________________ चेइय १२२८-अमिधानराजेन्द्रः-भाग 3 चेइय नाय अर्थितः कुवलायाचार्यः, पदैकदेशे पदसमुदायोपचारात् कुवलयप्रभाचार्यःयद्यप्येतचैत्यालये वक्तव्यमस्ति तथाऽपि सतमः सपापम्, इत्युक्त्वा , भवं संसारार्णवं, तीर्णवान् एतत् किं नवनीतसाराध्ययनवचनम्, आयुष्मतां प्रशस्तायुषां भवतां, नो मानं न प्रमाणं?, यन्महानिशीथबलतः महानिशीथमष्टभ्य, द्रव्यस्तस्थापनं कुर्वन्त्यायुष्मन्तः / यत्र हि वाड्भात्रेणापि द्रव्यस्तवप्रशंसनं निषिद्धं , तत्र कथं तत्करणकारणादि विहित भविष्यतीति।।४३ / / उत्तरयतिभ्रान्त! प्रान्तधिया किमेतदुदितं पूर्वापरानिश्चयात, येन स्वश्रमक्लुप्तचैत्यममता मूढात्मनां लिङ्गि नाम / उन्मार्गस्थिरता न्यषेधि न पुनश्चैत्यस्थितिः सूरिणा, वाग्भङ्गि किमु यद्यपीति न मुखं वक्रं विधत्ते तव? ||44|| हे भ्रान्त! विपर्ययाभिभूत! पूर्वापरग्रन्थतात्पर्यानिश्चयात् प्रान्तधिया हीनबुद्ध्या, त्वयैतरिक मुदितं कुत्सितमुक्तम्? येनोक्तवचनेन, स्वश्रमक्लृप्तानि यानि चैत्यानि तेषु या ममता तत्र मूढ आत्मा येषां ते तथा, तादृशां लिङ्गिनां, सूरिणा कुवलयाचार्येण, मनसि निश्चितचैत्यकर्त्तव्यतागोचरतत्प्रतिज्ञा गलहस्तयता उन्मार्गस्थिरता अनायतनप्रवृद्धिदाय न्यषेधि, न पुनश्चैत्यस्थितिः सम्यग्भाविचैत्यप्रवृत्तिव्यवस्था, इहार्थे यद्यपीति वाग्भङ्गी वचनरचना, किमु तव मुखं वक्रं न विधत्ते?, अपितु विधत्त एव। अप्राकरणिकस्य संबोध्यमुखवक्रीरणस्य कार्यस्याभिधानेन प्रकृतवक्रोक्त्यभिधानादप्रशंसालङ्कारः। ''अप्रस्तुतप्रशंसा तु, या सैव प्रस्तुताश्रया।।'' इति लक्षणम्। तथा च -''जइ वि जिणालयं तह वि सावजमिणं / " न स्वभावतश्चैत्यस्थितेर्दुष्टत्वमाह, किं तु सर्वप्रवृत्यु पाधिनेत्येव श्रद्धयम्, न हि यद्यपि पायसं तथाऽपि न भक्ष्यामिति वचनं विषमिश्रताद्यपाधिसमावेशं विनोपपद्यत इति भावनीयं सूरिभिः / / 44 // एवं व्याख्यातमेवान्यत्रापि सूत्रस्य पिःशङ्कितत्वकरणेन प्रव्रज्यासार्थतोपपत्तिरित्यनुशास्तियत्कर्मापरदोशमिश्रिततया शास्त्रे विगीतं भवेत्, स्वाभीष्टार्थलवेन शुद्धमपि तल्लुम्पन्ति दुष्टाशयाः। मध्यस्थास्तु पदे पदे धृतधियः संबन्ध्य सर्व बुधाः, शुद्धशुद्ध विवेकतः स्वसमयं निःशल्यमातन्वते / / 45|| (यत्कर्मेति) यत्कर्म स्वरूपतः शुद्धमपि अपरदोषेण मिश्रिततया शास्त्रे विगीतं निषिद्धं भवेत् तत् स्वाभीष्टार्थलवेन स्वभिमतार्थलेशप्राप्त्या शुद्धमपि दुष्टाशया लुम्पन्ति, छिद्रान्वेपिणामीहशो बलस्य सुलभत्वात, यथा वेदोद्वेगादिदोषमिश्रितमावश्यकादि निषिद्धमिति दुष्पालत्वादावश्यकमेवैदंयुगीनानामकर्तव्यमित्याध्यात्मिकादयो वदन्ति। विधिभक्तिविकलो द्रव्यस्तवो निष्फलः स्यात्तदाह--"जं पुण एयविछत्तं, एगतेणेव भावसुन्नं ति / तं वि समयम्मि णितओ,भावत्थवहेउओ णेयं' / / 1 / / यदनुष्ठानम्, एतदौचित्यं भावे बहुमानविषयेऽपि वीतरागेऽपि विधीयमानं तको द्रव्यस्तवः, तथा प्रकृतेऽपि मठमिश्रितदेवकुलादिकं नाचार्येणानुमतम् इत्यादिकं पुरस्कृत्य द्रव्यस्तव एव न कार्यमिति लुम्पका वदन्ति। मध्यस्थास्तु गीतार्थाः, पदे पदे स्थाने स्थाने, धृतधियः संमुखीकृत- | विमार्शाः,सर्वं ग्रन्थ, शनैःशनैः मन्दमनदं, श्रोत्रे प्रज्ञाऽनुसारेण संबन्ध्य शुद्धाशुद्धयोविवेको विनिश्चयः, ततः स्वसमय स्वसिद्धान्तं निःशल्यं शल्यरहितमातन्वते तात्पर्यविवेचनेन सूत्रं प्रमाणयन्ति,न तुशङ्कोद्भावनेन मिथ्यात्वं वर्द्धयन्तीति भावः // 45 // एतने प्रदेशान्तरविरोधोऽपि परिवत इत्याहतेनाकोविदकल्पितश्चरणभृद्यात्रानिषेधोद्यत्श्रीवजार्यनिदर्शनेन सुमुनेत्रानिषेधो हतः। स्वाच्छन्द्येन निवारिता खलु यतश्चन्द्रप्रभस्याऽऽनतिः, प्रत्यज्ञायि महोत्तरं पुनरियं सा तैः स्वशिष्यैः सह / / 46|| (तेनेति) तेनोक्तहेतुना कोविदेन ताप्तर्यज्ञेन कल्पितश्चरणभृतां यात्रानिषेधे उद्यताये श्रीवजाचार्याः श्रीवज्रसूरयस्तेषां निदर्शनेन दृष्टान्तेन सुमुनेः सुसाधोः यात्रानिषेधो हतो निराकृतः; यतस्तत्र ग्रन्थे स्वाच्छन्द्येनाज्ञारहिततया गुरुभिः चन्द्रप्रभस्य चन्द्रप्रभस्वामिन आनतिनिषिद्धा, महोत्तरं सङ्घ यात्रोत्सवनिवृत्यनन्तरं, पुनरियं चन्द्रप्रभयात्रा तैराचार्यः, स्वशिष्यैः सह, प्रत्यज्ञायि कर्तव्येति प्रतिज्ञाविषयी कृता / अत्राऽप्यविधियात्रानिषेधमेवोपश्रुत्य यात्रामात्रं मूर्निषिद्धं तद् दूषित तात्पर्यज्ञैरिति बोध्यम् / प्रति"। (अत्र सावद्याचार्यवज्राचार्यसंबन्धौ श्रोतृणामुपकाराय महानिशीथगतावभिधास्येते 'सावज्जायरिअ' शब्दे "कुवलप्रभवज्जमुनीशयोश्चरितयुग्ममिद विनिशम्य भोः। कुमतिभिर्जनितंमतिविनमं, त्यजत युक्तमदुक्ताविभाव-- काः॥१॥"प्रथमे ह्यनधिकारिकर्तृकत्वाविशिष्टचैत्यप्रवृत्त्यनुमोदने तात्यु, द्वितीये चाविधियात्रानिषेध इति / न च यात्रायामेवासंयमाभिधानात्तन्माखनिषेधे स्वस्थानावधिकतीर्थप्राप्तिफलकव्यापाररूपायास्तस्या निषेधे संयतसार्थेन तन्निषेधापत्त्या संयतसार्थेन तनिषेधस्यैव फलितत्वात्, अतएव साधूनामवधानभृतां कदालम्बनीभृतैव चैत्यभक्तिश्चैत्यवासिनामावश्यकेऽपि निषिद्धा"नीया वासविहारं, चेइअभत्तिं च अज्जियालाभं। विगइसु अप्पभिबंध निहोसं चोआ विं ति।। चेइयकुलगणसंघ, अन्नं वा किंचि काउ निस्साणं / अहवा वि अज्जवइरं, तो सेवंती अकरणिज्जं" / / इत्यादि। तस्मादावश्यकमहानिशीथायेकवाक्यतया साधुलिङ्गस्यैव चैत्यभ-क्तिर्निषिद्धा, श्राद्धानांतुशतशो विहितैवेति अद्धेयम्॥४६।। सिंहावलोकितेन बिम्बमनानुकूलव्यापारे यात्रापदार्थबोधमाशङ्कय परिहरतिनो यात्रा प्रतिमानतिव्रतभृतां साक्षाइनादेशनात्, तत्प्रश्नोत्तरवाक्य इत्यपि वचो मोहज्वरावेशजम्। मुख्यार्थः प्रथिता यतो व्यवहृतिः शेषान् गुणान् लक्षयेत्, सामग्रेण हिवावताऽस्ति यतना यात्रा स्मृता तावता।।४७।। (नो इति) प्रतिमानितिः यात्रा न भवति। केषाम्?, व्रतभृतां चारित्रिणाम् कुतः?, तत्प्रश्नोत्तरवाक्ये शुकसोमिलादिकृतयात्रापदार्थप्रश्नानां थावचापुत्रभगवदाद्युत्तरवाक्ये साक्षात्कण्ठपाछेनाऽनादेशनात् ! विम्बप्रणतरेनुपदेशात्, इत्यापि वचः, कुमतिनां मोहरूपो यो ज्वरस्तदावेशस्तत्पारवश्यप्रलापजनितम्, यतः मुख्यार्थः प्राथिता प्रसिद्धा, व्यवहतिः शब्दप्रयोगरूया, शेषान्उक्तावशिष्शनगुणालक्षयेत्। हियतः,यावतासामन्येण