________________ चे इय 1227- अभिधानराजेन्द्रः-भाग 3 चेइय तं जह मेरूतुगे, मणिमंमएँ कंचणमएँ परमरम्मे / / नयणमणाणंदकरे, पभूयविन्नाणसाइसए। सुसिलिठसुल-द्धछंदसुविभत्तए मुणीवेसे / / बहुसिंहग्रतघंटा-द्धयाउले पवरतारेणसणाहे। सुविसाले सुविथिन्ने, पए पए पिच्छियव्वऍसिरिए। मघमग्छतंउज्ज-तबगरुकप्पूरचंदणामोए। बहुविहविचित्तबहुपु-प्फमाइपूयारिहे सुपूए य॥ णच्चपरिचरणाउय-सयाउले महुरमुखसद्दाले। कुटुंतरासमणसय-समाउले जिणकहाखितचित्ते / / पकहंतकहगणचं, तत्थगतं भव्वनिग्धोसे। एमादिगुणोवेए, पए पए सव्वमेइणीवट्टे / / नियभुयनिविट्ठपुन्न-थिएण नायागरण अत्थेणं / कंचणमणिसोपाणे, थंभसहस्ससिए सुवन्नतले // जे कारवेज जिणहरे, तओ वि तवसंजमो अणंतगुणो। तवसंजमेण बहुभव-समञ्जियं पाबकम्ममललेवं / / निट्ठविऊणं अइरा, अणंतसोक्खं वए मोक्खं / काउंजिणायणेहिं, सुमंडियं सव्वमेइणीवढें / / दाणाइचउक्केणं, सट्ट वि गच्छेज्ज अबुखं न परं। महा 3 अ / / उभयत्रद्रव्यस्तवे भावस्तवे चेत्यर्थः / नन्द्यां नन्दीसूत्रे, दर्शितं यत् सूत्रवृन्द, तन्मध्ये विदिता प्रसिद्धा या प्रामाण्यमुा महानिशीथप्रमाणदाढर्य, तद्विभ्रति याद्दश्य , एताः संप्रदायसार्वभौमानां गिरः, निद्राणेषु सुप्तप्रमत्तेषु, डिणिगमस्य पटहस्य, ममत्कारा इव पतन्ति / यथा गाढसुप्ताः परिमोषिण आकस्मिभयङ्करभेरीझाङ्कशब्दश्रवणेन सर्वस्वनाशोपस्थित्या कान्दिशीका भवन्ति, तथोक्तमहानिशीथशब्दश्रवणेन लुम्पका अपीति / न च वाडद्यात्रेण महानिशीथप्रमाणमित्यपि तैर्वक्तुं शक्यम्, यत्र सूत्रे आचारादीनि प्रमाणतया दर्शितानि तत्रैव महानिशीथस्यापि दर्शनात्; अतो विरोधस्य च बहुषु स्थानेषु दर्शनाद्विवेकिनः समाधिसौकर्यस्य च सर्वत्र तुल्यत्वादिति।।४०।। अभ्युच्चयमाहयद्दानादिचतुष्कतुल्यफलतासंकीर्तनं या पुनो श्राद्धस्य परो मुनेः स्तव इति व्यक्ता विभागप्रथा। यच्च स्वर्णजिनौकसः समधिको प्रोक्तो तपःसंयमो, तत्सर्वं प्रतिमाऽर्चनस्य किमु न प्रागधर्मताख्यापकम् ||1|| यत् दानादिचतुष्कस्य दानादिचतुष्टस्य, तुल्यफलातायाः संकीर्तन, या पुनः द्वौ द्रव्यस्तभावस्तवौ, श्राद्धस्योचितौ, परो भावस्तव एक एव मुनेः साधोरिति व्यक्ता विभागस्य प्रथा विस्तारः / यत् स्वर्णाजिनौकसः सुवर्णाजिनभवनकारणोत्कृष्टद्रव्यस्तवादपि, तपः संयमौ समधिकौ प्रोक्तौ, तत्सर्व प्रतिमार्चनस्य किमु प्राग धर्मतायाः भावस्तवेनानुचीयमानधर्मतायाः, ख्यापक सूचकं न?, अपि तु ख्यापकमेव / उत्कृष्टतमावधेरुत्कृष्टतरस्यैव युक्तत्वात हीनावधिकोत्कर्षोक्तरस्तुतित्वात, नहि सामान्यजनादाधिक्यवर्णनं चक्रवर्तिनः स्तुतिः, अपि तुमहानरपतेरिति। अक्षराणि च"भावचणमुग्गविहारणाथ दव्वचणं तु जिणपूजा। पढमा जइण दुण्णि वि, जइणं पढम चिय पसत्था।। कंचणमणिसोपाणे, थंभसहस्तूसिए सुवण्णतले। जो कारवेज़ जिणहरे, तओ वि संजमतओ अणंतगुणो। तवसंजमेण बहुभव-समजिअंपावकम्ममलपवह। निविऊणं अहरा, सासयसुक्खं वए मुक्खं। काउंजिणायणेहि, सुमंडिअंसयलमेइणीवट्ट। दाणाइचउकेणं, सठु विगच्छिज्ज अच्चुयं न परं" / / न च प्रथमाया एव प्रशस्त्वत्वाभिधानेनाद्याया अप्रशस्तत्वादनादरणीयत्वम, एवं सति "सारो चरणस्स निव्वाणं'' इत्याभिधनान्मोक्षस्यैव स्वरसत्वाभिधानाश्चारित्रस्याप्यनादरणीयताऽऽपत्तेः / सारोपायत्वेन सारत्वं तत्राविरुद्धमिति चेत्, प्रशस्तभावाचार्थोपायत्वेन द्रव्य या अपि प्राशस्त्यादादरणीयत्वाक्षतेः।।४१।।'' महानिशीथेऽस्मदुक्ताऽप्रामाण्यऽभ्युपगम, कुमतिनो दूषयन्नाहप्रामाण्यं च माहानिशीथसमये प्राचामपीत्यप्रियं, यत्तुर्याध्ययने न तत्परिमितेः केपाञ्चिदालापकैः। वृद्धास्त्वाहुरिदं न सातिशयमित्याशङ्कनीयं क्वचित्, तत्किंपाप! तवापदः परगिरां प्रामाण्यतो नोदिताः? // 42 // (प्रामाण्यमिति) महानिशीथसमये प्राचामपि प्राचीनयुष्मत्सांप्रदायिकानां प्रामाण्यम् इति वचः अप्रियमरणीयं, यद् यस्मात्तुर्याध्ययने के षाञ्चिदाचार्याणां परमितेर्द्धिौरालापकै स्तप्रामाण्यं नास्ति / वृद्धास्वाहः-इदं महानिशीथं सातिशयं, अतिप्रभावमतिगम्भीरार्थचेति क्वचिदपि स्थले नाशङ्कनीयम्, तस्मात्कारणात हे पाप! परगिरामुत्कृष्टवाचामस्मत्संप्रदायशुद्धनां प्रामाण्यतः प्रामाण्याभ्युपगमे तवादपदो नोदिताः? अपितूदिता एव। अभ्युपगमसिद्धास्वीकारे चतन्त्रसिद्धान्तभङ्गप्रसङ्गादजां निष्काशयतः क्रमेलकागमन्यायापातात्। तथा चोक्तं चतुर्थाध्ययनप्रान्ते-अत्र चतुर्थाध्ययने बहवः सैद्धन्तिकाः केचिदालापकान्न सम्यग् श्रद्दधत्येवं तैरश्रद्दधानैरस्माकपि न सम्यक श्रद्धानमित्याह हरभिद्रसूरिः, नपुनः सर्वमेवेदं चतुर्थाध्यायनम्, अन्यानि वाऽध्ययनानि, अस्यैव कतिपयैः परिमितैलापकैरश्रद्धानमित्यर्थः / यतःस्थानसमवायजीवभिगमप्रज्ञानादिषु किञ्चिदेवमाख्यातं यथा प्रतिसंतापस्थलमस्ति, तद् गुहावासिनश्च मनुजास्तत्र चपरमाधार्मिकाणां पुनः पुनः सप्ताष्टवारान् यावदुपपातः,तेषां च तैरुणैर्यजशिलाघरट्टसंपुर्गिलितानां परिपीड्यमानानामपि संवत्सरं यावत्प्राणव्यापत्तिर्न भवतीति / वृद्धावादस्तु पुनर्यथातावदिदभाष सूत्रं, विकृतिर्न तावदत्र प्रविष्टा, प्रभूताश्चात्र श्रुतस्कन्धेऽर्थाः सुष्ठवतिशयेन सातिशयानि गणधरोक्तानि चैव वचनानि, तदेवं स्थिते न किञ्चिदाशङ्खनीयमिति / विरोधमानं च वेदनीयस्य जघन्या स्थितिरन्तर्मुहूर्तमुत्तराध्ययनेषुक्ता, प्रज्ञापनायां तु द्वादश मुहूर्ता इत्यादी संभवन्त्येव "हेऊदाहरणासंभवे पि' इत्यादिना प्रामाण्याभ्युपगमोऽप्युभयत्र तुल्य इति दिग् / / 42 / / महानिशीथ एवाऽन्यथा वाचनमाशङ्कतेभ्रष्टैश्चैत्यकृत्येऽर्थितः कुवलयाचार्यो जिनेन्द्रालंये, यद्यप्यस्ति तथाऽप्यदः सतम इत्यक्त्वा भवं तीर्थवान् / एतत्किं नवनीतसारवचनं नो मानमायुष्मतां, यत् कुर्वन्ति महानिशीथबलतो द्रव्यस्तवस्थापनम्? ||43|| भ्रष्टैलिङ्गमात्रोपजीवितैः, चैत्यकृत्ये स्वाभिमतचैत्यालयासंपाद