संभविसमुश्चयेनोपयो गो भविष्यतीत्यत आह"यागादावपीति 'यागादावपि सत्वशुद्धिफलमाश्रित्य, नेयमस्मदुक्तजातीया, स्थितिमर्यादा, कुतः? दुष्टतः स्वरूपतो दुष्ठात् श्येनादेरिव श्येनयागादेरिव, सत्वशुद्धयनुदयात्मनःशुद्धः कर्तुमशक्यत्वात्, ये हि प्रतिपदोक्तफलत्यागेन वेदोक्तमिति कृत्वा ज्योतिष्टोमादि सत्वशुद्धर्थमाद्रियन्ते, तैः श्येनयागोऽप्यतिचारफलत्यागेनसत्त्वशुद्ध्यर्थमादरणीय इति भावः / अवदाम च ज्ञानसागरप्रकरणे-"वेदोक्तत्वान्मनःशुद्ध्या, कर्मयज्ञोपयोगिनः / ब्रह्मयज्ञा इतीत्थं नः, श्येनयागंत्यजन्ति किम्"१ / / इति / / तथाऽन्येतो गायत्रीजपादेः, तत्सं भवात्सत्त्वशुद्धिसंभवान्नेयं स्थितिरित्यवधेयः। अस्माकं त्वनन्यगत्याऽऽयव्ययतुलनया वादाश्रयणे सत्वशुद्ध संभवः / / 55 / / / अनन्यगतिकत्वे पूजादावन्यथासिद्धिं शङ्कतेनन्वेवं किमु पूजयाऽपि भवतां सिद्ध्यत्यवद्योझिताद्भावापदिनिवारणोचितगुणः सामाथिकादेरपि। सत्यं योऽधिकरोति दर्शनगुणोल्लासाय वित्तव्यये, तस्येयं महते गुणाय विफलो हेतुर्न हेत्वन्तरात् // 56|| ननुएवं सत्वशुद्धरनयतः संभवे, भवतां स्वरूपतः साधावया पूजयाऽपि किं जनैरहिप्रयुक्तया, भावपद्दिनिवारणे जिन उचितो गुणः अवद्योज्झितात्पापरहितात् सामायिकादेरपि सिद्ध्यति, तस्य पारमार्थिकविनयरूपत्वात्। आह च-"पुष्पामिषस्तुतिप्रतिपत्तीनां यथोत्तरं प्रामाण्यम्' इति। उत्तरमाह(सत्यमिति)सत्यमित्यर्हाडीकारे, यो दर्शनगुणोल्लासाय सम्यक्त्वगुणवृद्धयर्थ वित्तक्षये कृते धनव्ययायाऽधि करोति अधिकारभाग्भवति, तस्येयं पूजा महते गुणाय भवति, अधिकारिविशेषेण कारणविशेषात् फलविशेषस्य न्याय्यत्वाद् भूम्रा तत्प्रवृत्तेश्चात एव द्रवयस्तवः श्राद्धानां शरीरे हस्ततुल्यः, भावस्तवश्च तेषां किञ्चित्कालीनसामायिकादिद्रू पस्तदक्षितुल्या इति तत्र स्थितम् / तुल्यफलत्वेऽष्याहेत्वन्तराद्धेतुर्विफलो न / तथा च दानादीनां सामायिकादीनां देवपूजायाश्च श्राद्धोचितफले "तृणारणिमणि'' न्यायेन कारणत्वान्न दोषः / अत एव श्रमणमधिकृत्याप्युक्तम्"संवरनिर्जररूपो, बहुप्रकारस्तपोविधिः सूत्रे / रोगचिकित्साविधिरिव, कस्याऽपि कथञ्चिदुपकारी" ||1||56|| आरम्भश्कायामात्र दोषानाहअन्यारम्भवतो जिनार्चनविधावारम्भकाभृतो, मोहः शासननिन्दनं च विलयो बोधेश्च दोषाः स्मृताः। सङ्काशादिवदिष्यते गुणनिधिर्धर्माथेमृद्धयर्जनं, शुद्धालम्बनपक्षपातनिरतः कुर्वन्नुपेत्यापि हि // 57 / / (अन्यारम्भ इति) अन्यारम्भो जिनगृहातिरिक्ता ऽऽरम्भस्तद्वतो जिनार्चनविधौ विहित जिन पूजायामारम्भशङ्कां बिभर्ती त्यारम्भशङ्काभृतस्य मोहोऽनाभोगः स्वार्थभंशात् शासननिन्दतं च-कीद्दश एतेषां शासने धर्मो ये स्वेष्टे देवतामपि श--