SearchBrowseAboutContactDonate
Page Preview
Page 1249
Loading...
Download File
Download File
Page Text
________________ चेइय 1225- अभिधानराजेन्द्रः-भाग 3 चेइय ताद्दशपदबोध्यत्वरूपस्येन्द्रादिपदे संभवात्, तादशपदविशिष्ट इन्द्रादिश्चेतन एव देवता, विशेषणस्येन्द्रादिपदस्येन्द्रादश्चेतन एव | देवतात्वे नानाभावात् तत्तद्बीजाक्षराणामानन्त्येन तेषां चतुर्थ्यन्तत्वाभावेन देवतात्वायोगात् / न च तथाऽपि देवताशरीराणामानत्यम्, बालादिना भिन्नशरीरेषु चैत्रत्वादिवदिति वाच्यम्, चैतन्यसिद्ध देवतात्वे दन्द्रत्वजातेरदृष्टाविशेषोपग्रहितत्वस्य चानुगतत्वात्। ईश्वरे च देवतात्वे मानाभावात्, ईश्नादेः कर्मफलं भोक्तुंजीवभूतस्यैव देवतात्वात्, ईश्वरीयाहूतिश्रुतेरपीशानपरत्वात्, आकाशाहूतिश्रुतिरपितदाधिष्ठातृदेवपरोति न्यायमालायाम् / अद्दष्टविशेषोपग्रहो देवगतिनामर्मोदयो देवताव्यवहारप्रयोजकः, तीर्थकरनामकर्मोदयश्च देवाधिदेवव्यवहारप्रयोजकः उपासनाफलप्रयोजकश्च मन्त्रमयदेवता, नयश्च समभिरूढनयभेदः तदुपजीव्युपचारोपायमादाय संयतानामपि देवतानमस्कारौचित्यमित्ययं संप्रदायाविरुद्धोऽस्माकं मनीषोन्मेषः / तत्सिद्धमेतत्-वीतरागोदेशेन द्रव्यस्तवोऽपि भावयज्ञ एवेति॥३४॥ भावापद्विनिवारणगुणेन कृतां स्थपनामेव द्रढयतिसम्यग्दष्टिरयोगतो भगवतां सर्वत्र भावापदं, भेत्तुं तङ्ग वने तदर्चनविधिं कुर्वन्नदुष्टो भवेत्। वाहिन्युत्तरणोद्यतो मुनिरिव द्रव्यापदं निस्तरन्, वैषम्यं किमिहेति हेतुविकलः शून्यं परं पश्यतु? ||35|| सम्यगद्दष्टिः भगवतां तीर्थकृताम्, अयोगतो विरहात्, सर्वत्र सर्वस्थाने भावापदं भेक्षु तद्भने भगवदायतने च तदर्चनविधि विहितां भगवत्पूजां कुर्वन्नदुष्टो न दोषवान् भवेत, क इव?, रूव्यापदमन्यतो विहारायोरूपां निस्तरन्निस्तरणकामः, वाहिन्या नद्यां तत्तदधिकार्यों चित्ये च तुल्यत्वादेकन्न नित्यत्वं, कारणनित्यत्वात्, अन्यत्र नैमित्तिकत्वं च, निमित्तमात्रापेक्षणादित्यस्योपपत्तेरिति / इतिः पर्यनुयोगे, हेतुविकलः प्रत्युत्तरदानासमर्थः, परं केवलं, शून्यं पश्यतु, दिग्मूढस्तिष्ठत्विर्थः / / 35 / / __ वैषम्यहेतुमाशङ्कय निराकरोतिनो नद्युत्तरणे मुनेर्नियमनाद् वैषम्यमिष्टं यतः, पुष्टालम्बनकं न नियमितं किं तु श्रुते रागजम् / अस्मिन् सत्त्ववधे वदन्ति किल ये ऽशक्यप्रतीकारतां, तैर्निन्दामि पिवामि चाम्भ इति हि न्यायः कृतार्थः कृतः।३६। सुनेः नद्युःत्तरणे नियमनात् संख्यानियमाभिधानात् श्राद्धस्य पूजायां तदभावाद्वैषम्यमिष्टमिति नो नैव वाच्यं, यतः तन्नद्युत्तरणं पुष्टालम्बनकं ज्ञानादिलाभकारणं, न नियमितं,किंतु श्रुते सिद्धान्ते, राग रागप्राप्तम् इत्थमेव, नखनिर्दलनप्राप्तावघातनिषेधार्थप्रोक्षरणविधेरिव रागप्राप्तनद्युत्तरणनिषेधार्थं, प्रकृतस्य नियमविधित्वोपपत्तेः / द्रव्यस्तवविधिस्तु गृहिणोऽपूर्व एवेति सामान्ययोगात्, पुष्टालम्बनं तु वर्षास्वपि ग्रामानुग्राम विहारकरणमप्यनुतातउतमिति कस्तत्र संख्यानियमः? तथा च स्थानाङ्ग सूत्रम्-'वासावास पजोसवियाणं नो कप्पइ निग्गंथाण वा गामाणुग्गामं दूइज्जित्तए। पंचहिं ठाणेहिं कप्पइ / तं जहा-णाणट्टयाए दसणट्टयाए चारित्तट्ठयाए आयरिअउवज्झायवासे वीसमेज्जा आयरियउज्झायाणं वा बहिया अयावश्चकरणयाए त्ति' तत्र च मालवादावेक दिनमध्येऽपि वहुशो नद्युत्तरेणं संभवतीति अशक्यपरिहारसमाधिमाश्रित्याऽऽहअस्मिभद्युत्तरणे, सत्त्ववधे जलादिधाते येऽशक्यप्रतीकारतां वदन्ति तैः अम्भो जलं निन्दामि पियामि चेति न्यायः कृतार्थः कृतः, सत्ववधनात्रस्य निन्दनान्नद्युत्तरणं संभविनश्च तस्याश्रयणात्। शक्यं ह्येवं प्रतिमार्चनऽपि वक्तुम् / भक्तिसाधनीभूतपुष्पादिसत्त्ववधस्य शक्यपरिहारत्वात्तकरणे तत्परिहारः शक्य इति चेत्, नद्युत्तरणे तज्जीववधपरिहारः शक्य इति तुल्यम् / साधुना कुलाद्यप्रतिबद्धेन विहारस्तावदवश्यं कर्तव्यः, स च नद्युत्तरणं विना न संभवतीत्य-- नन्यगत्यैव नद्युत्तरणमिति चेत्, साधुधर्माशक्तस्य श्राद्धस्याऽवश्यं कर्तव्या भगवद्भाक्तिः प्रतिमाऽर्चनं विना न संभवतीत्यत्राप्यनन्यगतिः तुल्या / एतेनैकत्रैव प्रतिक्रमणस्यासाधकत्वात् "नइसंतरणे पडिकमइ'' इत्यागमे तत्सिद्धेः / यदि त्वधिकराज्ञानिरपेक्षेर्यापथिक्येव नदीप्राणयधशोधिकारी स्यात्तदा साधुदानोद्यतः श्राद्धेऽनाभोगादिना सचित्तस्पर्शमात्रेणाऽश्राद्धोऽपि तां प्रतिक्रम्य शुद्धः स्यात् / यथा प्रत्याख्यानस्य सर्वसावधानां साधूनां पानादिगताने कजलादिजन्तुघातोत्पन्नं पातकमपाक्रियते, तथा गृहिणोऽनाभोगतः सचित्तस्पर्शमात्रजन्यपातकापाकरणमीषत्करमेवेति, संख्यानियमोऽपि न कल्पते। द्विवारादिनिषेधे एकश उत्तारविधायिनः षड्जीवनवधपातकस्य वा परिहार्यत्वात्, शवलत्वकनिषेधाय तदादरणस्याप्याज्ञामात्रशरणत्वात्। संख्यानियमेनैव पातकित्वे च सांवत्सरिकप्रतिक्रमणेऽतिप्रसंगः। किं चलुम्पकाभिमते शास्त्रे वापीर्यापथिकी नधुत्तारे नोक्ता, किंतु ''हत्थसयादागंतु" इत्यादि नियुक्तिगाथैवेति किमनेनाभिधानेनालजालकल्पेन? अथ भगवतामेव नद्युत्तारे ईर्याप्रतिक्रान्तिर्न द्रव्यस्तवे इत्यत्र को हेतुरिति पृच्छामीति चेत्, यदि वकोऽसि तर्हि व्रतभङ्गजमहापातकशेधक स्याप्रतिपन्नशोधनेऽशक्त त्वानमहातरून्मूलकस्य तृणोओन्मूल इवेत्युत्तरमाकलय / वस्तुत ईयां प्रतिक्रम्यैव तद्विधानात् तत्र वर्तमानः श्रावकः साधुर्वा सचित्तादिसंघाटे चर्यातोऽतिरिक्तामीर्या प्रतिक्रामेत्, द्विविधं त्रिविधेन प्रत्याख्यालक्षणस्य सामायिकपोषधादेस्त्रिविधं त्रिविधेन प्रत्याख्यालक्षणस्य सामायिकच्छेदोपस्थापनीयादिचारित्रस्यातिचारलक्षणं मालिन्यं मा भूदित्याभिप्रायादित्यर्थः / तथैर्यापथिकस्य सामायिकादिव्रतान्येव न पुनरानुषङ्गिकं पृथिव्याद्यारम्भवद्धर्मानुष्ठानमानम्, अन्यथाऽभिगमनादावपि तदभिधानप्रसंगात्। अत एव कृतसामायिको मुनिरिव भावकः पुष्पादिभिर्जिनपूजां न करोतीति जिनाज्ञा, न पुनरितरोऽपि, कृतसामायिकस्य तदवाप्तपूर्तिकाल यावत्सचित्तादिस्पर्शरहितस्यैव व्रतपालकत्वात्, जिनपूजां चिकीर्षुस्तु सचित्तपुष्पादिवस्तून्युपादायैव तां करोति, तद्विना पूजाया एवाऽसंभवात् / प्रति कार्य कारणस्य भिन्नत्वादिति बोध्यम् / लोकेऽपि यथा गृहप्रवेशेऽभ्युपगमलक्षणं नापणप्रवेशे, तथा लोकोत्तरेऽपि सामायिकेऽर्थे जानतिथादासादाविति भावः। "अपभिकताए इरियावहियं न कप्पइ चेव किंचिकाउं' इत्यत्र न किञ्चिदिति विशेषः, "परमेव चेइवंदणसज्झाए'' इत्यग्रिमपरदेनैव तदभिव्यक्तेरिति बोध्यम्॥३६।। दृष्टान्तीकृते नद्युत्तरणे दुष्टत्वं न्यायेन साधयतियन्नद्युत्तरणं प्रवृत्तिविषयो ज्ञानादिलाभार्थिनां,
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy