________________ चेइय 1224- अभिधानराजेन्द्रः-भाग 3 चेइय योगेषु प्रणिधानतो व्रतभूजां स्याद्वावयज्ञो ह्ययम्। भावापद्विनिवारणोचितगुणा ह्यप्यत्र हिंसामतिमुंढानां महती शिला खलु गले जन्मोदधौ मज्जताम् // 3 // (सत्तेन्त्रेति) सत्तन्त्रे सच्छास्त्रे उक्तः पूजापूर्वापराङ्गी भूतो''दहतिगअहिगमपणगं" इत्यादिनाऽभिहितो दशत्रिकादिक विधिस्तस्मिन्विषये, सूत्रं च अर्थश्च मुद्रा च क्रिया च तल्लुप्तणेषु योगेषु, प्रणिधानतो, हि निश्चितम्, अयं द्रव्यस्तवः भावयज्ञः स्यात्, अभ्युदयनिश्चयहेतुयज्ञरूपत्वात्तदाह एतदिह भावयज्ञः सदगृहिणो जन्मफलमिदं परममभ्युदयविच्छित्त्या नियमादपवर्गतरुवीजमिति / हि निश्चितमत्र द्रव्यस्तवे, जिनविरह-प्रयुक्ततद्धिनयासंपत्तिरूपाया भावापद्विनिवारणोचितो गुणो यत्र तादृशाऽपि हिंसामतिः, सा खलु मूढानां विपर्यस्तानां जन्मोदधौ संसारसमुद्रे मज्जतां गले महती शिला। मजता हि पापानां गले शिलारोप उचित एवेति सममलङ्कारः। “समं योग्यनयानयोगो, यदि संभावितःक्वचित् / इति काव्यप्रकाशकारः।इदं पुनरत्र विचारणीयम्-भावोपपदः स्तयशब्द इव भावोपपदो यज्ञशब्दश्चारित्रमेवाचष्ट इति कथं द्रव्यज्ञतवे भावयज्ञपदप्रवृत्तिः?, द्रव्यस्तवशब्दस्यैव प्रवृत्तेरौचित्यात् / यज्ञशब्दो लौकिकयोगे प्रसिद्ध इति व्यावर्त्तनेन भावपदयोगः प्रकृते प्रवर्त्तयिष्यते, तर्हि स्तवशब्दोऽपि स्तुतिमात्रे प्रवृत्तो भावशब्दयोगेन प्रकृते प्रवर्त्तताम्, "संतगुणाकित्तणाभावे" त्ति नियुक्तिस्वारस्यात् / गुणवत्तया ज्ञानजनकव्यापारमात्रे शक्रस्तवपदं भावपदयोग आज्ञाप्रतिपत्तिरूपे विशेष एव पर्यवसायमतीतितत्कारणे द्रव्यस्तवपदप्रवृत्तिरेव युक्तेति चेत्, तर्हि"महाजयं जयइ जन्नमिट्ट" इत्यागमात् भावयज्ञपदस्यागमे चारित्र एव प्रसिद्धेर्द्रव्यस्तवपदप्रवृत्तेरेवौचित्यमिति देवतोद्देशकत्यागे ओगशब्दस्य प्रयोगः प्राप्नुयात् / भावपदोपसंदानेन वीतरागदेवतापूजया तत्प्रवृत्तिपर्यवसानमिति तु युक्तम्। आह च-'देवोद्देशेनैतद्राहिणां कर्त्तव्यमित्यलं शुद्धः / अनिदानः खलु भावः, स्वाशय इति गीयते तद्ज्ञैः।।" इति देवतोद्देशेन त्यागत्वनिश्चयत आत्माद्देशेनैव, देवतात्वं वीतरागत्वमिति रागात्समर्षितस्य स्वात्मन्युफ्नयनात्।। योगास्तु देवतात्वं मन्त्रकरणकहर्विनिष्ठालभामित्वेनोद्देश्यत्वम् ,अतश्चतुर्थी विनाऽपीन्द्रादेर्देवतात्वं, हविर्निष्ठफलं स्वगतमतो नयागजन्यस्वर्गरूपफलश्रयकर्त्तर्यव्याप्तिः। न / च मन्त्रं विनेन्द्राय स्वाहेत्यनेन त्यागे देवतात्वं न स्यादिति वाच्यम्, मन्त्रकरणकत्यागान्तरमादाय देवतात्वात्, स्वाहास्वधाऽन्तरस्यैव प्रकृते मन्त्रत्वात्। पित्रादीनां स्वधया त्यागे देवतात्वम्, न तु प्रेतस्य, नमः पदेनैव तदा त्यागाशुद्धात्, अपितु देवतात्व च ब्राह्मणपठितस्वमन्त्रात् ब्राह्मणाय स्वाहेत्यनेन ब्राह्मणाय त्यागेऽपि स्वाहेत्यस्य न ब्राह्मणस्वत्वहेतुत्वं, तद्विनाऽपि प्रतिग्रहमात्रादेव तत्सत्त्वसंभवात् / अद्दष्टजनकत्वेन वा त्यागो विशेषणीयः, स्वाहेत्यनेन ब्राह्मणाय त्यागो नाद्दष्टहेतुः, पामरेण मन्त्रं विनाऽपीश्वराय त्यागे ईश्वरस्य देवतात्वं मन्त्रकरणकं त्यागान्तरमत एव उद्देश्यत्वं उद्देश्यतावच्छेदकावच्छिन्नोपलक्षक, केवलमैन्द्रया देवतात्ववारणाय विशिष्ठत्वेनोद्देश्यत्वाद्विशिष्टस्यैव देवतात्वा-दित्वाहुः / तद्वालचापलमात्रम् / योगिनामुपासनीयाया वीतरागदेवताया एव प्रसिद्धरहङ्कारममकारात्मकस्वत्वस्य तन्निरूपितस्य कुतोऽपि क्वचिदपादानासंभवात्, सरागेश्वरदेवतायाश्च रागविडम्चितैरेवाभ्युपगन्तुमर्हत्वात् / वीतरागोद्देशेन / कृतात्समन्त्रा त्कर्मणोऽध्यवसायानुरोधिफलाभ्युपगमे तु मन्त्रकरणकोपसनेतिकर्तव्यता लम्बनत्यमेव देवतात्वमिति युक्तम् / संसारिदेवत्वं च देवगनामकर्मोदयवत्त्वं, संसारिषु संसारगामिनामितरेषु चेतरेषां भक्तिः स्वरससिद्धति तु योगतन्त्रप्रासिद्धम्। तदुक्तंयोगद्दष्टिसमुचये--''संसारिषु हि देवेषु, भक्तिस्तत्कायगामिनाम्। तदतीते पुनस्तत्त्वे, तदगीतार्थयायिनाम् // 1 // " इति स्वाहास्वधान्यतरस्यैव मन्त्रत्वमित्ययमपि नैकान्तः; मन्त्रन्यासे नमः पदस्यापि तत्त्वश्रवणात् / तदुक्तम्'मन्त्रन्यासस्तु तथा, प्रणवनमःपूर्वकं च तन्नाम / मन्त्रः परमो ज्ञेयो, मननात् त्राणे ह्यतो नियमात्।१।" इति / मीमांसकस्तुइन्द्रविश्यतेनस्य सतोऽपि न देवतात्वं, तद्धि देशनादेशितचतुर्थ्यन्तपदनिर्देश्यत्वम् / आयरणाय दद्यादित्यादौ ब्राह्मणादेर्देवतात्वरणाय देशनादेशितेति / देशना वेदः तेन यत्र यागे हविषि वा चतुर्थ्यन्तपदनिर्देश्यतया यो बोधितः स तत्र देवता / ऐन्द्रं दधि भवतीत्यादौ देवतातद्धितविधानादिन्द्रोऽस्य देवतेत्यर्थः / देवतात्वमत्र चतुर्थ्यन्तपदनिर्देश्यमत्वमेवेति नान्याऽन्याश्रयः / इन्द्राय स्वाहेत्यादौतु चतुर्थ्या देशनादेशितचतुर्थ्यन्तपदनिर्देश्यत्वमर्थः / इन्द्रपदं स्वपरताद्दशनिद्देश्यत्ववदिन्द्रपदकस्त्याग इति वाक्यार्थः। अत एव ब्राह्मणाय स्वाहेत्यादि न प्रयोगः, स्वाहा दिपपदयोगे देवताचतुर्थ्या एव साधुत्वेन ब्राह्मणादेर्निरुक्तदेवतात्वाभावात् / तत्र हि संप्रदानत्वबोधकचतङ्केव।एवं पृथक् सूत्रप्राणयनमेव, आकाशाय स्वाहेत्यादिसंप्रदानचतुर्थ्यभावेऽपि "नमः स्वस्ति ||2 / 3 / 16 / / इत्याधुपपदचतुर्थी संभवः / मन्त्रलिङ्गादिनाचयत्र देवत्वावगमः तत्र ततस्तथाश्रुत्युनयनाद्देशनादेशितत्वम्। इत्थमेवेन्द्राय स्वाहेत्येव प्रयोगो, नतु शक्राय स्वाहेति पर्यायान्तरेऽपीत्यनेन चेतनैव देवतात्वम्, अग्रेय प्रजापतये चेत्यादौ देवताद्वयकल्पने गौरवाद्वाक्यभेदप्रसङ्गाच चकारवलाच विशिष्टस्यैव देवतात्वम्, अग्रिप्रजाततिभ्यां स्वाहेत्येव प्रयोगात्। धृतिहोमे 'धृतिर्वो देवता रक्षायै चतुर्थ्यन्तेति चतुर्थ्यन्तेत्यर्थकः धृति स्वाहेत्यादी प्रथमाया एव चतुर्थीविधानात् / अथ देवोद्देशेन क्रियमाणत्वात् ब्राह्मणोद्देशेकत्यागवात् घृतोद्देशेन क्रियमाणे दधि व्यभिचारवारणाय सत्यन्तम्। तत्परिशेषात् स्वामित्वादिति सिद्ध देवता चैतन्यमिति चेत्। न। अप्रयोजकत्वात्। तन्निष्ठकिञ्चिदुदेशनायं क्रियताम् न त्वस्योपाधित्वच / न हि हविस्त्यागो देवतानिष्ठकिञ्चिदुद्देशेन क्रियते, किंतु स्वनिष्ठफलोद्देशेन / शिवाय गां दद्यादित्यादौ तूद्देश्यत्वेनोक्ता चतुर्थी , ददातिस्त्यागमात्रपर इति नानुपपत्तिरित्याह!तदसत्। चतुर्थ्यन्तपदस्य देवतात्वे भावाभावात्, चतुर्थी विनाऽपीन्द्रो देवतेति व्यवहारात, अग्नये कव्यवहायेत्यादौ देवताद्वयप्रसङ्गात्।"इन्द्रः सहस्त्राक्षः" इत्यार्थ-वादस्य इन्द्रमुपासीतेति विशेष्यतया स्वर्गार्थिवादवत् प्रामाण्यात्, इन्द्रायेत्यदी श्रुतपदेनेव त्यागस्य फलहेतुताया वचनसिद्धवात्, "तिर्यग्पङ्कतिराधार्धेयदेवतानामधिकारः" इति जैमनिसूत्रस्यैव देवताचैतन्यसाधकत्वात अचैत्यन्येऽधिकाराप्रसक्त्या तन्निषेध्यानौचित्वात्। सूत्रार्थश्चवमतिरश्या विशिष्टान्तः संज्ञाविरहात्, पङ्गोः प्रचरणाभावात्, तिस्त्रो दृष्ठिश्रुतिवाच आर्षेया ऋत्विग्योग्यास्त्रिमूख्या येषामन्धबधिरमूकानां दर्शनश्रवणोचारणासमर्थानां तिस्त्राईयाणामिति त्रिप्रवराणामेवाधिकारो, न त्वेकाद्विचतुः प्रवरादीनां देवतानामनाधिकारित्वाभेदेन संप्रदानत्यायोगादिति। एतेन देशनादेशितचतुर्थ्यन्तपदनिर्देश्यत्वस्य