________________ चेइय 1226- अभिधानराजेन्द्रः-भाग 3 चेइय दुष्टं तद् यदितत्र कः खलु विधिव्यापारसारस्तदा। तस्तादीदशकर्मणीहितगुणाऽधिक्येन निर्दोषतां, ज्ञात्वाऽपि प्रतिमार्चनात् पशुरिव त्रस्तोऽसि किं दुर्मते ! / 37 / (वदिति) यद् ज्ञानादिलाभार्थिनां प्रवृत्तिविषयो नद्युत्तरणं, तद् यदि दुष्ट स्यात्तदा तत्र, खल्विति निश्चये, विधिव्यापारस्य विध्यर्थस्य सारः कः तात्पर्य किम्? विध्यर्थो हि बलवदनिष्टाननुवन्धीष्टसाधनत्वे सति कृतिसाध्यत्वं, पापे च बलवत्यनिष्टं जायमाने तत्र विध्यर्यवाधक एव स्यादित्यर्थः / तस्मादीद्दशे आधिकार्युचिते, नद्यतारादिकर्मणि, ईहितस्येष्टस्य गुणस्याधिक्येन निर्दोषतां स्वरूपतः सावद्यत्वेऽपि बलवदनिष्टाननुबन्धितां विहितत्वेनैव ज्ञात्वाऽवि तद्दष्टान्तेनैव चेतःशुद्धिसंभवात्। हे दुर्मते दुष्टबुद्धेः प्रतिमार्चनात्पशुरिव किं त्रस्तोऽस्ति भयं प्राप्तोऽसि?, विशेषदर्शितत्रासप्रयोजककुमतिनिरासस्यायं नाश इति भावः। प्रति ।(उत्सर्गापवादसूत्रं पञ्चमहार्णवसूत्रं 'णईसंतार' शब्दे वक्ष्यते) अत्र हि संख्यानियमोऽपोद्वत्वनस्य यतनया कल्पनाशतच्छनाप्रयोजकत्वमिति यावत्, परतस्त्वाज्ञाभङ्गानवस्थाभ्यां यतनयाऽपि न तथात्वमिति बोध्यम् / तदेवं पुष्टालम्बनेनापवादेऽपि त्रासौचित्यमिति स्थितम्।।३७ / / प्रति / दृष्टान्तातरेण समर्थनमाहगदिङ्गविघर्षणैरपि सुतं मातुर्यथाऽहेर्मुखात्, कर्षन्त्या न हि दूषणं ननु तथा दु खानलार्चितात्। संसारादपि कर्षतो बहुजनान् द्रव्यस्तवोद्योगिनस्तीर्थस्फातिकृतो न किञ्चन मतं हिसांशतो दूषणम् // 38 // (गर्त्तादिति) यथा गर्ताद्विवरादतित्वरयाऽङ्गस्य विघर्षणैरपि कृत्याऽहेर्मुखात्सर्पस्य वदनात्सुतं कर्षन्त्याः मातुन हि, नैव, दूषण, ननु निश्चये, तथा दुःखानलार्चितादसुखानिलज्वालापूरितात् संसारादपि बहुजनानन् बीजाधानद्वारेण कर्षतो द्रव्यस्तवे उद्योगिन उद्यमवतस्तीर्थस्फातिकृतो जिनशासनोन्नतिकारिणः हिंसाशतोऽपि हिंसांशेन न किञ्चन दूषणं मतं, स्वरूपहिंसाया दोषस्यावलत्वादुद्देश्यफलसाधनतयाऽनुबन्धतो दोषतादवस्थ्यात् // 38|| एतत्ससमर्थितष्ठान्तन्यायं प्रकृते योजयितुमाहएतेनैव समर्थिता जिनपतेः श्रीनामिभूपान्वयव्योमेन्दोः सुतनीवृतां विभजना शिल्पादिक्षाऽपि च / / अंशोऽस्यां बहुदोषवारणमतिश्रेष्ठो हि नेष्टोऽपरो, न्यायोऽसावपि दुर्गतद्रुमवनप्रोद्दामदावानलः॥३ण।।। (एतेनैवेति) एतेनोपदर्शितेन सुतकर्षणद्दष्टान्तेनैव श्रीनाभिभूपरय योऽन्वयो वंशस्तदेव व्योमाऽतिविशालत्वातन्दुः परमसौम्यलेश्यत्वाजगन्नेत्रा सेचनकत्वात् च तस्य विशेषणेनैव झटित्युपस्थितेर्विशेषानुपादानान्न न्यूनत्वम्। जिनपतेस्तीर्थंकरस्य, श्री ऋषभदेवस्येत्यर्थः। सुतनीवृतां सुतदेशानां विभजना विभज्य दानं, शिल्पादीनां शिक्षाऽपि च, प्रजानामिति शेषः / समर्थिता निर्दोषतयोपदर्शिता, नीवृदन्वितस्य सुतपदस्य शिक्षायां पृथगनन्वये सुतेभ्य इत्यध्याहारावश्यकत्वेऽन्यथा विधेयाविमर्शदोषानुद्धारे सुष्ठ शोभनातालक्ष्मीर्यति नीवृत्समानाधिकरणविशेषणमेव व्याख्येयम् / अस्यां सुतनीवृद्विभजनायां शिल्पादिशिक्षायां च बहुदोषस्यरथा मात्स्यन्यायेनान्यायप्रवृत्ति लक्षणस्य वारणमतिश्रेष्ठोऽधिकारिणा भगवता अत्यन्तमभिप्रेतः, हि निश्चतमपरोऽनयोंऽशोऽनुषङ्गहिंसारुपो नेष्टः, उपेक्षित इति यावत्। तस्य स्वापेक्षयाऽवलबद्दोषत्वाभावेन प्रवृत्तव्याघातकत्वाद सावपिन्यायो निर्देशलक्षणः दुर्भत द्रव्यस्तवानभ्युपगते द्रुमवने वृक्षसमूह प्रोद्दामः प्रवरतरो दावानलो दावाग्निः, एतन्मायोपस्थितौ प्रतीतस्यापि दुर्मतस्य त्वरितमेव भस्मीभावात्, द्रव्यस्तवेऽप्यधिकारिणो गृहिणो भक्त्युदेकेण बोधिलाभहेतुत्वस्यैवांशस्यैवेष्टत्वादितरस्योपेक्षणीयत्वादिति भावः / प्रति०॥ (11) महानिशीथाक्षराणि तत्प्रामाण्वज्ञापनपूर्वं दर्शयतिकिं योग्यत्वकृत्स्नसंयमवतां पूजासु पूज्या जगुः, श्राद्धानां न माहनिशीथसमये भक्त्या त्रिलोकीगुरोः। नन्दीदर्शितसूत्रवृन्दविदितप्रामाण्यमुद्राभृतो, निद्राणेषु पतन्ति मिणिगमडमत्कास इवैता गिरः॥४०|| (किं योग्यत्वमिति) किमकृत्स्नसंयमवतां देशविरतानां श्राद्धाना भक्त्याऽतिशयेन रागेण त्रिलोकीगुरोस्त्रिभुवनधर्माचार्यस्य पूजासु पुष्पादिनाऽर्चनेषु पूज्या गणधरा महानिशीथसमये महासिद्धान्ते योग्यत्वं न जगुः? अपि तु जगुरेव ।प्रति / दव्वत्थवा उ भाव-त्थवं तु दव्वत्थउ बहुगुणो भवउ / तम्हा वुहजणबुद्धी-हिं छकायाहियं तु गोयमाऽण्णुढे / / अकसिणपवत्तगाणं, विरयाविरयाण एस खलु जुत्तो। जे कसिणंसंजमविऊ, पुप्फादीयं न कप्पए तेसिं / / किं मन्ने गोयम! ए-सा वित्ती सदाणुट्ठिए जम्हा। तम्हा उभयं पि अणु-ट्ठिजेत्थं न वुजसी विणओ।। गामावंतं तेसिं, भावत्थवऽसंभवो तह य। भावचणा य उत्तम, दसन्नभद्देणुयाहरणं // तह चेव चक्कहरभा-णुससिदत्तदमगादिहि विणिदेसो। पुच्छं ते गोयम! ता-वजं संरिंदेहिँ भत्तीओ / / सब्धियढिएँ अण्णण्णसा-मपूयासकारए कए। ता किं तं सव्वसावचं, तिविहं विरएहिँऽणुट्ठियं / / उआहु सव्वथामेसु, सव्वहाऽविरएसु उ। भयवं! सुरवरिंदेहि,सटाथामेसु सव्वहा।। अविरइएहि सुभत्तीए, पूयासक्कारए कए। जइ एवं तओ वुज,! गोयमा! मनिसेसयं / / देसविरयऽविरयाणं, विणिओगमुभयत्थविसयमेव / सव्वतित्थंकरेहिं,जं गोयम! संसमायरियं / / कसिणट्टकम्मखका-रियं तु भावत्थयमणुचिहे। भवती उ गमागमजं, तु फरिसणाइ पमद्दणं तत्थ / / सपरहिओवरयाणं,ण मणं पि पवत्तए तत्थ। ता सपरहिआवरएहिं सव्वहा णेसियव्वं विसेसं / / जं परमसारभूयं, विसेसवंतं च अणुढेयं / ता परमासरभूयं, बिसेसवंतं *च साहुवग्गस / / एगंतहियं पत्थं, सुहावह एय परमत्थं / * अणुण्णवगस्स इत्यपि पाठः /