________________ चेइय 1230- अभिधानराजेन्द्रः-भाग 3 चेइय तथाऽस्मुदुक्तार्थे न हानि प्रेक्षामहे इत्युपमा / चारित्रमोहनीयभेदादनन्तानुबन्धिव्ययजायमानस्य वैयावृत्यगुणस्याविरतसम्यग्दृशामपि संभवे बाधकाभाबादित्यर्थः / / 50 / / तथा सति तेषां चारित्रलेशसंभवेऽविरतत्वा नुपपत्तिरेव बाधिकेत्यत्राहश्राद्धानां तपसः परं गुणतया सम्यक्त्वमुख्यत्वतः, सम्यक्त्वाङ्गमियं तपस्विनि मुनौ प्राधान्यमेषाऽश्नुते / धीलीलाङ्गतयोपसर्जनविधां धत्ते यथा शैशवे, तारुण्ये व्यवसायसंभृततया सा मुख्यतामञ्चति // 51 // श्राद्धानां दर्शनश्रावकाणां, परं केवलं,तपसो गुणतया मनुध्यतया, इयं भक्तिः, सम्यक्त्वाङ्ग सम्यक्त्वप्रधानस्याङ्गीभूता, सम्यक्त्वफलेनैव फलवतीत्यर्थः / फलवत्संनिधानफलं तदङ्ग मिति न्यायात, तथा च तावता नाविरतत्वहानिः, कार्षापणमात्रधनेन धनवानेकगोमात्रेण गोमानिति पञ्चाशकवृत्तावभयदेवसूरयः / कषायविशेषव्यय एवाविरतत्यहानिप्रयोजको, न तु प्रथमानुदयमात्रं, तेनोपेक्षिकोपशमादिनां सम्यक्त्वगुणानामेव जनकत्वादिति निष्कर्षः। आह "पढमाणुदयाभावो, एसस्स जओ भवे कसायाण। ता कह एसो एवं, भन्नइय तज्जियसवेरवाई त्ति" / / 1 / / प्रधानीभूतास्तूपशमादयोऽपि चारित्रिण एव घटन्ते। तदाह"णिच्छ्यसम्मत्तं चागिहिस्स सुत्तभणियतिउणरूवंतु। एवंविहो णिओगो, होइ इमेहिं तवन्नु ति" // 1 / / इति विशिकायाम् / एतदेवाभिप्रेत्याहतपस्विनि प्रधानतपोयुक्ते, मुनौ चारित्रिणि, एषा भक्तिः प्राधान्य प्राप्नोति / अत्र दृष्टान्तमाह- यथा शैशवे बाल्ये धीर्बुद्धिः लीलायाः प्रधानीभूतायाःक्रीमायाः अङ्गतया उपसर्जनविधा गौणभावं धत्ते, तारुण्ये यौवनकाले च सा बुद्धिः, व्यवसायसंभृततया बलपराक्रमसधीचीनतया, मुख्यतां मुख्यभावमञ्चति प्राप्नोति / / 1 / / अत्र सूत्रनीत्या हिंसामाशङ्कयोद्वेगमभियनयति परःअर्थ काममपेक्ष्य धर्ममथवा निघ्नन्ति ये प्राणिनः, प्रश्नव्याकरणे हि मन्दमतयस्ते दश्रितास्तत्कथम् / पुष्पाम्भोदहनादिजीववधतो निष्पाद्यमानां जनैः, पूजां धर्मतया प्रसह्य वदतां जिहान नः कम्पताम्।।ए२।। (अर्थमिति) अर्थम्, कामम् / अथवा-धर्ममपेक्ष्य ये प्राणिनो निघ्नन्ति, ते प्रश्नव्याकरणे, हि निश्चितं, मन्दमतयो दर्शिताः, तत्कथं स्यात्? पुष्पाम्भोदहनादिजीवानां यो वधस्ततो, जनैः, केवलितत्त्वज्ञैरित्यर्थः / निष्पाद्यमानां कार्यमाणां, पूजा प्रसह्य हठा-त्, धर्मत्वेन वदतां नःअस्माकं जिहा कथं न कम्पताम्?, अपि तु कम्पताम् / धर्मिणां जिहुँव मृषा भाषितुं कम्पत इत्युक्तिः? / 52 / (13) अत्रोत्तरदातुः स्वस्य वैद्यताभिनयाभि व्यक्तये भेषजमुपदर्शयति (धर्माङ्ग हिंसान दोषाय) भोःपापाः! भवतां भविष्यति जगदैद्योक्तिशलाभृतां, किं मिथ्यात्वमरुत्प्रकोपवशतः सर्वाङ्गकम्पोऽपि न / यो धर्माङ्गतया वधः कुसमये दृष्टोऽत्र धर्मार्थिका, साहिस्सनतु सत्क्रियास्थितिरिति श्रद्धव सङ्गेषजम्॥५३।।। (भो इति) भोः पापा ! पापान्वेषिणः कुमतयः! भवतां जगद्वैद्यस्य भगवतः, उक्तौ शङ्काभृतां, मिथ्यात्वरूपो यो महद्वायुस्तस्य प्रकोपवशतः किं सर्वाङ्ग कम्पोऽपि न भविष्यति? तत्र प्रकम्पे प्रतीकाराकवैद्यवचनविचिकित्सक स्य रोगिणो ब्रह्माणा प्रतिकर्तुमशक्यत्वात् / न सुवैद्योक्तिविचिकित्सावन्तो भविष्याम उक्तरोगौषधमुपदिश्यतामिति विवक्षायामाहयो वधः कुसमये कुशास्त्रे धर्माङ्गतया धर्मकारणतया दृष्टः, अत्र परीक्ष्यलोके, साधर्मार्थिका हिंसा नतु सत्क्रियास्थितिरप्रमत्तयोगेन हिंसायामुपरमात्, इतीयं अद्वैव सत् समीचीनं भेषजम् / अन्यथा सद्भुतभावाभिगमनायैकोनपञ्चाशता दिनैः परिपाकशोभ्यादुदकरत्नं कृतवान् तथा राज्ञा कारितश्च सुबुद्धिर्महाहिंसको मन्दबुद्धिश्च स्यात्। तथा च सूत्रम्-'तते णं सुबुद्धिस्स इमेयारूवे अब्भत्थिए समुपज्जित्था, अहो णं जियसत्तू तवे तहिए अवितहे सब्भूए जिणपन्नत्ते भावणोवलंभितं सेयं खलु मम जियसत्तुस्स रण्णो सताणं तवाणं तहियाणं अवितहाणं सम्भूयाणं जिणपण्णत्ताणं भावाणं अभिगमणट्ठयाए समट्ठ उवयणावित्तए एवं सेपेहेइ। संपेहेइत्ता पंचसएहिं पुरिसेहिं सींद्ध अंतरापणाओ नवए घडे गिएहइ / गिण्हइत्ता संझाकालसमयंसि पयिरलवणुस्संसि णिसंतपडिणिसंतसि जेणेव परिहोदएतेणेव ठवागच्छइ, उवागच्छइता, तं परिहोदगं गेण्हावेति, नवएसु घमेसु गालावेति, नवएसु घमेसु पक्खिवावेति, सज्जखारंपक्खियावेइ, पक्खियावेइत्ता लंछियमुहिए करावेइ, करावेइता तं परिसायेति, परिसावेतित्ता तचे पि नवएसु घमेसु जाव संवसावेति, अंतरा गालाबेमाणा 2 अंतरा पक्खिवावेमाण 2 अंतरा वसावेमाणा 2 सत्त सत्त राइंदियाइंपरिसावेइ, परिसावेइत्ता ततेणं से परिहोदए सत्तयति सत्तयंसि परिणममाणंसि उदगरयणे जाए आवि हुत्था' तदा वायुकायदिविराधनाया अवर्जनीयत्वादकरणपरिहारस्य च तदुक्तरीत्यैव संभवात्। एतेन "एवमादी संते सत्त परिवजियाउवहणंति, अवसाहणंति, दङ्मूढदारुणमइ कोहा माणा माया लोभा हासरती सोयवेदछजीयकायत्थधम्महेउं सवसा अवसा अट्टा अणट्टा य तसपाणा थावरे य दीसंति, मंदबुद्धी सवसा हणंति, अवसा हणंति, सवसा अवसा दुहओहणंति, अट्ठा हणंति, अणट्ठा हणंति, अट्ठा अणट्ठा दुहओ हणंति,हस्सा हणंति, वेरा हणंति, रतीए हणंति हस्सा वेरा हणंति, कुद्धा हणंति, मुद्धा हणंति, लुद्धा हणंति, कुद्धा मुद्धा लुद्धा हणंति, अत्था हणंति, धम्मा हणंति, कामा हणंति, अत्था धम्माकामा हणंति। "त्ति प्रश्नसूत्रमपि व्याख्यातक्रोधादिकारणैर्हन्तृणां स्ववश्याद्यर्थे प्रपञ्चितानां मन्दबुद्धितयोक्तत्वेऽपि, स्वाम्यधिकारे-"कयरे ते,जे सोयरियमच्छवंधा साउणेया वाहा कूरकम्मा' इत्याधुपक्रम्य "सण्णीय असणी णो पज्जत्ता असुभलेसस्स परिणामा एते अण्णे य एवमादी करेंति पाणाइवाकरणं'' इत्यतिदेशाभिधानेन शुभलेश्यानामेव प्राणातिपातकर्तृत्वोपदेशाद, भक्तिरागोपहितसम्यग्दर्शनोल्लासेन प्रशस्तलेश्याकानां देवपूजाकर्तृणां हिसालेशस्याप्यनुपदेशात् , कथं च श्रृङ्गग्राहिकयाऽतिदेशनैवतेषां हिसंकानुतावपि तथा प्रलापकारिणां नानन्तसंसारित्व, शासनोच्छेदकारिणामनन्तानुबन्धिनीमायाविसवलापस्यासंभावात्। तदुक्तम्-"जइ वियण गिणे' इत्यादि / किं च येऽर्थाय कामाय धर्माय धनन्ति मन्दबुद्धय इति पराऽभिमत उद्देश्यविधेयभावोऽप्युयुक्तः, अर्थाय घ्नतामानन्दादीनामपि मन्दबुद्धित्वप्रसङ्गात। किंतु ये मन्दबृद्धय उक्तकारणैः घन्ति, ते प्राणा